श्रवणम्

1.40.2
त्वामिद्धि स᳚हसस्पुत्र॒ मर्त्य᳚ उपब्रू॒ते धने᳚ हि॒ते ।
सु॒वीर्यं᳚ मरुत॒ आ स्वश्व्यं॒ दधी᳚त॒ यो व᳚ आच॒के ॥
▶ पदपाठः (Word-by-word)
त्वाम् । इत् । हि । स॒ह॒सः॒ । पु॒त्र॒ । मर्त्यः᳚ । उ॒प॒॑ब्रू॒ते । धने᳚ । हि॒ते ।
सु॒॑वीर्य᳚म् । म॒रु॒तः॒ । आ । सु॒॑अश्व्य᳚म् । दधी᳚त । यः । वः॒ । आ॒॑च॒क्रे ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सहसस्पुत्र बलस्य बहुपालक ब्रह्मणस्पते । पुत्रः पुरु त्रायते निपरणाद्वेति निरुक्तम् (नि २-११) मर्त्यो मनुष्यो हिते शत्रुषु प्रक्षिप्ते धन निमित्तभूते सति त्वामित् । त्वामेवोपब्रूते हि । समीपं प्राप्य स्तौति खलु । तद्धनसंपादनाय प्रार्थयत इत्यर्थः । हे मरुतो यो धनार्थी मर्त्यो वो युष्मान् ब्रह्मणस्पतिसहितानाचके स्तौति । स मर्त्यः स्वश्व्यं शोभनाश्वयुक्तं सुवीर्यं शोभनवीर्ययुक्तं च धनं दधीत । धारयेत् ॥ सहसस्पुत्र । ब्रह्मणस्पत इतिवत् । षष्ठ्याः पतिपुत्रेति विसर्जनीयस्य सत्वम् । उपब्रूते । हि चेति निघातप्रतिषेधः । तिङि चोदात्तवतीति गतेरनुदात्तत्वम् । हिते । निष्ठायां दधातेर्हिरिति हिरादेशः । सुवीर्यम् । शोभनं वीर्यं यस्येति बहुव्रीहौ वीरवीर्यौ चेत्युत्तरपदाद्युदात्तत्वम् । स्वश्व्यम् । अश्वानां समूहोऽश्वीयम् । केशाश्वाभ्यां यञ्छाव्यतरस्याम् (पा ४-२-४८) इति समूहार्थे छप्रत्ययः । छस्य ईयादेशः । शोभनमश्वीयं यस्य तत् स्वश्व्यम् । ईकारलोपश्छांदसः । परादश्छंदसि बहुलमित्युत्तरपदाद्युदात्तत्वम् । दधीत । सीयुटः सकारलोपे सत्यभ्यस्तानामादिरित्याद्युदात्तत्वम् । पादादित्वान्निघाताभावः । आचके । कै गै रै शब्दे । आदेच इत्यात्वम् । लिटि द्विर्वचनेऽभ्यासस्य ह्रस्वचुत्वे । आतो लोप इट चेत्याकारलोपः । प्रत्ययस्वरः । यद्वृत्तयोगादनिघातः ॥ २ ॥