प्रथमं मण्डलम् - सूक्तम् 26

10 ऋचः

ऋषिः: शुनःशेप आजीगर्तिः देवता: अग्निः छन्दः: गायत्री

सूक्तम् 1.26 - सम्पूर्णम्

1 / 10
ऋक्: 1.26.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (10)
1.26.1
वसि᳚ष्वा॒ हि मि᳚येध्य॒ वस्त्रा᳚ण्यूर्जां पते ।
सेमं नो᳚ अध्व॒रं य᳚ज ॥
▶ पदपाठः (Word-by-word)
वसि᳚ष्व । हि । मि॒ये॒ध्य॒ । वस्त्रा᳚णि । ऊ॒र्जा॒म् । प॒ते॒ ।
सः । इ॒मम् । नः॒ । अ॒ध्व॒रम् । य॒ज॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

वरुणेनाग्निस्तुतौ प्रेरितः शुनःशेप एतदादिसूक्तद्वयेनाग्निमस्तौत् । तथा चाम्नायते । तं वरुण उवाचाग्निर्वै देवानां मुखं सुहृदयतमस्तं नु सुह्यथत्वोत्स्रक्ष्याम इति सोऽग्निं तुष्टावात उत्तराभिर्द्वाविंशत्या । ऐ ब्रा ७-१६ । इति ॥ हे मियेध्य मेधस्य यज्ञस्य योग्य ऊर्जां पते अन्नानां पालकाग्ने वस्त्राण्याच्छादकानि तेजांसि वसिष्व । आच्छादय । प्रज्वलितस्तेजसा भवेत्यर्थः । हि यस्मात्प्रज्वलितस्तस्मात्स तादृशस्त्वं नोऽस्मदीयमिममध्वरं यज । निष्पादय ॥ वसिष्ट । वस आच्छादने । लोट थासः से । सवाभ्यां वामौ । छंदस्युभयथेत्यार्धधातुकत्वादार्धधातुकस्येड्वलादेरितीडागमः । लसार्वधातुकानुदात्तत्वे धातुस्वरः । अन्येषामपि दृश्यत इति संहितायां दीर्घः । मियेध्य । मकारैकारयोर्मध्य इयागमश्छांदसः । ऊर्जां पते । सुबामंत्रित इति परांगवद्भावात् षष्ठ्यामंत्रितस्य समुदायस्याष्टमिको निघातः । सेमम् । सोऽचि लोपेचेत्पादपूरणमिति सोर्लोपः ॥ १ ॥

1.26.2
नि नो॒ होता॒ वरे᳚ण्य॒ः सदा᳚ यविष्ठ॒ मन्म᳚भिः ।
अग्ने᳚ दि॒वित्म᳚ता॒ वचः᳚ ॥
▶ पदपाठः (Word-by-word)
नि । नः॒ । होता᳚ । वरे᳚ण्यः । सदा᳚ । य॒वि॒ष्ठ॒ । मन्म᳚॑भिः ।
अग्ने᳚ । दि॒वित्म᳚ता । वचः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

सदा यविष्ठ सर्वदा युवतम हे अग्ने वरेण्यो वरणीयस्त्वं नोऽस्माकं होता होमनिष्पादको भूत्वा दिवित्मका दीप्तिमता वचो वचसा स्तूयमानः सन् नि षीदेति शेषः । कीदृशस्त्वम् । मन्मभिर्ज्ञापकैस्तेजोभिर्युक्त इति शेषः ॥ यविष्ठ । युवशब्दादिष्ठनि स्थूलदूरेत्यादिना (पा ६-४-१५६) यणादिपरस्य लोपः । पूर्वस्योकारस्य गुणश्च । अवादेशः । आमंत्रितनिघातः । मन्मभिः । मन ज्ञाने । अन्येभ्योऽपि दृश्यंत इति मनिन्प्रत्ययः । नित्त्वादाद्युदात्तत्वम् । दिवित्मता । दिवु क्रीडादौ । इक् श्तिपौ धातुनिर्देशे । पा ३-३-१०८-२ । इतीक् प्रत्ययः । तेन च धातुवाचिना दिविशब्देन धात्वर्थो दीप्तिर्लक्ष्यते । यद्वा । औणादिको भावे किप्रत्ययः दिविशब्दान्मतुपि तकारोपजनश्छांदसः यद्वा । बाहुलकाद्दिवेर्भाव इतक् । मतुपि तसौ मत्वर्थ इति भत्वाज्जश्त्वाभावः । वचः । सुपां सुलुगिति तृतीयैकवचनस्य लुक् ॥ २ ॥

1.26.3
आ हि ष्मा᳚ सू॒नवे᳚ पि॒तापिर्यज᳚त्या॒पये᳚ ।
सखा॒ सख्ये॒ वरे᳚ण्यः ॥
▶ पदपाठः (Word-by-word)
आ । हि । स्म॒ । सू॒नवे᳚ । पि॒ता । आ॒पिः । यज᳚ति । आ॒पये᳚ ।
सखा᳚ । सख्ये᳚ । वरे᳚ण्यः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने वरेण्यो वरणीयः पितापि पितृस्थानीयस्त्वं सूनवे पुत्रस्थानीयाय मह्यमभीष्वं देहेति शेषः । हि ष्मेति निपातद्वयं सर्वथेत्यमुमर्थमाचष्टे । अभीष्वदाने दृष्टांतद्वयमुच्यते । यथापिर्बंधुरापये बंधव आ यजति हि स्म । सर्वथा ददातीति शेषः । सखा प्रियः सख्ये प्रियायाभीष्टं सर्वथा ददाति तथा त्वमपि देहि ॥ स्मा सूनवे । निपातस्य चेति दीर्घः । यजतीत्यस्य सखा सख्य इत्यत्राप्यनुषंगात्तदपेक्षयेयं प्रथमेति चादिलोपे विभाषेति न निहन्यते । यद्वा । हि चेति निघातप्रतिषेधः । संख्ये । समाने ख्यश्चोदात्त इति सखिशब्द इण् प्रत्ययांत आद्युदात्तः । सुपः पित्त्वादनुदात्तत्वे स एव शिष्यते ॥ ३ ॥

1.26.4
आ नो᳚ ब॒र्ही रि॒शाद᳚सो॒ वरु᳚णो मि॒त्रो अ᳚र्य॒मा ।
सीद᳚न्तु॒ मनु᳚षो यथा ॥
▶ पदपाठः (Word-by-word)
आ । नः॒ । ब॒र्हिः । रि॒शाद᳚सः । वरु᳚णः । मि॒त्रः । अ॒र्य॒मा ।
सीद᳚न्तु । मनु᳚षः । य॒था॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने वरुणादयो देवास्त्वद्बंधवस्त्वया प्रेरिता रिशादसो हिंसकानदंतो नोऽस्मदीयं बर्हिर्यज्ञमासीदंतु । तत्र दृष्टांतः । यथा मनुषः प्रजापतेर्यज्ञमासीदंति । तद्वत् ॥ बर्ही रिशादसः । विसर्जनीयस्य रुत्वे कृते रो रि (पा ८-३-१४) इति रेफलोपः । ढ्रलोपे पूर्वस्य दीर्घोऽणः (पा ६-३-१११) इतीकारस्य दीर्घत्वम् । रिशादसः । रिश हिंसायाम् । रिशंति हिंसंतीति रिशाः शत्रवः । इगुपधज्ञाप्रीकिरः कः । तानदंतीति रिशादसः । सर्वधातुभ्योऽसुन् । कृदुत्तरपदप्रकृतिस्वरत्वम् । सीदंतु । षद्लृ विशरणगत्यवसादनेषु । पाघ्रेत्यादिना सीदादेशः । शपः पित्त्वादनुदात्तत्वम् । शतुश्च लसार्वधातुकस्वरेण धातुस्वरः शिष्यते । मनुषः । मनु ज्ञाने । मन्यते जानातीति मनुः प्रजापतिः । जनेरुसिर्निच्च । उ २-११६-११८ । इत्यनुवृत्तौ बहुलमन्यत्रापि (उ २-१२२) इत्यौणादिक उसिप्रत्ययः । नित्त्वादाद्युदात्तत्वम् । यथा । यथेति पादांते (फि ४-१७) इति सर्वानुदात्तत्वं ॥ ४ ॥

1.26.5
पूर्व्य᳚ होतर॒स्य नो॒ मन्द᳚स्व स॒ख्यस्य᳚ च ।
इ॒मा उ॒ षु श्रु᳚धी॒ गिरः᳚ ॥
▶ पदपाठः (Word-by-word)
पूर्व्य᳚ । हो॒तः॒ । अ॒स्य । नः॒ । मन्द᳚स्व । स॒ख्यस्य᳚ । च॒ ।
इ॒माः । ऊं॒ इति᳚ । सु । श्रु॒धि॒ । गिरः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे पूर्व्य अस्मदादेः पूर्वमुत्पन्न होतर्होमनिष्पादकाग्ने नोऽस्मदीयस्यास्य प्रवर्तमानस्य यज्ञस्य सख्यस्य चास्मदनुग्रहस्य च सिद्ध्यर्थं मंदस्व । त्वं हृष्टो भव । इमा अस्माभिः प्रयुज्यमाना गिर उ षु स्तुतिरूपा वाचोऽपि श्रुधि शृणु ॥ पूर्व्य । आमंत्रिताद्युदात्तत्वम् । होतरित्यस्य नामंत्रिते समानाधिकरण इति पूर्वस्य विद्यमानत्वादष्वमिको निघातः । अस्य । ऊडिदमिति षष्ठ्या उदात्तत्वम् । मंदस्व । मदि स्तुतिमोदमदस्वप्नकांतिगतिषु । शपः पित्त्वादनुदात्तत्वम् । तिङश्च लसार्वधातुकस्वरेण धातुस्वरः । अपादादाविति पर्युदासादाष्टमिकनिघाताभावः । सख्यस्य । सख्युः कर्म सख्यम् । सख्युर्यः (पा ५-१-१२६) इति यप्रत्ययः । यस्येति लोपे प्रत्ययस्वरः । उ षु । सुञः (पा ८-३-१०७) इति षत्वम् । श्रुधि । श्रु श्रवणे । श्रुशृणुपृकृवृभ्यश्चंदसीति हेर्धिरादेशः । बहुलं छंदसीति शपो लुक् ॥ २० ॥ ५ ॥

1.26.6
यच्चि॒द्धि शश्व᳚ता॒ तना᳚ दे॒वंदे᳚वं॒ यजा᳚महे ।
त्वे इद्धू᳚यते ह॒विः ॥
▶ पदपाठः (Word-by-word)
यत् । चि॒त् । हि । शश्व᳚ता । तना᳚ । दे॒वम्॑दे᳚वम् । यजा᳚महे ।
त्वे इति᳚ । इत् । हू॒य॒ते॒ । ह॒विः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने यच्चिद्धि यद्यपि शश्वता शाश्वतेन नित्येन तना विस्तृतेन हविषा देवं देवमन्यमन्यं वरुणेंद्रादिरूपं नानाविधं देवताविशेषं यजामहे तथापि तद्रविः सर्वं त्वे इत्त्वय्येव हूयते । अतो देवांतरविषयो यागोऽपि त्वदीयैव सेवेत्यर्थः ॥ तना । तनु विस्तारे । क्विप्चेति क्विप् । यद्वा । पचाद्यच् । सुपां सुलुगिति तृतीयाया आकारः । देवं देवम् । नित्यवीप्सयोरिति द्विर्भावः । तस्य परमाम्रेडितमित्युत्तरस्याम्रेडितसंज्ञायामनुदात्तं चेति सर्वानुदात्तत्वम् । यजामहे । निपातैर्यद्यदि हंतेति निघातप्रतिषेधः । त्वे । युष्मच्छब्दात्सप्तम्येकवचनस्य सुपां सुलुगिति शे आदेशः । त्वमावेकवचन इति मपर्यंतस्य त्वादेशः । शेषोलोपेऽतो गुण इति परपूर्वत्वम् । शे (पा १-१-१३) इति प्रगृह्यसंज्ञायां प्लुतप्रगृह्या अचि (पा ६-१-१२५) इति प्रकृतिभावः । हूयते । अकृत्सार्वधातुकयोः (पा ७-४-२५) इति दीर्घः ॥ ६ ॥

1.26.7
प्रि॒यो नो᳚ अस्तु वि॒श्पति॒र्होता᳚ म॒न्द्रो वरे᳚ण्यः ।
प्रि॒याः स्व॒ग्नयो᳚ व॒यम् ॥
▶ पदपाठः (Word-by-word)
प्रि॒यः । नः॒ । अ॒स्तु॒ । वि॒श्पतिः᳚ । होता᳚म् । म॒न्द्रः । वरे᳚ण्यः ।
प्रि॒याः । सु॒॑अ॒ग्नयः᳚ । व॒यम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

विश्पतिर्विशां प्रजानां पालको होता होमनिष्पादको मंद्रो हृष्टो वरेण्यो वरणीयोऽग्निर्नोऽस्माकं प्रियोऽस्तु । वयमपि स्वग्नयः शोभनाग्नियुक्ताः संतस्तव प्रिया भूयास्मेति शेषः ॥ विश्पतिः ॥ पत्यावैश्वर्य इति पूर्वपदप्रकृतिस्वरे प्राप्ते परादिश्चंदसि बहुलमित्युत्तरपदाद्युदात्तत्वम् । वरेण्यः । वृञ एण्यः (उ ३-९८) पृषादित्वादाद्युदात्तत्वम् । स्वग्नयः । बहुव्रीहौ नञ् सुभ्यामित्युत्तरपदांतोदात्तत्वं ॥ ७ ॥

1.26.8
स्व॒ग्नयो॒ हि वार्यं᳚ दे॒वासो᳚ दधि॒रे च᳚ नः ।
स्व॒ग्नयो᳚ मनामहे ॥
▶ पदपाठः (Word-by-word)
सु॒॑अ॒ग्नयः᳚ । हि । वार्य᳚म् । दे॒वासः᳚ । द॒धि॒रे । च॒ । नः॒ ।
सु॒॑अ॒ग्नयः᳚ । म॒ना॒म॒हे॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

स्वग्नयः शोभनाग्नियुक्ता देवासो दीप्यमाना ऋत्विजो नोऽस्मदीयं वार्यं वरणीयं हविर्हि यस्माद्दधिरे धृतवंतः तस्माद्वयं स्वग्नयः शोभनाग्नियुक्ताः संतो मनामहे । त्वां याचामहे ॥ वार्यम् । वृञ् वरणे । वृङ् संभक्तौ । ऋहलोर्ण्यत् । ईडवंदेत्यादिनाद्युदात्तत्वम् । दधिरे । इरेचश्चित्वादंतोदात्तत्वम् । हि चेति निघातप्रतिषेधः । मनामहे । मन ज्ञाने । व्यत्ययेन शप् ॥ ८ ॥

1.26.9
अथा᳚ न उ॒भये᳚षा॒ममृ᳚त॒ मर्त्या᳚नाम् ।
मि॒थः स᳚न्तु॒ प्रश᳚स्तयः ॥
▶ पदपाठः (Word-by-word)
अथ᳚ । नः॒ । उ॒भये᳚षाम् । अमृ᳚त । मर्त्या᳚नाम् ।
मि॒थः । स॒न्तु॒ । प्र॑श᳚स्तयः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने अमृत मरणरहिताग्ने अथ कर्मानुष्ठानानंतरं मर्त्यानां मनु ष्याणां नोऽस्माकमस्मत्स्वामिनस्तव चोभयेषां मिथः परस्परं प्रशस्तयः प्रशंसारूपा वाचः संतु । सम्यगनुष्ठितमिति यजमानविषया प्रशंसा । सम्यगनुगृहीतमित्यग्निविषया ॥ अथ । निपातस्य चेति संहितायां दीर्घाः । अमृत । अपादादाविति पर्युदासात्षाष्ठिकमाद्युदात्तत्वम् । मर्त्यानाम् । मृङ् प्राणत्यागे । असिहसीत्यादिना तन्प्रत्ययांतो मर्तशब्दः । तस्माद्भवे छंदसि (पा ४-४-११०) इति यत् यतोऽनाव इत्याद्युदात्तत्वम् । संतु । श्नसोरल्लोपः । प्रशस्तयः । तादौ चेति गतेः । प्रकृतिस्वरत्वं ॥ ९ ॥

1.26.10
विश्वे᳚भिरग्ने अ॒ग्निभि᳚रि॒मं य॒ज्ञमि॒दं वचः᳚ ।
चनो᳚ धाः सहसो यहो ॥
▶ पदपाठः (Word-by-word)
विश्वे᳚भिः । अ॒ग्ने॒ । अ॒ग्नि॑भिः᳚ । इ॒मम् । य॒ज्ञम् । इ॒दम् । वचः᳚ ।
चनः᳚ । धाः॒ । स॒ह॒स॒ । य॒हो॒ इति᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

सहसो बलस्य यहो पुत्र हे देवतारूपाग्ने विश्वेभिरग्निभिः सर्वैराहवनीयादिभिर्युक्तस्त्वमिममस्मदीयं यज्ञमिदमस्मदीयं वचः स्तोत्रं च सेवमानश्चनोऽन्नं धाः । अस्मभ्यं धेहि ॥ विश्वेभिः । बहुलं छंदसीति भिस ऐसादेशाभावः । चनः । चायृ पूजानिशामनयोः । चायेरन्ने ह्रस्वश्च (उ ४-१९९) इत्यसुन् । तत्सन्नि योगेन नुडागमश्च । नित्त्वादाद्युदात्तत्वम् । धाः । लुङि गातिस्था (पा २-४-७७) इति सिचो लुक् । बहुलं छंदस्यमाङ्योगेऽपीत्यडभावः । सहसो यहो इति सुबामंत्रित इति परांगवद्भावादामंत्रितस्य चेति षष्ठ्यामंत्रितसमुदायो निहन्यते ॥ २१ ॥ १० ॥