प्रथमं मण्डलम् - सूक्तम् 30

22 ऋचः

ऋषिः: शुनःशेप आजीगर्तिः देवता: इंद्रः छन्दः: गायत्री

सूक्तम् 1.30 - सम्पूर्णम्

1 / 22
ऋक्: 1.30.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (22)
1.30.1
आ व॒ इन्द्रं॒ क्रिविं᳚ यथा वाज॒यन्त᳚ः श॒तक्र᳚तुम् ।
मंहि᳚ष्ठं सिञ्च॒ इन्दु᳚भिः ॥
▶ पदपाठः (Word-by-word)
आ । वः॒ । इन्द्र᳚म् । क्रिवि᳚म् । य॒था॒ । वा॒ज॒॑यन्तः᳚ । श॒त॑क्र᳚तुम् ।
मंहि᳚ष्ठम् । सि॒ञ्चे॒ । इन्दु᳚॑भिः ॥
▶ सायणभाष्यम् (Sayana Commentary)

वाजयंतोऽन्नमिच्छंतो वयं शुनःशेपा हे ऋत्विग्यजमाना वो युष्माकं संबंधिनमिममिंद्रमिंदुभिः सोमैरासिंचे । सर्वतः सिंचामहे । तर्पयामः । कीदृशम् । शतक्रतुं शतसंख्याककर्मोपेतं मंहिष्ठमतिशयेन प्रवृद्धम् । सेचने दृष्टांतः । यथा येन प्रकारेण क्रिविमवटं जलेन पूरयंति तद्वत् । क्रिविशब्दो वव्रिः काटुरित्यादिषु चतुर्दशसु कूपनामसु क्रिविः कूपः सूद इति परितं ॥ क्रिविम् । कृती छेदने । कृत्यत इति क्रित्विः । क्रिविघृष्विच्छविस्थवीत्यादौ (उ ४-५६) क्विन्प्रत्ययांतो निपातितः । अत एव तशब्द लोपः । नित्त्वादाद्युदात्तत्वम् । यथा । यथेति पादांते (फि ४-१७) इति सर्वानुदात्तत्वम् । वाजयंतः । वाजमात्मन इच्छंतः । सुप आत्मनः क्यच् । न छंदस्य पुत्रस्येतीत्वदीर्घत्वयोर्निषेधः । अश्वाघस्यादिति पुनर्दीर्घविधानाज्ज्ञापकाश् । मंहिष्ठम् । महि वृद्धौ । अतिशयेन मंहिता मंहिष्ठः । तुश्छंदसि (पा ५-३-५९) इति तृजंतादिष्ठन्प्रत्ययः । तुरिष्ठेमेयःसु (पा ६-४-१५४) इति तृलोपः । इष्ठनो नित्त्वादाद्युदात्तत्वम् । सिंचे । षिचिर् क्षरणे । व्यत्ययेनैकवचनम् । शे मुचादीनामिति नुमागमः ॥ १ ॥

1.30.2
श॒तं वा॒ यः शुची᳚नां स॒हस्रं᳚ वा॒ समा᳚शिराम् ।
एदु᳚ नि॒म्नं न री᳚यते ॥
▶ पदपाठः (Word-by-word)
श॒तम् । वा॒ । यः । शुची᳚नाम् । स॒हस्र᳚म् । वा॒ । सम्॑आ᳚शिराम् ।
आ । इत् । ऊं॒ इति᳚ । नि॒म्नम् । न । री॒य॒ते॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

य इंद्रः शुचीनां शुद्धानां सोमानां शतं वा शतसंख्याकं समूहं वा । समाशिरां समीचीनेनाशिराख्येन श्रपणद्रव्येणोपेतानां सोमानां सहस्रं वा सहस्रसंख्याकं समूहं वा एदुरीयते । अगच्छत्येव । सोऽस्माननुगृह्णात्विति शेषः । सोमप्राप्तौ दृष्टांतः । निम्नं न । यथा निम्नप्रदेशमाप अप्नुवंति तद्वत् ॥ समाशिराम् । श्रीञ् पाक इत्यस्य समाङ् पूर्वस्य क्विप्यपस्पृधेथामित्यादावाशीरादेशो निपातितः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । रीयते । रीङ् श्रवणे । दिवादिभ्यः श्यन् ॥ २ ॥

1.30.3
सं यन्मदा᳚य शु॒ष्मिण᳚ ए॒ना ह्य᳚स्यो॒दरे᳚ ।
स॒मु॒द्रो न व्यचो᳚ द॒धे ॥
▶ पदपाठः (Word-by-word)
सम् । यत् । मदा᳚य । शु॒ष्मिणे᳚ । ए॒ना । हि । अ॒स्य॒ । उ॒दरे᳚ ।
स॒मु॒द्रः । न । व्यचः᳚ । द॒धे ॥
▶ सायणभाष्यम् (Sayana Commentary)

यत्पूर्वोक्तं शतं सहस्रं वा शुष्मिणे बलवत इंद्रस्य मदाय मदार्थं संगतं भवति । एना ह्यनेनैव शतेन सहस्रेण चास्येंद्रस्योदरे व्यचो व्याप्तिर्दधे । धृता भवति । तत्र दृष्टांतः । समुद्रो न समुद्र इव । यथा समुद्रमध्ये जलं व्याप्तं तद्वत् ॥ एना । सुपां सुलुगिति तृतीयाया डादेशः । व्यचः । व्यचेः कुटादित्वमनसि । का १-२-१-१ । इति ङिद्वद्भावस्य प्रतिषिद्धत्वाद्ग्रहिज्येत्यादिना संप्रसारणं न भवति असुनो नित्त्वादाद्युदात्तत्वम् । दधे । दधातेः कर्मण्यभ्यासह्रस्वजश्त्वेषु कृतेष्वातो लोप इट चेत्याकारलोपः । प्रत्ययस्वरेणांतोदात्तत्वम् । हि चेति प्रतिषेधान्निघाताभावः ॥ ३ ॥

1.30.4
अ॒यमु᳚ ते॒ सम᳚तसि क॒पोत᳚ इव गर्भ॒धिम् ।
वच॒स्तच्चि᳚न्न ओहसे ॥
▶ पदपाठः (Word-by-word)
अ॒यम् । ऊं॒ इति᳚ । ते॒ । सम् । अ॒त॒सि॒ । क॒पोतः᳚॑इव । ग॒र्भ॒॑धिम् ।
वचः᳚ । तत् । चि॒त् । नः॒ । ओ॒ह॒से॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इंद्र अयमु अयमपि दृश्यमानः सोमस्ते त्वदर्थं संपादितः । यं सोमं समतसि सम्यक् सातत्येन प्राप्नोषि । तत्र दृष्टांतः । कपोत इव । यथा कपोताख्यः पक्षी गर्भधिं गर्भधारिणीं कपोतीं प्राप्नोति तद्वत् । तच्चित्तस्मादेव कारणान्नोऽस्मदीयं वच ओहसे । प्राप्नोषि ॥ अतसि । अत सातत्यगमने । कपोत इव । कवेरोतच् पश्च (उ १-६२) इत्योतच् । व्यत्ययेन मध्योदात्तः । गर्भधिम् । गर्भोऽस्यां धीयत इति गर्भधिः । कर्मण्यधिकरणे च (पा ३-३-३९) इति किप्रत्ययः । कृदुत्तरपदप्रकृतिस्वरत्वम् । ओहसे । तुहिर् दुहिर् उहिर् अर्दने । व्यत्ययेनात्मनेपदं ॥ ४ ॥

1.30.5
स्तो॒त्रं रा᳚धानां पते॒ गिर्वा᳚हो वीर॒ यस्य᳚ ते ।
विभू᳚तिरस्तु सू॒नृता᳚ ॥
▶ पदपाठः (Word-by-word)
स्तो॒त्रम् । रा॒धा॒ना॒म् । प॒ते॒ । गिर्वा᳚हः । वी॒र॒ । यस्य᳚ । ते॒ ।
वि॑भू᳚तिः । अ॒स्तु॒ । सु॒नृता᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इंद्र राधानां पते धनानां पालक गिर्वाहो गीर्भिरुह्यमान वीर शौर्योपेत यस्य ते तव स्तोत्रमीदृशं भवति तस्य तव विभूतिर्लक्ष्मीः सूनृता प्रियसत्यरूपास्तु ॥ स्तोत्रम् । दाम्नीशसेति ष्ट्रन् (पा ३-२-१८२) पश्चादर्शआद्यच् । अथवा स्तोतुरिदमित्यर्थेऽण् । संज्ञापूर्वको विधिरनित्य इति वृद्धिर्न । राधानां पते । राध्नुवंत्येभिरिति राधानि धनानि । सुबामंत्रित इति परांगवद्भावात्षष्ठ्यामंत्रितसमुदायस्य निघातः । गिर्वाहः । वह प्रापणे । वहिहाधाञ् भ्यश्छंदसीति कारकपूर्वस्यापि वहतेरसुन्प्रत्ययः । गतिकारकयोरपि पूर्वपदप्रकृतिस्वरत्वं च (उ ४-२२४) इत्युक्तत्वात् । णिदित्यनुवृत्तेरुपधावृधिः । पूर्वपदस्य र्वोरुपधायाः (पा ८-२-७६) इति दीर्घस्याभावश्छांदसः । षाष्ठि कमामंत्रिताद्युदात्तत्वम् । विभूतिः । तादौ च नितीति गतेः प्रकृतिस्वरत्वं ॥ २८ ॥ ५ ॥

1.30.6
ऊ॒र्ध्वस्ति᳚ष्ठा न ऊ॒तये॒॑स्मिन्वाजे᳚ शतक्रतो ।
सम॒न्येषु᳚ ब्रवावहै ॥
▶ पदपाठः (Word-by-word)
ऊ॒र्ध्वः । ति॒ष्ठ॒ । नः॒ । ऊ॒तये᳚ । अ॒स्मिन् । वाजे᳚ । श॒त॒क्र॒तो॒ इति᳚ शत॑क्रतो ।
सम् । अ॒न्येषु᳚ । ब्र॒वा॒व॒है॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे शतक्रतो शतसंख्याक कर्मोपेत अस्मिन्प्रसक्ते वाजे संग्रामे नोऽस्माकमूतये रक्षणायोर्ध्व उन्नत उत्सुकस्तिष्ठ । भव । त्वं चाहं च मिलित्वान्येषु कार्यांतरेषु सं ब्रवावहै । सम्यक् विचारयावः ॥ तिष्ठ । द्व्यचोऽतस्तिङ इति संहितायां दीर्घः । ऊतये । ऊतियूतीत्यादिनाक्तिन उदात्तत्वम् । अस्मिन् । ऊडिदमित्यादिना सप्तम्या उदात्तत्वं ॥ ६ ॥

1.30.7
योगे᳚योगे त॒वस्त᳚रं॒ वाजे᳚वाजे हवामहे ।
सखा᳚य॒ इन्द्र᳚मू॒तये᳚ ॥
▶ पदपाठः (Word-by-word)
योगे᳚॑योगे । त॒वः॑त᳚रम् । वाजे᳚॑वाजे । ह॒वा॒म॒हे॒ ।
सखा᳚यः । इन्द्र᳚म् । ऊ॒तये᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

योगे योगे प्रवेशे । प्रवेशे तत्तत्कर्मोपक्रमे वाजे वाजे कर्मविघातिनि तस्मिंस्तस्मिन्संग्रामे तवस्तरमतिशयेन बलिनमिंद्रमूतये रक्षार्थं सखायः सखिवत्प्रिया वयं हवामहे । आह्वयामः ॥ योगे योगे । युजिर् योगे । हलश्चेति घञ् । चचोः कु घिण्यतोः (पा ७-३-५२) इति कुत्वम् । घञो ञित्त्वादाद्युदात्तत्वम् । नित्यवीप्सयोरिति वीप्सायां द्विर्भावे सत्याम्रेडितानुदात्तत्वम् । तवस्तरम् । तवसः शब्दादस्मायामेधेति (पा ५-२-१२१) मत्वर्थीयो विनिः । तस्य छांदसो लोपः ॥ ७ ॥

1.30.8
आ घा᳚ गम॒द्यदि॒ श्रव᳚त्सह॒स्रिणी᳚भिरू॒तिभि᳚ः ।
वाजे᳚भि॒रुप᳚ नो॒ हव᳚म् ॥
▶ पदपाठः (Word-by-word)
आ । घ॒ । ग॒म॒त् । यदि᳚ । श्रव᳚त् । स॒ह॒स्रिणी᳚भिः । ऊ॒ति॑भिः᳚ ।
वाजे᳚भिः । उप᳚ । नः॒ । हव᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

यदि श्रवत् यद्ययमिंद्रो नोऽस्मदीयं हवमाह्वानं शृणुयात् तदानीं स्वयमेव सहस्रिणीभिरूतिभिर्भहुभिः पालनैर्वाजेभिरन्नैश्च सहोप समीप आ घ अवश्यमागमत् । आगच्छेत् ॥ घ । ऋचि तुनुघेत्यादिना संहितायां दीर्घः । गमत् । लिङर्थे लेट् । लेटोऽडाटावित्यडागमः । इतश्च लोप इतीकारलोपः । यद्वा । छांदसे लुङि पुषादिद्युताद्य्लृदितः परस्मैपदेषु (पा ३-१-५५) इति च्लेरङादेशः । बहुलं छंदस्यमाङ्योगेऽपीत्यडभावः । श्रवत् । श्रु श्रवणे । पूर्ववल्लेट्यडागमः । वाजेभिः । बहुलं छंदसीति भिस ऐसादेशाभावः । हवम् । भावेऽनुपसर्गस्येति ह्वयतेरप् । संप्रसारणं च । अपः पित्त्वादनुदात्तत्वे धातुस्वरेणाद्युदात्तत्वं ॥ ८ ॥

1.30.9
अनु᳚ प्र॒त्नस्यौक᳚सो हु॒वे तु᳚विप्र॒तिं नर᳚म् ।
यं ते॒ पूर्वं᳚ पि॒ता हु॒वे ॥
▶ पदपाठः (Word-by-word)
अनु᳚ । प्र॒त्नस्य᳚ । ओक᳚सः । हु॒वे । तु॒वि॒॑प्र॒तिम् । नर᳚म् ।
यम् । ते॒ । पूर्व᳚म् । पि॒ता । हु॒वे ॥
▶ सायणभाष्यम् (Sayana Commentary)

प्रत्नस्य पुरातनस्यौकसः स्थानस्य स्वर्गरूपस्य सकाशात्तुविप्रतिं बहून्यजमानान्प्रतिगंतारं नरं पुरुषमिंद्रमनु हुवे । अनुक्रमेण कर्मस्वाह्वयामि । यं ते त्वामिंद्रं पितास्मदीयो जनकः पूर्वं पुरा स्वकीयानुष्ठानकाले हुवे । आहूतवान् । तमाह्वयामीति पूर्वत्रान्वयः ॥ ओकसः । नब्विषयस्येत्याद्युदात्तत्वम् । हुवे । ह्वेञ् स्पर्धायां शब्दे च । इट बहुलं छंदसीति संप्रसारणं परपूर्वत्वम् । गुणे । प्राप्ते क्ङिति चेति प्रतिषेधः । उवङादेशः । प्रत्ययस्वरेणांतोदात्तत्वम् । पादादित्वादनिघातः । तुविप्रतिम् । तुवीनां बहूनां प्रतिगंतारम् । अत्र प्रतिशब्दो भीमसेनो भीम इतिवत् । प्रतिगंतृशब्दं लक्षयित्वा तद्द्वारा तदर्थं लक्षयति । अतः प्रतिः प्रतिनिधिप्रतिदानयोः (पा १-४-९२) इतिवत्सत्ववचनत्त्वेनानिपातत्वादनव्ययत्वे पूरणगुणेत्यादिना (पा २-२-११) न षष्ठीसमासनिषेधः हुवे । ह्वेञो लिट बहुलं छंदसीति पूर्ववत्संप्रसारणपरपूर्वत्वे । द्विर्वचनप्रकरणे छंदसि वेति वक्तव्यम् । का ६-१-८-१ । इति द्विर्वचनाभावः । यद्वृत्तयोगादनिघातः ॥ ९ ॥

1.30.10
तं त्वा᳚ व॒यं वि᳚श्ववा॒रा शा᳚स्महे पुरुहूत ।
सखे᳚ वसो जरि॒तृभ्य᳚ः ॥
▶ पदपाठः (Word-by-word)
तम् । त्वा॒ । व॒यम् । वि॒श्व॒॑वा॒र॒ । आ । शा॒स्म॒हे॒ । पु॒रु॒॑हू॒त॒ ।
सखे᳚ । व॒सो॒ इति᳚ । ज॒रि॒तृ॑भ्यः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे विश्ववार सर्वैर्वरणीय पुरुहूत बहुभिः स्वस्वकर्मण्याहूत सखे सखिवत्प्रिय वसो निवासहेतो इंद्र तं पूर्वोक्तगुणयुक्तं त्वां जरितृभ्यः स्तोतृणामनुग्रहार्थमाशास्महे । प्रार्थयामहे ॥ आ शास्महे । आङः शासु इच्छायाम् । अदिप्रभृतिभ्यः शप इति शपो लुक् । वसो नामंत्रिते समानाधिकरण इति पूर्वस्याविद्यमानवत्वनिषेधात्परांगवद्भावे सति शेषनिघातेन वामंत्रितस्य चेति वा सर्वानुदात्तत्वम् । जरितृभ्यः । जरतिः स्तुतिकर्मा । तृचश्चित्त्वादंतोदात्तत्वं ॥ २९ ॥ १० ॥

1.30.11
अ॒स्माकं᳚ शि॒प्रिणी᳚नां॒ सोम᳚पाः सोम॒पाव्ना᳚म् ।
सखे᳚ वज्रि॒न्त्सखी᳚नाम् ॥
▶ पदपाठः (Word-by-word)
अ॒स्माक᳚म् । शि॒प्रिणी᳚नाम् । सोम᳚॑पाः । सो॒म॒॑पाव्ना᳚म् ।
सखे᳚ । व॒ज्रि॒न् । सखी᳚नाम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सोमपाः सोमस्य पातः सखे सखिवत्प्रिय वज्रिन्वज्रयुक्तेंद्र सखीनां सखिवत्प्रियाणां सोमपाव्नां सोमस्य पातृणामस्माकां शिप्रिणीनां दीर्घाभ्यां हनूभ्यां नासिकाभ्यां वा युक्तानां गवां समूहस्त्वत्प्रसादादस्त्विति शेषः ॥ शिप्रिणी नाम् । ऋन्नेभ्यो ङीबिति ङीप् । तस्य पित्त्वादनुदात्तत्वे सति प्रत्ययस्वरः शिष्यते । सोमपाः । आमंत्रिस्य सति शिष्टत्वादामंत्रिताद्युदात्तत्वम् । सोमपाव्नाम् । आतो मनिन्नित्यादिना वनिप् । अल्लोपोऽनः (पा ६-४-१३४) इत्यनोऽकारस्य लोपः ॥ ११ ॥

1.30.12
तथा॒ तद᳚स्तु सोमपा॒ः सखे᳚ वज्रि॒न्तथा᳚ कृणु ।
यथा᳚ त उ॒श्मसी॒ष्टये᳚ ॥
▶ पदपाठः (Word-by-word)
तथा᳚ । तत् । अ॒स्तु॒ । सो॒म॒॑पाः॒ । सखे᳚ । व॒ज्रि॒न् । तथा᳚ । कृ॒णु॒ ।
यथा᳚ । ते॒ । उ॒श्मसि᳚ । इ॒ष्टये᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सोमपाः सखे वज्रिन् इष्टयेऽभिलषितार्थं ते तवानुग्रहं यथा येन प्रकारेणोश्मसि वयं कामयामहे त्वं तथा कुरु । त्वत्प्रसादात्तदभीष्टं तथास्तु ॥ कृणु । कृवि हिंसाकरणयोश्च । इदित्त्वान्नुम् । धिन्विकृण्व्योरच्चेत्त्युप्रत्ययः । तत्संनियोगेन वकारस्य चाकारः । अतो लोप इति तस्य लोपः । तस्य स्थानिवद्भावाल्लघूपधगुणाभावः । उतश्च प्रत्ययादसंयोगपूर्वादिति हेर्लुक् । उश्मसि । वस कांतौ । इदंतो मसिः । अदादित्वाच्छपो लुक् । ग्रहिज्यादिना संप्रसारणम् । प्रत्ययस्वरः । यद्वृत्तयोगादनिघातः । इष्टये । इषु इच्छायाम् । क्तिनि तितुत्रेत्यादिनेट् प्रतिषेधः । यद्वा । यजतेः क्तिनि वचिस्वपीत्यादिना (पा ६-१-१५) संप्रसारणम् । व्रश्चादिना षत्वे ष्टुत्वम् । पूर्वस्मिन्पक्षे मंत्रे वृषेति क्तिन उदात्तत्वम् । द्वितीये तु व्यत्ययेन ॥ १२ ॥

1.30.13
रे॒वती᳚र्नः सध॒माद॒ इन्द्रे᳚ सन्तु तु॒विवा᳚जाः ।
क्षु॒मन्तो॒ याभि॒र्मदे᳚म ॥
▶ पदपाठः (Word-by-word)
रे॒वतीः᳚ । नः॒ । स॒ध॒॑मादे᳚ । इन्द्रे᳚ । स॒न्तु॒ । तु॒वि॑वा᳚जाः ।
क्षु॒॑मन्तः᳚ । याभिः᳚ । मदे᳚म ॥
▶ सायणभाष्यम् (Sayana Commentary)

क्षुमंतोऽन्नवंतो वयं याभिर्गोभिः सह मदेम हृष्येम इंद्रे सधमादेऽस्माभिः सह हर्षयुक्ते सति नोऽस्माकं ता गावो रेवतीः क्षीराज्यादिधनवत्यः तुविवाजाः प्रभूतबलाश्च संतु ॥ रेवतीः रयिशब्दान्मतुपि रयेर्मतौ बहुलमिति संप्रसारणं परपूर्वत्वम् । छंदसीर इति मतुपो वत्वम् । वा छंदसीति पूर्वसवर्णदीर्घः । आरेशब्दाच्च मतुप उदात्तत्वं वक्तव्यमिति रेशब्दादुत्तरस्यापि भवतीति पूर्वमेवोक्तम् । सधमादे । मद तृप्तियोगे । चौरादिकः । सह मादयतीति सधमादः । पचाद्यच् । सध मादस्थयोश्छंदसि (पा ६-३-९६) इति सहशब्दस्य सधादेशः । थाथादिनोत्तरपदांतोदात्तत्वे प्राप्ते परादिश्चंदसि बहुलमित्युत्तरपदाद्युदात्तत्वम् । तुविवाजाः । तु इति सौत्रो धातुर्वृद्ध्यर्थः । आच इरिति इः । संज्ञापूर्वकत्वाद्गुणो न भवति । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । क्षुमंतः । टुक्षु शब्दे । अस्मात्क्विपि तुगभावश्छांदसः । ह्रस्वनुड् भ्यां मतुबिति मतुप उदात्तत्वम् । मदेम । मदी हर्षे । व्यत्ययेन शप् । आदुपदेशाल्लसार्वधातुकानुदात्तत्वे शपः पित्त्वादनुदात्तत्वम् । ततो धातुस्वरः शिष्यते ॥ १३ ॥

1.30.14
आ घ॒ त्वावा॒न्त्मना॒प्तः स्तो॒तृभ्यो᳚ धृष्णविया॒नः ।
ऋ॒णोरक्षं॒ न च॒क्र्यो᳚ः ॥
▶ पदपाठः (Word-by-word)
आ । घ॒ । त्वा॑वा᳚न् । त्मना᳚ । आ॒प्तः । स्तो॒तृ॑भ्यः᳚ । धृ॒ष्णो॒ इति᳚ । इ॒या॒नः ।
ऋ॒णोः । अक्ष᳚म् । न । च॒क्र्योः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे धृष्णो धार्ष्ट्ययुक्तेंद्र त्वावान् त्वत्सदशो देवताविशेषस्त्मनाप्तस्त्वदनुग्रहवशात्स्वयमेवाप्तः सन् इयानोऽस्माभिर्याच्यमानः स्तोतृभ्यः स्तोतृणामनुग्रहाय तदभीष्टमर्थं घ अवश्यमा ऋणोः । आनीय प्रक्षिपतु । तत्र दृष्टांतः । चक्र्योः रथस्य चक्रयोरक्षं न । यथाक्षं प्रक्षिपंति तद्वत् ॥

त्वावान् । वतुप्प्रकरणे युष्मदस्मद्भ्यां छंदसि सादृश्य उपसंख्यानम् । पा ५-२-३९-१ । इति वतुप् । प्रत्ययोत्तरपदयोश्चेति मपर्यंतस्य त्वादेशः । आ सर्वनाम्नः (पा ६-३-९१) इति दकारस्यात्वम् । वतुपः । पित्त्वादनुदात्तत्वे प्रातिपदिकस्वरः शिष्यते । त्मना । मंत्रेष्वाङ्यादेरात्मनः (पा ६-४-१४१) इत्याकारलोपः । धृष्णो । ञिधृषा प्रागल्भ्ये । त्रसिगृधिधृषिक्षिपेः क्नुः (पा ३-२-१४०) आमंत्रितानुदात्तत्वम् । इयानः । ईङ् गतौ । छंदसि लिट् (पा ३-२-१०५) तस्य लिटः कानज्वेति कानजादेशः । अचि श्नुधात्वित्यादिना (पा ६-४-७७) इयङादेशः । द्विर्वचनप्रकरणे छंदसि वेति वक्तव्यमिति वचनादभ्यासो न क्रियते । चित इत्यंतोदात्तत्वम् । ऋणोः । ऋण गतौ । लङि व्यत्ययेन तिपः सिपीतश्च (पा ३-४-१००) इतीकारलोपः । तनादिकृञ् भ्य उः (पा ३-१-७९) सार्वधातुकगुणः । बहुलं छंदस्यमाङ्योगेऽपीत्यडागमाभावः । विकरणस्वरेणोदात्तत्वम् । अक्षम् । अक्षस्यादेवनस्य (फि २-१२) इत्याद्युदात्तत्वम् । चक्र्योः । अकारस्येकारश्छांदसः ॥ १४ ॥

1.30.15
आ यद्दुवः᳚ शतक्रत॒वा कामं᳚ जरितॄ॒णाम् ।
ऋ॒णोरक्षं॒ न शची᳚भिः ॥
▶ पदपाठः (Word-by-word)
आ । यत् । दुवः᳚ । श॒त॒क्र॒तो॒ इति᳚ शत॑क्रतो । आ । काम᳚म् । ज॒रि॒तॄ॒णाम् ।
ऋ॒णोः । अक्ष᳚म् । न । शची᳚भिः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे शतक्रतो इंद्र यद्दुवो धनं कामितार्थरूपमा स्तोतृभिराप्तव्यमस्ति तं कामं जरितृणां स्तोतृणामनुग्रहाय आ ऋणोः । आनीय प्रक्षिपसि । तत्र दृष्टांतः । शचीभिः कर्मभिः शकटोचितव्यापारविशेषैरक्षं न । यथाक्षं प्रक्षिपंति तद्वत् ॥ शचीभिः कर्मभिः शकटोचितव्यापारविशेषैरक्षं न । यथाक्षं प्रक्षिपंति तद्वत् ॥ शचीभिः । शचीशब्दः शार्ङरवादिङीनंत आद्युदात्तः ॥ पा ४-१-७३ ॥ ३० ॥ १५ ॥

1.30.16
शश्व॒दिन्द्र॒ः पोप्रु᳚थद्भिर्जिगाय॒ नान᳚दद्भि॒ः शाश्व᳚सद्भि॒र्धना᳚नि ।
स नो᳚ हिरण्यर॒थं दं॒सना᳚वा॒न्त्स नः᳚ सनि॒ता स॒नये॒ स नो᳚॑दात् ॥
▶ पदपाठः (Word-by-word)
शश्व᳚त् । इन्द्रः᳚ । पोप्रु᳚थत्॑भिः । जि॒गा॒य॒ । नान᳚दत्॑भिः । शाश्व᳚सत्॑भिः । धना᳚नि ।
सः । नः॒ । हि॒र॒ण्य॒॑र॒थम् । दं॒सना᳚॑वान् । सः । नः॒ । स॒नि॒ता । स॒नये᳚ । सः । नः॒ । अ॒दा॒त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

तुष्टेनेंद्रेण दत्तं हिरण्यरथमनया प्रतिजग्राह । तथा च ब्राह्मणम् । तस्म इंद्रः स्तूयमानः प्रीतो मनसा हिरण्यरथं ददौ तमेतया प्रतीयाय शश्वदिंद्र इति । ऐ ब्रा ७-१६ । इति ॥ इंद्रः तत्वत्सर्वदाधनानि वैरिसंबंधीनि जिगाय । जितवान् । अश्वैरिति शेषः । कीदृशैः । पोप्रुथद्भिः । घासभक्षणानंतरभाविनमोष्ठशब्द कुर्वद्भिः नानदद्भिर्नादमास्यगतं हेषाशब्दं कुर्वद्भिः शाश्वसद्भिः पुनःपुनर्भृतं वा श्वसद्भिः । दंसनावान् कर्मवान् सनिता दाता स इंद्रो नोऽस्माकं सनये संभजनार्थं हिरण्यरथं सुवर्णेन निर्मितं रथमदात् । दत्तवान् । स नः स न इति द्विरुक्तिरादरार्थं ॥ पोप्रुथद्भिः । प्रोथृ पर्याप्तौ अस्माद्यङ् लुक्यभ्यासहलादिशेषौ । ह्रस्वः (पा ७-४-५९) इति ह्रस्वत्वे कृते गुणो यङ् लुकोः (पा ७-४-८२) इति गुणः । धातोरुपधाया उत्वं छांदसम् । अस्माद्यङ् लुगंताच्छतर्यभ्यस्तानामादिरित्याद्युदात्तत्वम् । जिगाय । जि जये । लिटो णलि वृद्धिः । द्विर्वचनेऽचीति स्थानिवद्भावाज्जि इत्यस्य । द्विर्वचनम् । सन् लिटोर्जेः (पा ७-३-५७) इत्यभ्यासादुत्तरस्य कुत्वम् । नानदद्भिः । णद आव्यक्ते शब्दे । पूर्ववद्यङ् लुकि दीर्घोऽकित इत्यभ्यासस्य दीर्घः । पूर्ववदाद्युदात्तत्वम् । शाश्वसद्भिः । श्वस प्राणने । अन्यत्सर्वं पूर्ववत् । हिरण्यरथम् । समासस्येत्यंतोदात्तत्वम् । अदात् । गातिस्थेति सिचो लुक् । दंसनावान् । दंसशब्द अप्नो दंसो वेष इति कर्मनामसु पठितः । दंस एव दंसना । तदस्यास्तीति मतुप् । दस्यतेऽनेनेति दंसना ॥ १६ ॥

1.30.17
आश्वि᳚ना॒वश्वा᳚वत्ये॒षा या᳚तं॒ शवी᳚रया ।
गोम᳚द्दस्रा॒ हिर᳚ण्यवत् ॥
▶ पदपाठः (Word-by-word)
आ । अ॒श्वि॒नौ॒ । अश्व᳚॑वत्या । इ॒षा । या॒त॒म् । शवी᳚रया ।
गो॑म᳚त् । द॒स्रा॒ । हिर᳚ण्य॑वत् ॥
▶ सायणभाष्यम् (Sayana Commentary)

प्रातरनुवाक आश्विने क्रतौ गायत्रे छंदस्याश्विनाश्वावत्येति तृचः । अथाश्विन इति खंडेऽश्विना यज्वरीरिष आश्विनावश्वावत्या (आ ४-१५) इति सूत्रितम् ।

इंद्रेण प्रेरितः शुनःशेपोऽश्विनौ तुष्टाव । तथा च ब्राह्मणम् । तमिंद्र उवाचाश्विनौ नु स्तुह्यथ त्वोत्स्रक्ष्याम इति सोऽश्विनौ तुष्टावात उत्तरेण तृचेन । ऐ ब्रा ७-१६ । इति ॥ हे अश्विनौ अश्वावत्या बहुभिरश्वैर्युक्तया शवीरया प्रेर्यमाणयेषान्नेन सह आ यातम् । अस्मिन्कर्मण्यागच्छतम् । हे दस्रा अश्विनौ युवयोः प्रसादाद्गोमद्बहुभिर्गोभिर्युक्तम् । हिरण्यवद्बहुना हिरण्येन युक्तमस्मदीयं गृहमस्त्विति शेषः ॥ अश्वावत्या । मंत्रे सोमाश्वेंद्रियविश्वदेव्यस्य मतौ (पा ६-३-१३१) इति दीर्घत्वम् । इषा । सावेकाच इति तृतीयाया उदात्तत्वम् । यातम् । या प्रापणे । लोट तसस्तम् । आदादित्वाच्छपो लुक् । शवीरया । शु गतौ । कृशृपृकटपटशौटभ्य ईरन् (उ ४-३०) इतीरन्प्रत्ययो बहुलवचनादस्मादपि भवति । नित्त्वादाद्युदात्तत्वं ॥ १७ ॥

1.30.18
स॒मा॒नयो᳚जनो॒ हि वां॒ रथो᳚ दस्रा॒वम᳚र्त्यः ।
स॒मु॒द्रे अ᳚श्वि॒नेय᳚ते ॥
▶ पदपाठः (Word-by-word)
स॒मा॒न॑यो᳚जनः । हि । वा॒म् । रथः᳚ । द॒स्रौ॒ । अम᳚र्त्यः ।
स॒मु॒द्रे । अ॒श्वि॒ना॒ । ईय᳚ते ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे दस्रावश्विनौ वां युवयोः संबंदी रथः समानयोजनस्तुल्ययोजनः युवयोर्द्वयोरेकरथारूढत्वादुभयार्थं सकृदेव युज्यते । युक्तः स रथोऽमर्त्यो विनाशरहितः । अप्रतिहतगतिरित्यर्थः । अत एव हे अश्विनौ हि यस्मात्समुद्रेंऽतरिक्ष ईयते गच्छति । अंतरिक्षनामसु पठितं समुद्रशब्दं यास्क एवं व्याचख्यौ । समुद्रः कस्मात्समुद्द्रवंत्यस्मादापः समभिद्रवंत्येनमापः संमोदंतेऽस्मिन्छूतानि समुद्रको भवति समुनत्तीति वा (नि २-१०) इति ॥ समानयो जनः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । अमर्त्यः । अव्ययपूर्वपदप्रकृतिस्वरत्वम् । ईयते । ईङ् गतौ । अदुपदेशाल्लसार्वधातुकानुदात्तत्वेश्यनो नित्त्वादाद्युदात्तत्वम् । हि चेति निघातप्रतिषेधः ॥ १८ ॥

1.30.19
न्य१॒᳚घ्न्यस्य᳚ मू॒र्धनि᳚ च॒क्रं रथ᳚स्य येमथुः ।
परि॒ द्याम॒न्यदी᳚यते ॥
▶ पदपाठः (Word-by-word)
नि । अ॒घ्न्यस्य᳚ । मू॒र्धनि᳚ । च॒क्रम् । रथ᳚स्य । ये॒म॒थुः॒ ।
परि᳚ । द्याम् । अ॒न्यत् । ई॒य॒ते॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अश्विनौ युवामघ्न्यस्य हंतुं विनाशयितुमशक्यस्य दृढस्य पर्वतस्य मूर्धन्युपरि चक्रं भवदीयरथसंबंध्येकं चक्रं नि येमथुः । नियमितवंतौ । अन्यच्चक्रं परि द्यां द्युलोकस्य परित ईयते । गच्छति ॥ अघ्न्यस्य । अहननमघ्नः । घञर्थे कविधानं स्थास्नापाव्यधिहनियुध्यर्थम् । पा ३-३-५८-४ । इति हंतेः कप्रत्ययः । अघ्न मर्हत्यघ्नः । छंदसि च (पा ५-१-६७) इति यप्रत्ययः । प्रत्ययस्वरेणांतोदात्तत्वम् । येमधुः । यम उपरमे । कित लिट्यत एकहल्मध्ये (पा ६-४-१२०) इत्येत्वाभ्यासलोपौ ॥ १९ ॥

1.30.20
कस्त᳚ उषः कधप्रिये भु॒जे मर्तो᳚ अमर्त्ये ।
कं न᳚क्षसे विभावरि ॥
▶ पदपाठः (Word-by-word)
कः । ते॒ । उ॒षः॒ । क॒ध॒॑प्रि॒ये॒ । भु॒जे । मर्तः᳚ । अ॒म॒र्त्ये॒ ।
कम् । न॒क्ष॒से॒ । वि॒भा॒॑व॒रि॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

प्रातरनुवाक आश्विनशस्त्र उषस्ये क्रतौ गायत्रे छंदसि कस्त उष इति तृचः । अथोषस्य इति खंडे कस्त उष इति तिस्रः (आ ४-१४) इति सूत्रितं ॥

अश्विभ्यां प्रेरितः शुनःशेप उषसं तुष्टाव । तथा च ब्राह्मणम् । तमश्विना ऊचतुरुषसं नु स्तुह्यथ त्वोत्स्रक्ष्याम इति स उषसं तुष्वावात उत्तरेण तृचेन तस्य ह स्मर्च्यृच्युक्तायां वि पाशो मुमुचे कनीय ऐक्ष्वाकस्योदरं भवत्युत्तमस्यामेवर्च्युक्तायां वि पाशो मुमुचेऽगद ऐक्ष्वाक आस । ऐ ब्रा ७-१६ । इति ॥ हे कधप्रिये स्तुतिप्रिये अमर्त्ये मरणरहित उष एतच्छब्दाभिधेय उषःकालाभिमानिनि देवते भुजे तव भोगाय मर्तो मनुष्यः को विद्यते । हे विभावरि विशेषप्रभावयुक्त उषो देवि कं पुरुषं नक्षसे । प्राप्नोषि । तवोचितं भोगं दातुं न कोऽपि मनुष्यः समर्थः । अत एव त्वं कमपि पुरुषं भोगापेक्षया न प्राप्नोषि । ईदृशस्तव महिमेत्यर्थः । ते । तेमयावेकवचनस्य (पा ८-१-२२) इति युष्मच्छब्दस्य ते आदेशः सर्वानुदात्तः । कधप्रिये । कथ वाक्यप्रबंधे । चुरादिरदंतः । णावतो लोपस्य स्थानिवद्भावादुपधावृद्ध्यभावः । चिंतिपूजिकथिकुंबिचर्चश्च (पा ३-३-१०५) इत्यङ् प्रत्ययः । णेरनिटीति णिलोपः । ततष्टाप् । षष्ठीसमासे ङ्यापोः संज्ञाच्छंदसोर्बहुलम् (पा ६-३-६३) इति ह्रस्वत्वम् । थकारस्य धकारश्चांदसः । आमंत्रितानुदात्तत्वम् । भुजे । भुज पालनाभ्यवहारयोः । संपदादिलक्षणः क्विप् । सावेकाच इति विभक्तेरुदात्तत्वम् । मर्तः । असिहसीत्यादिनातन्प्रत्ययांत आद्युदात्तः । नक्षसे । तृक्ष ष्वृक्षणक्ष गतौ । विभावरि । भा दीप्तौ । विपूर्वादस्मादातो मनिन्क्वनिब्वनिपश्चेति वनिप् । वनो र च (पा ४-१-७) इति ङीप् । तत्संनियोगेन नकारस्य रेफादेशः । अंबार्थनद्योर्ह्रस्वः । पा ७-३-१०७ इति ह्रस्वत्वं ॥ २० ॥

1.30.21
व॒यं हि ते॒ अम᳚न्म॒ह्यान्ता॒दा प᳚रा॒कात् ।
अश्वे॒ न चि᳚त्रे अरुषि ॥
▶ पदपाठः (Word-by-word)
व॒यम् । हि । ते॒ । अम᳚न्महि । आ । अन्ता᳚त् । आ । प॒रा॒कात् ।
अश्वे᳚ । न । चि॒त्रे॒ । अ॒रु॒षि॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अश्वे व्यापनशीले चित्रे चायनीय अरुषि आरोचमान उषःकालाभिमानिनि देवते तव स्वरूपमांतात्समीपपर्यंतमा पराकाद्दूरपर्यंतं वयं मनुष्या नामन्महि । न बोद्धुं समर्थाः । हि शब्दः प्रसिद्धौ । देवतामहिम्नः पारावारयोरज्ञानमस्मासु प्रसिद्धमित्यर्थः ॥ अमन्महि । मन ज्ञाने । बहुलं छंदसीति बहुलवचनात् श्यनो लुक् । लुङ् लुङ् लृङ् क्ष्वडुदात्तः । हि चेति निघातप्रतिषेधः । अश्वे । अशू व्याप्तौ । अशिप्रुषीत्यादिना क्वन्प्रत्ययः । आमंत्रिताद्युदात्तत्वं ॥ २१ ॥

1.30.22
त्वं त्येभि॒रा ग᳚हि॒ वाजे᳚भिर्दुहितर्दिवः ।
अ॒स्मे र॒यिं नि धा᳚रय ॥
▶ पदपाठः (Word-by-word)
त्वम् । त्येभिः᳚ । आ । ग॒हि॒ । वाजे᳚भिः । दु॒हि॒तः॒ । दि॒वः॒ ।
अ॒स्मे इति᳚ । र॒यिम् । नि । धा॒र॒य॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

Sayana bhashya empty