नि ष्वा᳚पया मिथू॒दृशा᳚ स॒स्तामबु᳚ध्यमाने ।
आ तू न᳚ इन्द्र शंसय॒ गोष्वश्वे᳚षु शु॒भ्रिषु᳚ स॒हस्रे᳚षु तुवीमघ ॥
आ तू न᳚ इन्द्र शंसय॒ गोष्वश्वे᳚षु शु॒भ्रिषु᳚ स॒हस्रे᳚षु तुवीमघ ॥
पदपाठः (Word-by-word)
नि । स्वा॒प॒य॒ । मि॒थु॒॑दृशा᳚ । स॒स्ताम् । अबु᳚ध्यमाने॒ इति᳚ ।
आ । तु । नः॒ । इ॒न्द्र॒ । शं॒स॒य॒ । गोषु᳚ । अश्वे᳚षु । शु॒भ्रिषु᳚ । स॒हस्रे᳚षु । तु॒वि॒॑म॒घ॒ ॥
आ । तु । नः॒ । इ॒न्द्र॒ । शं॒स॒य॒ । गोषु᳚ । अश्वे᳚षु । शु॒भ्रिषु᳚ । स॒हस्रे᳚षु । तु॒वि॒॑म॒घ॒ ॥
सायणभाष्यम् (Sayana Commentary)
मिथूदृशा परस्परं संगतत्वेन दृश्यमाने यमदूत्यौ नि ष्वापय । नितरां सुप्ते कुरु । ते चास्मान्मारयितुमबुध्यमाने सत्यौ सस्ताम् । निद्रां प्राप्नुताम् । अन्यत्पूर्ववत् ॥ नि ष्वापय । सुषामादित्वात् षत्वम् (पा ८-३-९८) अन्येषामपि दृश्यत इति दीर्घः । मिथुनतया युगलरूपेण पश्यत इति मिथूदृशा । क्विप्चेति दृशेः कर्तरि क्विप् । कृदुत्तरपदप्रकृतिस्वरत्वम् । पूर्ववत्पूर्वपदस्य दीर्घः । सुपां सुलुगिति विभक्तेराकारः । सस्ताम् । षस स्वप्ने । लोट तसस्ताम् । अदिप्रभृतिभ्य इति शपो लुक् । प्रत्ययस्वरः । पादादित्वान्निघाताभावः । अबुध्यमाने । नञ् समासेऽव्ययपूर्वपदप्रकृतिस्वरत्वं ॥ ३ ॥