श्रवणम्

1.29.2
शिप्रि᳚न्वाजानां पते॒ शची᳚व॒स्तव᳚ दं॒सना᳚ ।
आ तू न᳚ इन्द्र शंसय॒ गोष्वश्वे᳚षु शु॒भ्रिषु᳚ स॒हस्रे᳚षु तुवीमघ ॥
▶ पदपाठः (Word-by-word)
शिप्रि᳚न् । वा॒जा॒ना॒म् । प॒ते॒ । शची᳚॑वः । तव᳚ । दं॒सना᳚ ।
आ । तु । नः॒ । इ॒न्द्र॒ । शं॒स॒य॒ । गोषु᳚ । अश्वे᳚षु । शु॒भ्रिषु᳚ । स॒हस्रे᳚षु । तु॒वि॒॑म॒घ॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे शचीवः शक्तिमन् शिप्रिन् शोभनहनूयुक्त वाजानां पतेऽन्नानां पालक तव दंसना कर्मविशेषोऽनुग्रहरूपः सर्वदा वर्तते । आन्यत्पूर्ववत् ॥ शिप्रिन् । शिप्रे हनू नासिके वा (नि ९-१७) इति यास्कः । अत इनिठनाविति मत्वर्थीय इनिः । आमंत्रिताद्युदात्तत्वम् । वाजानां पते । सुबामंत्रित इति परांगवद्भावात् षष्ठ्यामंत्रितसमुदायनिघातः । न चामंत्रितं पूर्वमविद्यमानवदिति शिप्रिन्नित्यस्याविद्यमानवत्त्वेन पदादपरत्वात्पादादित्वाच्च न निघातः । नामंत्रिते समानाधिकरणे सामान्यवचनमित्यविद्यमानवत्त्वप्रतिषेधात् । शचीवः । छंदसीर इति मतुपो षत्वम् । मतुवसो रुरिति रुत्वे खरवसानयोर्विसर्जनीयः (पा ८-३-१५) पादादित्वादामंत्रितनिघाताभावः ॥ २ ॥