श्रवणम्

1.149.4
अ॒भि द्वि॒जन्मा॒ त्री रो᳚च॒नानि॒ विश्वा॒ रजां᳚सि शुशुचा॒नो अ᳚स्थात् ।
होता॒ यजि᳚ष्ठो अ॒पां स॒धस्थे᳚ ॥
▶ पदपाठः (Word-by-word)
अ॒भि । द्वि॒॑जन्मा᳚ । त्री । रो॒च॒नानि᳚ । विश्वा᳚ । रजां᳚सि । शु॒शु॒चा॒नः । अ॒स्था॒त् ।
होता᳚ । यजि᳚ष्ठः । अ॒पाम् । स॒ध॑स्थे᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अयमग्निर्द्विजन्मा द्वाभ्यामरणीभ्यांजायमानः यद्वा मथनात्प्रथमंजन्मउत्पत्त्यनंतरंपवमानेष्ट्या- दिसंस्काररूपंद्वितीयंजन्मइव एवंद्विजन्मत्वं अथवा द्यापृथिवीभ्यामुत्पन्नत्वात् तादृशोऽग्निः त्रीरो- चनानि क्षित्यादिस्थानानि त्रीणिरोचनानि गार्हपत्यादीनिवा अभिशुशुचानः अभितःप्रकाशयन् नकेवलंत्रीण्येव किंतु विशारजांसि सर्वाण्यपिरंजनात्मकानि क्षित्यादिलोकान् शुशुचानः अभितः प्रकाशयन् दीपयन् होतादेवानामाह्वाता यजिष्ठोयष्टृतमःसन् अपांप्रोक्षण्याद्युदकानां सधस्थे सह- स्थाने यागदेशे अस्थात् तिष्ठति ॥ ४ ॥