श्रवणम्

1.29.5
समि᳚न्द्र गर्द॒भं मृ᳚ण नु॒वन्तं᳚ पा॒पया᳚मु॒या ।
आ तू न᳚ इन्द्र शंसय॒ गोष्वश्वे᳚षु शु॒भ्रिषु᳚ स॒हस्रे᳚षु तुवीमघ ॥
▶ पदपाठः (Word-by-word)
सम् । इ॒न्द्र॒ । ग॒र्द॒भम् । मृ॒ण॒ । नु॒वन्त᳚म् । पा॒पया᳚ । अ॒मु॒या ।
आ । तु । नः॒ । इ॒न्द्र॒ । शं॒स॒य॒ । गोषु᳚ । अश्वे᳚षु । शु॒भ्रिषु᳚ । स॒हस्रे᳚षु । तु॒वि॒॑म॒घ॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इंद्र अमुयानयास्माभिः श्रूयमाणया पापया निंदारूपया वाचा नुवंतं स्तुवंतम् । अपकीर्तिं प्रकटयंतमित्यर्थः । तादृशं गर्दभं गर्दभसमानवैरिणं सं मृण । सम्यक् मारय । यथा गर्दभः श्रोतुमशक्यं परुषं शब्दं करोति तथा शत्रुरपि । अन्यत्पूर्ववत् ॥ गर्दभं नर्द गर्द शब्दे । कृगृशृशलिगर्दिभ्योऽभट् (उ ३-१२२) चित इत्यंतोदात्तत्वम् । मृण । मृण हिंसायाम् । तौदादिकः । तस्य ङित्त्वाद्गुणाभावः । नुवंतम् । णु स्तुतौ । शतर्यदिप्रभृतित्वाच्छपो लुक् । शतुर्ङित्त्वाद्गुणाभाव उवङादेशः । प्रत्ययाद्युदात्तत्वं ॥ ५ ॥