प्रथमं मण्डलम् - सूक्तम् 40

8 ऋचः

ऋषिः: कण्वो घौरः देवता: ब्रह्मणस्पतिः छन्दः: बृहती

सूक्तम् 1.40 - सम्पूर्णम्

1 / 8
ऋक्: 1.40.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (8)
1.40.1
उत्ति᳚ष्ठ ब्रह्मणस्पते देव॒यन्त᳚स्त्वेमहे ।
उप॒ प्र य᳚न्तु म॒रुतः᳚ सु॒दान᳚व॒ इन्द्र᳚ प्रा॒शूर्भ᳚वा॒ सचा᳚ ॥
▶ पदपाठः (Word-by-word)
उत् । ति॒ष्ठ॒ । ब्र॒ह्म॒णः॒ । प॒ते॒ । दे॒व॒॑यन्तः᳚ । त्वा॒ । ई॒म॒हे॒ ।
उप᳚ । प्र । य॒न्तु॒ । म॒रुतः᳚ । सु॒॑दान᳚वः । इन्द्र᳚ । प्रा॒शूः । भ॒व॒ । सचा᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे ब्रह्मणस्पते एतन्नामक देव उत्तिष्ठ । अस्मदनुग्रहाय त्वदीयनिवासादुत्थानं कुरु । देवयंतो देवान् कामयमाना वयं त्वा त्वामीमहे । याचामहे । सुदानवः शोभनदानयुक्ता मरुत उप प्रयंतु । समीपे प्रकर्षेण गच्छंतु । हे इंद्र त्वं सचा ब्रह्मणस्पतिना सह प्राशूः सोमस्य प्राशको भव । यद्वा । वृत्रस्य हिंसको भव ॥ उत्तिष्ठ । ऊर्ध्वकर्मत्वादात्मनेपदाभावः (पा १-३-२४) ब्रह्मणस्पते । सुबामंत्रित इति परांगवद्भावात् । षष्ठ्यामंत्रितसमुदायक स्याष्टमिकं सर्वानुदात्तत्वम् । देवयंतः । देवानात्मन इच्छंतः । सुप आत्मनः क्यच् । न छंदस्यपुत्रस्येतीत्वस्येव दीर्घस्यापि निषेधः । अश्वाघस्यादिति पुनरात्व विधानसामर्थ्यात् । ईमह इत्यादयो गताः । प्राशूः । शृ हिंसायाम् । प्रकर्षेण समंतात् शृणाति हिनस्तीति प्राशूः । बहुलम् । छंदसीत्युत्वम् । र्वोरुपधायाछेर्घः । कृदुत्तरपदप्रकृतिस्वरत्वम् । भव । द्व्यचोऽतस्तिङ इति संहितायां दीर्घत्वं ॥ १ ॥

1.40.2
त्वामिद्धि स᳚हसस्पुत्र॒ मर्त्य᳚ उपब्रू॒ते धने᳚ हि॒ते ।
सु॒वीर्यं᳚ मरुत॒ आ स्वश्व्यं॒ दधी᳚त॒ यो व᳚ आच॒के ॥
▶ पदपाठः (Word-by-word)
त्वाम् । इत् । हि । स॒ह॒सः॒ । पु॒त्र॒ । मर्त्यः᳚ । उ॒प॒॑ब्रू॒ते । धने᳚ । हि॒ते ।
सु॒॑वीर्य᳚म् । म॒रु॒तः॒ । आ । सु॒॑अश्व्य᳚म् । दधी᳚त । यः । वः॒ । आ॒॑च॒क्रे ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सहसस्पुत्र बलस्य बहुपालक ब्रह्मणस्पते । पुत्रः पुरु त्रायते निपरणाद्वेति निरुक्तम् (नि २-११) मर्त्यो मनुष्यो हिते शत्रुषु प्रक्षिप्ते धन निमित्तभूते सति त्वामित् । त्वामेवोपब्रूते हि । समीपं प्राप्य स्तौति खलु । तद्धनसंपादनाय प्रार्थयत इत्यर्थः । हे मरुतो यो धनार्थी मर्त्यो वो युष्मान् ब्रह्मणस्पतिसहितानाचके स्तौति । स मर्त्यः स्वश्व्यं शोभनाश्वयुक्तं सुवीर्यं शोभनवीर्ययुक्तं च धनं दधीत । धारयेत् ॥ सहसस्पुत्र । ब्रह्मणस्पत इतिवत् । षष्ठ्याः पतिपुत्रेति विसर्जनीयस्य सत्वम् । उपब्रूते । हि चेति निघातप्रतिषेधः । तिङि चोदात्तवतीति गतेरनुदात्तत्वम् । हिते । निष्ठायां दधातेर्हिरिति हिरादेशः । सुवीर्यम् । शोभनं वीर्यं यस्येति बहुव्रीहौ वीरवीर्यौ चेत्युत्तरपदाद्युदात्तत्वम् । स्वश्व्यम् । अश्वानां समूहोऽश्वीयम् । केशाश्वाभ्यां यञ्छाव्यतरस्याम् (पा ४-२-४८) इति समूहार्थे छप्रत्ययः । छस्य ईयादेशः । शोभनमश्वीयं यस्य तत् स्वश्व्यम् । ईकारलोपश्छांदसः । परादश्छंदसि बहुलमित्युत्तरपदाद्युदात्तत्वम् । दधीत । सीयुटः सकारलोपे सत्यभ्यस्तानामादिरित्याद्युदात्तत्वम् । पादादित्वान्निघाताभावः । आचके । कै गै रै शब्दे । आदेच इत्यात्वम् । लिटि द्विर्वचनेऽभ्यासस्य ह्रस्वचुत्वे । आतो लोप इट चेत्याकारलोपः । प्रत्ययस्वरः । यद्वृत्तयोगादनिघातः ॥ २ ॥

1.40.3 समानपद
प्रैतु॒ ब्रह्म᳚ण॒स्पति॒ः प्र दे॒व्ये᳚तु सू॒नृता᳚ ।
अच्छा᳚ वी॒रं नर्यं᳚ प॒ङ्क्तिरा᳚धसं दे॒वा य॒ज्ञं न᳚यन्तु नः ॥
▶ पदपाठः (Word-by-word)
प्र । ए॒तु॒ । ब्रह्म᳚णः । पतिः᳚ । प्र । दे॒वी । ए॒तु॒ । सू॒नृता᳚ ।
अच्छ᳚ । वी॒रम् । नर्य᳚म् । प॒ङ्क्ति॑रा᳚धसम् । दे॒वाः । य॒ज्ञम् । न॒य॒न्तु॒ । नः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

चतुर्विंशेऽहनि मरुत्वतीय उत्तिष्ठ ब्रह्मणस्पत इत्यस्मात्प्रगाथात्पूर्वं प्रैतु ब्रह्मणस्पतिरित्ययं प्रगाथो विनियुक्तः । सूत्रं तूत्तिष्ठं ब्रह्मणस्पत इत्यत्रैवोदाहृतं ॥ महावीरमादाय शालां प्रतिगच्छत्सु प्रैतु ब्रह्मणस्पतिरित्येतां पठन् होतानुगच्छेत् । सूत्रं च । प्रैतु ब्रह्मणस्पतिरित्यनुव्रजेत् (आ ४-७) इति ॥ एषैवाग्नीषोमीयप्रणयनेऽपि नियुक्ता । सूत्रितं च । प्रैतु ब्रह्मणस्पति र्होता देवो अमर्त्यः (आ ४-१०) इति ॥

ब्रह्मणस्पतिर्देवः प्रैतु । अस्मान्प्राप्नोतु । सूनृता देवी प्रियसत्यरूपा वाग्देवता प्रैतु । अस्मान्प्राप्नोतु । देवा ब्रह्मणस्पत्यादयो देवता वीरं शत्रुं निःशेषेण दूरे प्रेरयंतु । तं नर्यं मनुष्येभ्यो हितं पंक्तिराधसं ब्राह्मणोक्तहविष्पंक्त्यादिभिः । समृद्धं यज्ञं प्रति नोऽस्मान् अच्छाभिमुख्येन नयंतु ॥ प्रैतु । एङि पररूपम् (पा ६-१-९४) इति पररूपे प्राप्त एत्येधत्यूट्सु (पा ६-१-८९) इति वृद्धिः । देव्येत्वित्यत्रोदात्तस्वरितयोर्यणः स्वरितोऽनुदात्तस्येति स्वरितत्वम् । नर्यम् । नरेभ्यो हितम् । प्राक् क्रीतीय उगवादिलक्षणो यत्प्रत्ययो द्रष्वव्यः (पा ५-१-२) पंक्तिराधसम् । पंक्तिभी राध्नोति पंक्तिराधाः । गतिकारकयोरपि पूर्वपदप्रकृतिस्वरत्वं च (उ ४-२२६) इत्यसुन् । पूर्वपदप्रकृतिस्वरत्वं च । यज्ञम् । यजयाचेत्यादिना यजतेर्नङ् ॥ ३ ॥

1.40.4
यो वा॒घते॒ ददा᳚ति सू॒नरं॒ वसु॒ स ध᳚त्ते॒ अक्षि᳚ति॒ श्रवः᳚ ।
तस्मा॒ इळां᳚ सु॒वीरा॒मा य᳚जामहे सु॒प्रतू᳚र्तिमने॒हस᳚म् ॥
▶ पदपाठः (Word-by-word)
यः । वा॒घते᳚ । ददा᳚ति । सू॒नर᳚म् । वसु᳚ । सः । ध॒त्ते॒ । अक्षि᳚ति । श्रवः᳚ ।
तस्मै᳚ । इळा᳚म् । सु॒॑वीराम् । आ । य॒जा॒म॒हे॒ । सु॒॑प्रतू᳚र्तिम् । अ॒ने॒हस᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

यो यजमानो वाघते ऋुत्विजे सूनरं सुष्ठु नेतव्यं वसु धनं ददाति स यजमानो ब्रह्मणस्पतेः प्रसादादक्षिति क्षयरहितं श्रवोन्नं धत्ते । धारयति । तस्मै तादृशयजमानायेळामेतन्नामधेयां मनोः पुत्रीम् । इळा वै मानवी यज्ञानुकाशिन्यासीदिति श्रुत्यंतरात् । आ यजामहे । वयमृत्विजः सर्वतो यजामः । कीदृशीमिळाम् । सुवीरां शोभनैर्वीरैर्भटैर्युक्तां सुप्रतूर्तिं सुष्ठु प्रकर्षेण हिंसाकारिणीं अनेहसं केनाप्यहिंस्यां ॥ ददाति । अनुदात्ते चेत्यभ्यस्तस्याद्युदात्तत्वम् । यद्वृत्तयोगादनिघातः । सूनरम् । सुखेन नीयत इति सूनरम् । ईषद्दुःसुष्विति खल् । निपातस्य चेत्युपसर्गस्य दीर्घत्वम् । अक्षिति । क्षयो नास्त्यस्येत्यक्षिति । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । नञ्सुभ्यामिति तु सर्वे विधयश्छंदसि विकल्प्यंत इति वचनान्न प्रवर्तते । श्रवः । श्रूयत इति श्रवः । श्रु श्रवणे । असुनो नित्त्वादाद्युदात्तत्वम् । सुवीरा । शोभना वीरा यस्याः सा सुवीरा । ताम् । वीरवीर्यौ चेत्युत्तरपदाद्युदात्तत्वम् । सुप्रतूर्तिम् । तुर्वी हिंसार्थः । प्रपूर्वादस्माद्भावे क्तिन् । शोभना प्रतूर्तिः शत्रूणां हिंसनं यस्याः सा । ताम् । परादिश्छंदसि बहुलमित्यत्तरपदाद्युदात्तत्वं ॥ क्रत्वादिर्वा द्रष्टव्यः । अनेहसम् । न हन्यत इत्यनेहाः । नञि हन एह च (उ ४-२२३) इत्यसुन्प्रत्ययो धातोरेहादेशश्च । नलोपो नञः (पा ६-३-७३) इति नकारस्य लोपः । तस्मान्नुडचि (पा ६-३-७४) इति नुट् ॥ ४ ॥

1.40.5
प्र नू॒नं ब्रह्म᳚ण॒स्पति॒र्मन्त्रं᳚ वदत्यु॒क्थ्य᳚म् ।
यस्मि॒न्निन्द्रो॒ वरु᳚णो मि॒त्रो अ᳚र्य॒मा दे॒वा ओकां᳚सि चक्रि॒रे ॥
▶ पदपाठः (Word-by-word)
प्र । नू॒नम् । ब्रह्म᳚णः । पतिः᳚ । मन्त्र᳚म् । व॒द॒ति॒ । उ॒क्थ्य᳚म् ।
यस्मि᳚न् । इन्द्रः᳚ । वरु᳚णः । मि॒त्रः । अ॒र्य॒मा । दे॒वाः । ओकां᳚सि । च॒क्रि॒रे ॥
▶ सायणभाष्यम् (Sayana Commentary)

अग्निष्टोमे मरुत्वतीयशस्त्र इंद्रनिवहप्रगाथानंतरं प्र नूनमिति प्रगाथः । मरुत्वतीयेनेति खंडे सूत्रितम् । प्र नूनं ब्रह्मणस्पतिरिति ब्राह्मणस्पत्यः । आ ५-१४ ॥ इति ॥

ब्रह्मणस्पतिर्देव उक्थ्यं शस्त्रयोग्यं मंत्रं नूनमवश्यं प्र वदति । होतृमुखे स्थितः सन् प्रब्रूते । यस्मिन्मंत्र इंद्रादयश्च सर्वे देवा ओकांसि स्थानानि चक्रिरे । तादृशं सर्वदेवप्रतिपादकं मंत्रमिति पूर्वत्रान्वयः ॥ मंत्र । मत्रि गुप्तभाषणे । पचाद्यच् । वृषादिषु पाठादाद्युदात्तत्वम् । उक्थ्यम् । उक्थार्हम् । छंदसि चेत्यर्हार्थे यप्रत्ययः । यद्वा । भवे छंदसीति यत् । सर्वे विधयश्छंदसि विकल्प्यंत इति वचनाद्यतोऽनाव इत्याद्युदात्तत्वाभावे व्यत्ययेन तित्स्वरितमिति स्वरितत्वम् । ओकांसि । उच समवाये । समवयंत्यत्रेत्यधिकरण औणादिकोऽसुन् । बहुलग्रहणात् कुत्वं द्रष्टव्यमित्योक उचः के (पा ७-३-६४) इत्यत्र वृत्तावित्युक्तम् । चक्रिरे । इरेचश्चित्त्वादंतोदात्तत्वम् । यद्वृत्तयोगादनिघातः ॥ २० ॥ ५ ॥

1.40.6
तमिद्वो᳚चेमा वि॒दथे᳚षु श॒म्भुवं॒ मन्त्रं᳚ देवा अने॒हस᳚म् ।
इ॒मां च॒ वाचं᳚ प्रति॒हर्य᳚था नरो॒ विश्वेद्वा॒मा वो᳚ अश्नवत् ॥
▶ पदपाठः (Word-by-word)
तम् । इत् । वो॒चे॒म॒ । वि॒दथे᳚षु । श॒म्॑भुव᳚म् । मन्त्र᳚म् । दे॒वाः॒ । अ॒ने॒हस᳚म् ।
इ॒माम् । च॒ । वाच᳚म् । प्र॒ति॒॑हर्य᳚थ । न॒रः॒ । विश्वा᳚ । इत् । वा॒मा । वः॒ । अ॒श्न॒व॒त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे देवा ब्रह्मणस्पतिप्रभृतयस्तमित् तमेवेंद्रादिसर्वदेवताप्रतिपादकं मंत्रं विदथेषु यज्ञेषु वोचेम । वयमृत्विजो ब्रवाम । कीदृशम् । शंभुवं सुखस्य भावयितारं अनेहसमहिंसनीयं दोषरहितम् । हे नरो नेतारो देवा इमामस्माभिरुच्यमानां मंत्ररूपां वाचं प्रतिहर्यथ च । यूयं कामयध्वे चेत् । तर्हि विश्वेत् सर्वापि वामा वननीया वाक् वो युष्मानश्नवत् । व्याप्नुयात् । वोचेम । वप परिभाषणे । आशीर्लिङि लिङ्याशिष्यङित्यङ् । वच उमित्युमागमः । छंदस्सुभ्ययथेति सार्वधातुकत्वाल्लिङः सलोपोऽनंत्यस्येति यासुटः सकारस्य लोपः । अतो येय इतीयादेशः, आद्गुणः । तिङ्ङतिङ इति निघातः । विदथेषु । विद । ज्ञाने विद्यते फलसाधनत्वेन ज्ञायत इति विदथो यज्ञः । रुविदिभ्यां कित् (उ ३-११६) इत्यथप्रत्ययः । शंभुवम् । भवतेरंतर्भावितण्यर्थात् क्विप्छेति क्विप् । ओः सुपि (पा ६-४-८३) इति यणादेशस्य न भूसुधियोः (पा ६-४-८५) इति प्रतिषेधः । मंत्रादयो गताः । प्रतिहर्यथ । हर्य गतिकांत्योः । शपः पित्त्वा दनुदात्तत्वम् । तिङश्च लसार्वधातुकस्वरेण धातुस्वरेणाद्युदात्तत्वम् । इमां चेत्यत्र चशब्दश्चेदर्थः । चणिति निपातांतरं न च समुच्चयाद्यर्थः । तेन निपातैर्यद्यदिहंतहुविन्नेच्चेच्चण् (पा ८-१-३०) इति निघातप्रतिषेधः । अश्नवत् । अशू व्याप्तौ । लेड्यडागमः । व्यत्ययेन परस्मैपदम् । इतश्च लोप इतीकारलोपः । इयङुवङ् भ्यां गुणवृद्धी भवतो विप्रतिषेधेन । का ६-४-७७ ॥ इति गुणः ॥ ६ ॥

1.40.7
को दे᳚व॒यन्त᳚मश्नव॒ज्जनं॒ को वृ॒क्तब᳚र्हिषम् ।
प्रप्र᳚ दा॒श्वान्प॒स्त्या᳚भिरस्थितान्त॒र्वाव॒त्क्षयं᳚ दधे ॥
▶ पदपाठः (Word-by-word)
कः । दे॒व॒॑यन्त᳚म् । अ॒श्न॒व॒त् । जन᳚म् । कः । वृ॒क्त॑ब᳚र्हिषम् ।
प्र॑प्र᳚ । दा॒श्वान् । प॒स्त्या᳚भिः । अ॒स्थि॒त॒ । अ॒न्तः॒॑वाव᳚त् । क्षय᳚म् । द॒धे॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

देवयंतं देवान्कामयमानं जनं कोऽश्नवत् । ब्रह्मणस्पतिव्यतिरिक्तः को नाम देवो व्याप्नुयात् । तथा वृक्तबर्हिषमनुष्ठानाय च्छिन्न बर्हिषं यजमानं को नामान्यो देवोऽश्नवत् । दाश्वान् हविर्दत्तवान्यजमानः पस्त्याभिर्मनुष्यैर्ऋत्विग्भिः सह प्रप्रास्थित । देवयजनदेशं प्रति प्रस्थितवान् । अंतर्वावत् । अंतः स्थितबहुधनोपेतम् । यद्वा । अंतः । स्थितपुत्रपौत्रादिप्रयुक्तबहुविधवागुपेतं क्षयं निवासस्थानं गृहं दधे । धृतवान् । भवति । देवयंतमित्यादयो गताः प्रप्र । प्रसमुपोदः पादपूरणे । पा ८-१-६ ॥ इति प्रशब्दस्य द्विर्भावः । अनुदात्तं चेत्याम्रेडितानुदात्तत्वम् । अस्थित । ष्ठा गतिनिवृत्तौ । लुङि समवप्रविभ्यः स्थः (पा १-३-२२) इत्यात्मनेपदम् । स्थाघ्वोरिच्छ (पा १-२-१७) इति धातुसिचोरित् । कित्त्वे ह्रस्वादंगात् (पा ८-२-२७) इति सलोपः । अंतर्वावत् । वागतिगंधनयोः अंतर्वांति गच्छंतीत्यंतर्वाः पुत्रपश्वादयः । आतो मनिन्नित्यादिना विच् । तदस्यास्तीति मतुप् । मतुपः पित्त्वादनुदात्तत्वे कृदुत्तरपद प्रकृतिस्वरत्वम् । यद्वा । वावदीतेः क्विप् । क्षयम् । क्षियंति निवसंत्यस्मिन्निति क्षयः पुंसि संज्ञायामित्यधिकरणे घः । क्षयो निवास इत्याद्युदात्तत्वं ॥ ७ ॥

1.40.8
उप᳚ क्ष॒त्रं पृ᳚ञ्ची॒त हन्ति॒ राज᳚भिर्भ॒ये चि᳚त्सुक्षि॒तिं द᳚धे ।
नास्य᳚ व॒र्ता न त᳚रु॒ता म᳚हाध॒ने नार्भे᳚ अस्ति व॒ज्रिणः᳚ ॥
▶ पदपाठः (Word-by-word)
उप᳚ । क्ष॒त्रम् । पृ॒ञ्ची॒त । हन्ति᳚ । राज᳚॑भिः । भ॒ये । चि॒त् । सु॒॑क्षि॒तिम् । द॒धे॒ ।
न । अ॒स्य॒ । व॒र्ता । न । त॒रु॒ता । म॒हा॒॑ध॒ने । न । अर्भे᳚ । अ॒स्ति॒ । व॒ज्रिणः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

ब्रह्मणस्पतिर्देवः क्षत्रं बलमुप पृंचीत । स्वात्मनि संपृक्तं कुर्यात् । ततो राजभिर्वरुणादिभिः सह हंति । शत्रून्मारयति । भये चित् भीतिहेतौ युद्धेऽपि सुक्षितिं दधे । सुष्ठु निवासस्थैर्यं धारयति । न तु पलायते । वज्रिणो वज्राद्यायुधवतोऽस्य ब्रह्मणस्पतेर्महाधने प्रभूतधननिमित्ते युद्धे वर्ता प्रवर्तयिताऽन्यः कोपि नास्ति । स्वयमेव प्रवर्तत इत्यर्थः । महाधन इति संग्रामनाम । महाधने । समीक इति तन्नामसु पाठात् । तथा तरुता तरणस्योल्लंघनस्य कर्तान्यः कोपि नास्ति । तथैवार्भे स्वल्पे युद्धेऽप्यन्यः प्रवर्तयिता नास्ति ॥ पृंचीत । पृची संपर्के । लिङि रुधादित्वात् श्नम् । श्नसोरल्लोप इत्यकारलोपः । प्रत्ययस्वरः । क्षत्रं पृंचीत राजभिर्हंति चेति समुच्चयलक्षणस्य चार्थस्य दर्शनाच्चादिलोपे विभाषेति प्रथमायास्तिङ् विभक्तेर्निघातप्रतिषेधः । हंतीत्येषा द्वितीयापि तिङः परत्वान्न निहन्यते । सुक्षितम् । शोभना क्षितिः सुक्षितिः । मन् क्तिन्नित्यादिनोत्तरपदांतोदात्तत्वम् । वर्ता । वर्ततेर्वृणोतेर्वा तृच्यागमानुशासनस्यानित्यत्वादिडभावः । तरुता । तूृप्लवनतरणयोः । ग्रसितस्कभितेत्यादिना तृच्युडागमो निपातितः । चित इत्यंतोदात्तत्वम् । महाधने महच्चतद्धनं च महाधनम् । आन्महतः (पा ६-३-४६) इत्यात्वम् । तेन शब्देन तद्धेतुभूतः संग्रामो लक्ष्यते । अर्भे । ऋ गतौ । अर्तिगृभ्यां भन् उ ३-१५२ । इति भन्प्रत्ययः । नित्त्वादाद्युदात्तत्वं ॥ २१ ॥ ८ ॥