प्रथमं मण्डलम् - सूक्तम् 29

7 ऋचः

ऋषिः: शुनःशेप आजीगर्तिः देवता: इंद्रः छन्दः: पंक्तिः

सूक्तम् 1.29 - सम्पूर्णम्

1 / 7
ऋक्: 1.29.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (7)
1.29.1
यच्चि॒द्धि स᳚त्य सोमपा अनाश॒स्ता इ᳚व॒ स्मसि᳚ ।
आ तू न᳚ इन्द्र शंसय॒ गोष्वश्वे᳚षु शु॒भ्रिषु᳚ स॒हस्रे᳚षु तुवीमघ ॥
▶ पदपाठः (Word-by-word)
यत् । चि॒त् । हि । स॒त्य॒ । सो॒म॒॑पा॒ । अ॒ना॒श॒स्ताः॑इ᳚व । स्मसि᳚ ।
आ । तु । नः॒ । इ॒न्द्र॒ । शं॒स॒य॒ । गोषु᳚ । अश्वे᳚षु । शु॒भ्रिषु᳚ । स॒हस्रे᳚षु । तु॒वि॒॑म॒घ॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

विश्वैर्देवैः प्रेरितः शुनःशेप एतदादिकाभिर्द्वाविंशतिसंख्याकाभिर्ऋग्भिरिंद्रं तुष्टाव । तथा च ब्राह्मणम् । तं विश्वे देवा ऊचुरिंद्रो वै देवानामोजिष्ठो बलिष्ठः सहिष्ठः सत्तमः पारयिष्णुतमस्तं नु स्तुह्यथ त्वोत्स्रक्ष्याम इति स इंद्रं तुष्टाव यच्चिद्धि सत्य सोमपा इत्येतेन सूक्तेनोत्तरस्य च पंचदशभिः । ऐ ब्रा ७-१६ । इति ॥ हे सोमपाः सोमस्य पातः सत्य सत्यवादिन्निंद्र यच्छिद्धि यद्यपि वयमनाशस्ता इव स्मसि अप्रशस्ता इव भवामः तथापि हे तुवीमघ बहुधनेंद्र त्वं गोष्वश्वेषु शुभ्रिषु शोभनेषु सहस्रेषु सहस्रसंख्याकेषु च निमित्तभूतेषु नोऽस्माना शंसय । सर्वतः प्रसस्तान्कुरु । अस्मद्दोषमनपेक्ष्य गवादीन्प्रयच्छेत्यर्थः ॥ सोमपाः । विजंतः । आमंत्रितनिघातः । अनाशस्ता इव । शन्सु स्तुतौ । निष्ठेति भावे क्तः । यस्य विभाषेतीट् प्रतिषेधः । नञा बहुव्रीहौ नञ् सुभ्यामित्युत्तरपदांतोदात्तत्वम् । स्मसि । इदंतो मसिः । तू नः । ऋचि तुनुघेत्यादिना दीर्घः । गोषु । सावेकाच इति प्राप्तस्य विभक्त्युदात्तत्वस्य न गोश्वन्साववर्णेति प्रतिषेधः । अश्वेषु । अश्नुतेऽध्वानमित्यश्वः । अशिप्रुषीत्यादिना क्वन्प्रत्ययः । नित्त्वादाद्युदात्तत्वम् । शुभ्रिषु । शुभ दीप्तौ । अदिशदिभूशुभिभ्यः क्रिन् (उ ४-६५) इति क्रिन्प्रत्ययः । व्यत्ययेनांतोदात्तत्वं ॥ १ ॥

1.29.2
शिप्रि᳚न्वाजानां पते॒ शची᳚व॒स्तव᳚ दं॒सना᳚ ।
आ तू न᳚ इन्द्र शंसय॒ गोष्वश्वे᳚षु शु॒भ्रिषु᳚ स॒हस्रे᳚षु तुवीमघ ॥
▶ पदपाठः (Word-by-word)
शिप्रि᳚न् । वा॒जा॒ना॒म् । प॒ते॒ । शची᳚॑वः । तव᳚ । दं॒सना᳚ ।
आ । तु । नः॒ । इ॒न्द्र॒ । शं॒स॒य॒ । गोषु᳚ । अश्वे᳚षु । शु॒भ्रिषु᳚ । स॒हस्रे᳚षु । तु॒वि॒॑म॒घ॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे शचीवः शक्तिमन् शिप्रिन् शोभनहनूयुक्त वाजानां पतेऽन्नानां पालक तव दंसना कर्मविशेषोऽनुग्रहरूपः सर्वदा वर्तते । आन्यत्पूर्ववत् ॥ शिप्रिन् । शिप्रे हनू नासिके वा (नि ९-१७) इति यास्कः । अत इनिठनाविति मत्वर्थीय इनिः । आमंत्रिताद्युदात्तत्वम् । वाजानां पते । सुबामंत्रित इति परांगवद्भावात् षष्ठ्यामंत्रितसमुदायनिघातः । न चामंत्रितं पूर्वमविद्यमानवदिति शिप्रिन्नित्यस्याविद्यमानवत्त्वेन पदादपरत्वात्पादादित्वाच्च न निघातः । नामंत्रिते समानाधिकरणे सामान्यवचनमित्यविद्यमानवत्त्वप्रतिषेधात् । शचीवः । छंदसीर इति मतुपो षत्वम् । मतुवसो रुरिति रुत्वे खरवसानयोर्विसर्जनीयः (पा ८-३-१५) पादादित्वादामंत्रितनिघाताभावः ॥ २ ॥

1.29.3
नि ष्वा᳚पया मिथू॒दृशा᳚ स॒स्तामबु᳚ध्यमाने ।
आ तू न᳚ इन्द्र शंसय॒ गोष्वश्वे᳚षु शु॒भ्रिषु᳚ स॒हस्रे᳚षु तुवीमघ ॥
▶ पदपाठः (Word-by-word)
नि । स्वा॒प॒य॒ । मि॒थु॒॑दृशा᳚ । स॒स्ताम् । अबु᳚ध्यमाने॒ इति᳚ ।
आ । तु । नः॒ । इ॒न्द्र॒ । शं॒स॒य॒ । गोषु᳚ । अश्वे᳚षु । शु॒भ्रिषु᳚ । स॒हस्रे᳚षु । तु॒वि॒॑म॒घ॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

मिथूदृशा परस्परं संगतत्वेन दृश्यमाने यमदूत्यौ नि ष्वापय । नितरां सुप्ते कुरु । ते चास्मान्मारयितुमबुध्यमाने सत्यौ सस्ताम् । निद्रां प्राप्नुताम् । अन्यत्पूर्ववत् ॥ नि ष्वापय । सुषामादित्वात् षत्वम् (पा ८-३-९८) अन्येषामपि दृश्यत इति दीर्घः । मिथुनतया युगलरूपेण पश्यत इति मिथूदृशा । क्विप्चेति दृशेः कर्तरि क्विप् । कृदुत्तरपदप्रकृतिस्वरत्वम् । पूर्ववत्पूर्वपदस्य दीर्घः । सुपां सुलुगिति विभक्तेराकारः । सस्ताम् । षस स्वप्ने । लोट तसस्ताम् । अदिप्रभृतिभ्य इति शपो लुक् । प्रत्ययस्वरः । पादादित्वान्निघाताभावः । अबुध्यमाने । नञ् समासेऽव्ययपूर्वपदप्रकृतिस्वरत्वं ॥ ३ ॥

1.29.4
स॒सन्तु॒ त्या अरा᳚तयो॒ बोध᳚न्तु शूर रा॒तयः᳚ ।
आ तू न᳚ इन्द्र शंसय॒ गोष्वश्वे᳚षु शु॒भ्रिषु᳚ स॒हस्रे᳚षु तुवीमघ ॥
▶ पदपाठः (Word-by-word)
स॒सन्तु᳚ । त्याः । अरा᳚तयः । बोध᳚न्तु । शू॒र॒ । रा॒तयः᳚ ।
आ । तु । नः॒ । इ॒न्द्र॒ । शं॒स॒य॒ । गोषु᳚ । अश्वे᳚षु । शु॒भ्रिषु᳚ । स॒हस्रे᳚षु । तु॒वि॒॑म॒घ॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

त्या अस्माभिरदृश्यमानाः परोक्षास्ता अरातयोऽदानशीलाः शत्रवः ससंतु । निद्रां कुर्वंतु । हे शूर शौर्ययुक्तेंद्र रातयो दानशीला बंधवो बोधंतु । अस्मान्बुध्यंताम् । अन्यत्पूर्ववत् ॥ ससंतु । प्रत्ययस्वरः । अरातयः । रा दाने । मंत्रे वृषेत्यादिना भावे क्तिन् । न विद्यते रातिरेष्विति बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । नञ् सुभ्यामिति तु सर्वे विधयश्छंदसि विकल्प्यंत इति न भवति । यद्वा । क्तिच् क्ता च संज्ञायामिति कर्तरि क्तिच् । नञ् समासेऽव्ययपूर्वपदप्रकृतिस्वरत्वम् । बोधंतु । पादादित्वात्तिङ्ङतिङ इति निघाताभावः ॥ ४ ॥

1.29.5
समि᳚न्द्र गर्द॒भं मृ᳚ण नु॒वन्तं᳚ पा॒पया᳚मु॒या ।
आ तू न᳚ इन्द्र शंसय॒ गोष्वश्वे᳚षु शु॒भ्रिषु᳚ स॒हस्रे᳚षु तुवीमघ ॥
▶ पदपाठः (Word-by-word)
सम् । इ॒न्द्र॒ । ग॒र्द॒भम् । मृ॒ण॒ । नु॒वन्त᳚म् । पा॒पया᳚ । अ॒मु॒या ।
आ । तु । नः॒ । इ॒न्द्र॒ । शं॒स॒य॒ । गोषु᳚ । अश्वे᳚षु । शु॒भ्रिषु᳚ । स॒हस्रे᳚षु । तु॒वि॒॑म॒घ॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इंद्र अमुयानयास्माभिः श्रूयमाणया पापया निंदारूपया वाचा नुवंतं स्तुवंतम् । अपकीर्तिं प्रकटयंतमित्यर्थः । तादृशं गर्दभं गर्दभसमानवैरिणं सं मृण । सम्यक् मारय । यथा गर्दभः श्रोतुमशक्यं परुषं शब्दं करोति तथा शत्रुरपि । अन्यत्पूर्ववत् ॥ गर्दभं नर्द गर्द शब्दे । कृगृशृशलिगर्दिभ्योऽभट् (उ ३-१२२) चित इत्यंतोदात्तत्वम् । मृण । मृण हिंसायाम् । तौदादिकः । तस्य ङित्त्वाद्गुणाभावः । नुवंतम् । णु स्तुतौ । शतर्यदिप्रभृतित्वाच्छपो लुक् । शतुर्ङित्त्वाद्गुणाभाव उवङादेशः । प्रत्ययाद्युदात्तत्वं ॥ ५ ॥

1.29.6
पता᳚ति कुण्डृ॒णाच्या᳚ दू॒रं वातो॒ वना॒दधि᳚ ।
आ तू न᳚ इन्द्र शंसय॒ गोष्वश्वे᳚षु शु॒भ्रिषु᳚ स॒हस्रे᳚षु तुवीमघ ॥
▶ पदपाठः (Word-by-word)
पता᳚ति । कु॒ण्डृ॒णाच्या᳚ । दू॒रम् । वातः᳚ । वना᳚त् । अधि᳚ ।
आ । तु । नः॒ । इ॒न्द्र॒ । शं॒स॒य॒ । गोषु᳚ । अश्वे᳚षु । शु॒भ्रिषु᳚ । स॒हस्रे᳚षु । तु॒वि॒॑म॒घ॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

वातोऽस्मत्प्रतिकूलो वायुः कुंडृणाच्या कुटलगत्या स त्वस्मान्परित्यज्य वनादध्यरण्यादप्यधिकं दूरं देशं पताति । पततु । अन्यत्पूर्ववत् ॥ पताति । लेट्याडागमः । कुंडृणाच्या । कुडि दाहे । अस्मात् ल्युडंते कुंडनशब्दे डकारात्परस्याकारस्य ऋकारश्छांदसः । ऋवर्णाच्चेति वक्तव्यमिति णत्वम् । तदंचतीति कुंडृणाची । ऋत्विगित्यादिना क्विन् । अनिदितामिति नलोपेंऽचतेश्चेति वक्तव्यंः । पा ४-१-६-२ । इति ङीप् । अचः (पा ६-४-१३८) इत्यकारलोपः । चौ (पा ६-३-१३८) इति पूर्वपदस्य दीर्घत्वम् । चौ (पा ६-१-२२२) इत्याकारस्योदात्तत्वं ॥ ६ ॥

1.29.7
सर्वं᳚ परिक्रो॒शं ज᳚हि ज॒म्भया᳚ कृकदा॒श्व᳚म् ।
आ तू न᳚ इन्द्र शंसय॒ गोष्वश्वे᳚षु शु॒भ्रिषु᳚ स॒हस्रे᳚षु तुवीमघ ॥
▶ पदपाठः (Word-by-word)
सर्व᳚म् । प॒रि॒॑क्रो॒शम् । ज॒हि॒ । ज॒म्भय᳚ । कृ॒क॒दा॒श्व᳚म् ।
आ । तु । नः॒ । इ॒न्द्र॒ । शं॒स॒य॒ । गोषु᳚ । अश्वे᳚षु । शु॒भ्रिषु᳚ । स॒हस्रे᳚षु । तु॒वि॒॑म॒घ॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

परिक्रोशमस्मद्विषये सर्वत आक्रोशकर्तारं सर्वं पुरुषं जहि । मारय । कृकदाश्वमस्मद्विषये हिंसाप्रदं शत्रुं जंभय । मारय । अन्यत्पूर्ववत् ॥ परिक्रोशम् । क्रुश आह्वाने । परितः क्रोशयतीति परिक्रोशः । पचाद्यच् । कृदुत्तरपदप्रकृतिस्वरत्वम् । जहि । हन हिंसागत्योः । हंतेर्जः (पा ६-४-३६) इति जादेशः । तस्यासिद्धत्वात्स्वार्थिको णिच् । शपः पित्त्वादनुदात्तत्वे णिच एव स्वरः शिष्यते । कृकदाश्वं कृञ् हिंसायाम् । कृदाधारार्चिकलिभ्यः कन् (उ ३-४०) इति भावे कन्प्रत्यये । किदित्यनुवृत्तेर्गुणाभावः । तथा च कृतो हिंसा । तां दाशति प्रयच्छतीति कृकदाशुः । बहुलग्रहणाद्दाशतेरपि कृक उपपदे कृके वचः कश्च (उ १-६) इत्युण् । प्रत्यय स्वरेणोदात्तः । द्वितीयायाममि पूर्वत्वे प्राप्ते वा छंदसीति तस्य बाधितत्वाद्यणादेशः । उदात्तस्वरितयोर्यण इति विभक्तेः स्वरितत्वं ॥ २७ ॥ ७ ॥