आ हि ष्मा᳚ सू॒नवे᳚ पि॒तापिर्यज᳚त्या॒पये᳚ ।
सखा॒ सख्ये॒ वरे᳚ण्यः ॥
सखा॒ सख्ये॒ वरे᳚ण्यः ॥
पदपाठः (Word-by-word)
आ । हि । स्म॒ । सू॒नवे᳚ । पि॒ता । आ॒पिः । यज᳚ति । आ॒पये᳚ ।
सखा᳚ । सख्ये᳚ । वरे᳚ण्यः ॥
सखा᳚ । सख्ये᳚ । वरे᳚ण्यः ॥
सायणभाष्यम् (Sayana Commentary)
हे अग्ने वरेण्यो वरणीयः पितापि पितृस्थानीयस्त्वं सूनवे पुत्रस्थानीयाय मह्यमभीष्वं देहेति शेषः । हि ष्मेति निपातद्वयं सर्वथेत्यमुमर्थमाचष्टे । अभीष्वदाने दृष्टांतद्वयमुच्यते । यथापिर्बंधुरापये बंधव आ यजति हि स्म । सर्वथा ददातीति शेषः । सखा प्रियः सख्ये प्रियायाभीष्टं सर्वथा ददाति तथा त्वमपि देहि ॥ स्मा सूनवे । निपातस्य चेति दीर्घः । यजतीत्यस्य सखा सख्य इत्यत्राप्यनुषंगात्तदपेक्षयेयं प्रथमेति चादिलोपे विभाषेति न निहन्यते । यद्वा । हि चेति निघातप्रतिषेधः । संख्ये । समाने ख्यश्चोदात्त इति सखिशब्द इण् प्रत्ययांत आद्युदात्तः । सुपः पित्त्वादनुदात्तत्वे स एव शिष्यते ॥ ३ ॥