प्रथमं मण्डलम् - सूक्तम् 149

5 ऋचः

ऋषिः: दीर्घतमा औचथ्यः देवता: अग्निः छन्दः: विराट्

सूक्तम् 1.149 - सम्पूर्णम्

1 / 5
ऋक्: 1.149.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (5)
1.149.1
म॒हः स रा॒य एष᳚ते॒ पति॒र्दन्नि॒न इ॒नस्य॒ वसु᳚नः प॒द आ ।
उप॒ ध्रज᳚न्त॒मद्र᳚यो वि॒धन्नित् ॥
▶ पदपाठः (Word-by-word)
म॒हः । सः । रा॒यः । आ । ई॒ष॒ते॒ । पतिः᳚ । दन् । इ॒नः । इ॒नस्य᳚ । वसु᳚नः । प॒दे । आ ।
उप᳚ । ध्रज᳚न्तम् । अद्र᳚यः । वि॒धन् । इत् ॥
▶ सायणभाष्यम् (Sayana Commentary)

महः महतः पूज्यस्य रायः गवादिरूपस्यधनस्यपतिः पालकः स्वामीसोऽग्निः दन् ददत् अभिमतं- प्रयच्छन् ददातेःशतरिछान्दसःश्पोलुक् तस्यछन्दस्युभयथेत्यार्धाधातुकत्वादातोलोपइटिचेत्याकार- लोपः आआभिमुख्येन अस्मद्देवयजनंप्रति ईषते गच्छति किंच इनस्यस्वामिनोऽपि इनः स्वामीसर्व- स्यपतिरित्यर्थः ईदृशोऽयं वसुनोधनस्यपदेआस्पदभूतेवेदिस्थानेआआश्रयति उपसर्गवशाद्योग्यक्रिया- ध्याहारः यद्वा वसुनोनिवासयोग्यस्य धनस्यापिइनइतिसंबन्धः यद्वा वसुप्राप्तिः प्रसिद्धा किंच उप- ध्रजंतं उपगच्छन्तमेनंअभिषवार्थं अद्रयः ग्राववन्तोयजमानाः विधन्नित् परिचरन्त्येव विधविधाने तौदादिकः लङि बहुलंछन्दसीत्यडभावः निघाताभावश्छान्दसः यद्वा पूर्वत्रतच्छब्दश्रुतेः अत्रयच्छ- ब्दाध्याहारेणास्यसंबन्धादनिघातः यद्वा अद्रयोभिषवग्रावाणः स्वशब्दैः उपौपेत्यविधन्नित्पूजयन्त्ये- व आह्लादंजनयन्तीत्यर्थः ॥ १ ॥

1.149.2
स यो वृषा᳚ न॒रां न रोद᳚स्यो॒ः श्रवो᳚भि॒रस्ति᳚ जी॒वपी᳚तसर्गः ।
प्र यः स᳚स्रा॒णः शि᳚श्री॒त योनौ᳚ ॥
▶ पदपाठः (Word-by-word)
सः । यः । वृषा᳚ । न॒राम् । न । रोद᳚स्योः । श्रवः᳚॑भिः । अस्ति᳚ । जी॒वपी᳚त॑सर्गः ।
प्र । यः । स॒स्रा॒णः । शि॒श्री॒त । योनौ᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

सतादृशोयोऽग्निः नरांन मनुष्याणामिव रोदस्योः द्यावापृथिव्योरपि वृषा सेक्ताउत्पादकइत्यर्थः एवंसर्वोत्पादकः श्रवोभिः सर्वत्रश्रूयमाणैर्यशोभिर्युक्तःसन् अस्तिवर्तते सर्वोत्पादकइत्युक्तं तत्रोपप- त्तिमाह—यतोयंजीवपीतसर्गः जीवैर्नानाविधैः पीताअस्वादितः सर्गः सृष्टिक्रमोयस्यसतथोक्तः तृती- याकर्मणीतिपूर्वपदप्रकृतिस्वरः पुनर्वहुव्रीहौसएवस्वरः अत्रायंसृष्टिक्रमः अयमग्निः स्वदत्तंहविरादि- त्यंप्रापय्य तद्रश्मिभिःसहवैद्युतरूपे यद्वारोदकेनप्रवर्ष्य सर्वान्प्राणिनः प्रापयतीत्यतोवृष्ट्युत्पादनद्वा- रोत्पादयिता इदानींसाक्षादुत्पादकत्वमाह—योऽग्निर्योनौगर्भाशये सस्राणःप्रविष्टःसन् शिश्रीत निषि- क्तंरेतः पारयति नृपश्वादिदेहाकारेणपरिणमयतीत्यर्थः यद्यग्निर्नपचेत्पूरयेदेवनोत्पद्येत तस्मादयंसा- क्षादेवोत्पादकः सतादृशोऽग्निः यशस्वीवर्ततइत्यर्थः यद्वा योऽग्निर्नरांन नराणांकर्मसूत्साहयुक्तानांय- जमानानामिव नरामनुष्यानृत्यन्तिकर्मस्वितियास्कः । तेषांयथास्वर्गाद्यमतवर्षकः तद्वद्रोदस्योरपि आश्रयवाचिनाशब्देनाश्रयिणोलक्ष्यन्ते भूलोकवर्तिनांवृष्टिप्रदानेनद्युलोकवर्तिनांहविः प्रापणेनेतिभा- वः सतादृशोऽग्निः श्रवोभिः हविर्लक्षणैः सोमाज्यादिभिरन्नैः निमित्तभूतैः जीवपीतसर्गः जीवविशेषै- र्यजमानैः अविशेषेणसर्वैर्वा आस्वादितस्वभावःसन् अस्तिप्रकृष्टोवर्तते अमुमग्निंहविर्भिःप्रीणयित्वा- स्वाभिमतान्भोगान्भुं जतइत्यर्थः किंच योऽग्निः योनौ स्वकीयस्थाने वेदिलक्षणेसस्राणः प्रविष्टःसन् शिश्रीत स्वस्मिन्प्राप्तंपुरोडाशादिकंपचति सोऽयमग्निरस्ति महानुभावोवर्तते ॥ २ ॥

1.149.3
आ यः पुरं॒ नार्मि᳚णी॒मदी᳚दे॒दत्य᳚ः क॒विर्न᳚भ॒न्यो॒३॒᳚ नार्वा᳚ ।
सूरो॒ न रु᳚रु॒क्वाञ्छ॒तात्मा᳚ ॥
▶ पदपाठः (Word-by-word)
आ । यः । पुर᳚म् । नार्मि᳚णीम् । अदी᳚देत् । अत्यः᳚ । क॒विः । न॒भ॒न्यः᳚ । न । अर्वा᳚ ।
सूरः᳚ । न । रु॒रु॒क्वान् । श॒त॑आ᳚त्मा ॥
▶ सायणभाष्यम् (Sayana Commentary)

योऽग्निर्नार्मिणीं नर्मवतींयजमानानां संबंधिनीं उत्तरवेदिं यद्वा नृणांमनसिस्थितांयजमानानां- यज्ञार्थंयांभूमिंप्रत्यग्र्यागमनमनीषाविद्यतेतांपुरंतत्स्थानं आदीदेत् दीपयति कीदृशोऽयं अत्यः अपे- क्षितदेशंप्रत्यतनशीलः कविः क्रान्तदर्शी तत्रदृष्टान्तः—अर्वाअरणकुशलोनभन्योन नभस्याकाशेभवः नभस्वान्वायुरिव किंच शतात्मा ननारूपः शतंसहस्रमित्यपरिमितवचनः तत्तद्यजमानगृहापेक्षया आहवनीयगार्हपत्याद्यपेक्षयावानानारूपत्वं अथवामित्रवरुणभेदेन अग्नेर्मित्रादिरूपत्वं त्वमग्नेवरुणो- जायसेयत् इन्द्रंमित्रंवरुणमग्निमाहुरित्यादिश्रुतिषुप्रसिद्धम् अग्नेरेव इन्द्राद्यात्मकत्वमाहुरितिद्वितीय- मन्त्रस्यर्थः तादृशोयं सूरोन सूर्यइवरुरुक्वान् दीप्यमानः रुचदीप्तौ छान्दसस्यलिटःक्वसुः अतः सतादृ- शोऽग्निरस्ति उत्कृष्टंवर्ततइतिपूर्वत्रान्वयः ॥ ३ ॥

1.149.4
अ॒भि द्वि॒जन्मा॒ त्री रो᳚च॒नानि॒ विश्वा॒ रजां᳚सि शुशुचा॒नो अ᳚स्थात् ।
होता॒ यजि᳚ष्ठो अ॒पां स॒धस्थे᳚ ॥
▶ पदपाठः (Word-by-word)
अ॒भि । द्वि॒॑जन्मा᳚ । त्री । रो॒च॒नानि᳚ । विश्वा᳚ । रजां᳚सि । शु॒शु॒चा॒नः । अ॒स्था॒त् ।
होता᳚ । यजि᳚ष्ठः । अ॒पाम् । स॒ध॑स्थे᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अयमग्निर्द्विजन्मा द्वाभ्यामरणीभ्यांजायमानः यद्वा मथनात्प्रथमंजन्मउत्पत्त्यनंतरंपवमानेष्ट्या- दिसंस्काररूपंद्वितीयंजन्मइव एवंद्विजन्मत्वं अथवा द्यापृथिवीभ्यामुत्पन्नत्वात् तादृशोऽग्निः त्रीरो- चनानि क्षित्यादिस्थानानि त्रीणिरोचनानि गार्हपत्यादीनिवा अभिशुशुचानः अभितःप्रकाशयन् नकेवलंत्रीण्येव किंतु विशारजांसि सर्वाण्यपिरंजनात्मकानि क्षित्यादिलोकान् शुशुचानः अभितः प्रकाशयन् दीपयन् होतादेवानामाह्वाता यजिष्ठोयष्टृतमःसन् अपांप्रोक्षण्याद्युदकानां सधस्थे सह- स्थाने यागदेशे अस्थात् तिष्ठति ॥ ४ ॥

1.149.5
अ॒यं स होता॒ यो द्वि॒जन्मा॒ विश्वा᳚ द॒धे वार्या᳚णि श्रव॒स्या ।
मर्तो॒ यो अ᳚स्मै सु॒तुको᳚ द॒दाश᳚ ॥
▶ पदपाठः (Word-by-word)
अ॒यम् । सः । होता᳚ । यः । द्वि॒॑जन्मा᳚ । विश्वा᳚ । द॒धे । वार्या᳚णि । श्र॒व॒स्या ।
मर्तः᳚ । यः । अ॒स्मै॒ । सु॒॑तुकः᳚ । द॒दाश᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

योद्विजन्मासएवहोताहोमनिष्पादकः अरणीभ्यामुत्पन्नस्यैवगार्ह पत्यद्वाराआहवनीयत्वात् आ- ह्वातावादेवानांसोऽयं विश्वाविश्वानिवार्याणि वरणीयानि ईडवंदवृशंसदुहांण्यतइत्याद्युदात्तत्वं श्र- वस्या श्रवस्यया श्रवोन्नंहविर्लक्षणंतदिच्छया श्रवःशब्दात् क्यजन्तादप्रत्ययादिति भावेअप्रत्ययः द- धेधारयति अस्मैउक्तस्वरूपायाग्नयेयोमर्तः ददाशददातिससुतुकः शोभनपुत्रोभवति ॥ ५ ॥

पुरुत्वेतितृचात्मकंदशमंसूक्तम् दैर्घतसमाग्नेयमौष्णिहं पुरुतृचमौष्णिहमित्यनुक्रमणिका प्रातरनु- वाकाश्विनशस्त्रयोरौष्णिहेछन्दस्यस्यविनियोगः अथैतस्याइतिखण्डेसूत्रितम्—पुरुत्वात्वामग्नइति ।