स॒सन्तु॒ त्या अरा᳚तयो॒ बोध᳚न्तु शूर रा॒तयः᳚ ।
आ तू न᳚ इन्द्र शंसय॒ गोष्वश्वे᳚षु शु॒भ्रिषु᳚ स॒हस्रे᳚षु तुवीमघ ॥
आ तू न᳚ इन्द्र शंसय॒ गोष्वश्वे᳚षु शु॒भ्रिषु᳚ स॒हस्रे᳚षु तुवीमघ ॥
पदपाठः (Word-by-word)
स॒सन्तु᳚ । त्याः । अरा᳚तयः । बोध᳚न्तु । शू॒र॒ । रा॒तयः᳚ ।
आ । तु । नः॒ । इ॒न्द्र॒ । शं॒स॒य॒ । गोषु᳚ । अश्वे᳚षु । शु॒भ्रिषु᳚ । स॒हस्रे᳚षु । तु॒वि॒॑म॒घ॒ ॥
आ । तु । नः॒ । इ॒न्द्र॒ । शं॒स॒य॒ । गोषु᳚ । अश्वे᳚षु । शु॒भ्रिषु᳚ । स॒हस्रे᳚षु । तु॒वि॒॑म॒घ॒ ॥
सायणभाष्यम् (Sayana Commentary)
त्या अस्माभिरदृश्यमानाः परोक्षास्ता अरातयोऽदानशीलाः शत्रवः ससंतु । निद्रां कुर्वंतु । हे शूर शौर्ययुक्तेंद्र रातयो दानशीला बंधवो बोधंतु । अस्मान्बुध्यंताम् । अन्यत्पूर्ववत् ॥ ससंतु । प्रत्ययस्वरः । अरातयः । रा दाने । मंत्रे वृषेत्यादिना भावे क्तिन् । न विद्यते रातिरेष्विति बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । नञ् सुभ्यामिति तु सर्वे विधयश्छंदसि विकल्प्यंत इति न भवति । यद्वा । क्तिच् क्ता च संज्ञायामिति कर्तरि क्तिच् । नञ् समासेऽव्ययपूर्वपदप्रकृतिस्वरत्वम् । बोधंतु । पादादित्वात्तिङ्ङतिङ इति निघाताभावः ॥ ४ ॥