श्रवणम्

1.26.2
नि नो॒ होता॒ वरे᳚ण्य॒ः सदा᳚ यविष्ठ॒ मन्म᳚भिः ।
अग्ने᳚ दि॒वित्म᳚ता॒ वचः᳚ ॥
▶ पदपाठः (Word-by-word)
नि । नः॒ । होता᳚ । वरे᳚ण्यः । सदा᳚ । य॒वि॒ष्ठ॒ । मन्म᳚॑भिः ।
अग्ने᳚ । दि॒वित्म᳚ता । वचः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

सदा यविष्ठ सर्वदा युवतम हे अग्ने वरेण्यो वरणीयस्त्वं नोऽस्माकं होता होमनिष्पादको भूत्वा दिवित्मका दीप्तिमता वचो वचसा स्तूयमानः सन् नि षीदेति शेषः । कीदृशस्त्वम् । मन्मभिर्ज्ञापकैस्तेजोभिर्युक्त इति शेषः ॥ यविष्ठ । युवशब्दादिष्ठनि स्थूलदूरेत्यादिना (पा ६-४-१५६) यणादिपरस्य लोपः । पूर्वस्योकारस्य गुणश्च । अवादेशः । आमंत्रितनिघातः । मन्मभिः । मन ज्ञाने । अन्येभ्योऽपि दृश्यंत इति मनिन्प्रत्ययः । नित्त्वादाद्युदात्तत्वम् । दिवित्मता । दिवु क्रीडादौ । इक् श्तिपौ धातुनिर्देशे । पा ३-३-१०८-२ । इतीक् प्रत्ययः । तेन च धातुवाचिना दिविशब्देन धात्वर्थो दीप्तिर्लक्ष्यते । यद्वा । औणादिको भावे किप्रत्ययः दिविशब्दान्मतुपि तकारोपजनश्छांदसः यद्वा । बाहुलकाद्दिवेर्भाव इतक् । मतुपि तसौ मत्वर्थ इति भत्वाज्जश्त्वाभावः । वचः । सुपां सुलुगिति तृतीयैकवचनस्य लुक् ॥ २ ॥