श्रवणम्

1.30.19
न्य१॒᳚घ्न्यस्य᳚ मू॒र्धनि᳚ च॒क्रं रथ᳚स्य येमथुः ।
परि॒ द्याम॒न्यदी᳚यते ॥
▶ पदपाठः (Word-by-word)
नि । अ॒घ्न्यस्य᳚ । मू॒र्धनि᳚ । च॒क्रम् । रथ᳚स्य । ये॒म॒थुः॒ ।
परि᳚ । द्याम् । अ॒न्यत् । ई॒य॒ते॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अश्विनौ युवामघ्न्यस्य हंतुं विनाशयितुमशक्यस्य दृढस्य पर्वतस्य मूर्धन्युपरि चक्रं भवदीयरथसंबंध्येकं चक्रं नि येमथुः । नियमितवंतौ । अन्यच्चक्रं परि द्यां द्युलोकस्य परित ईयते । गच्छति ॥ अघ्न्यस्य । अहननमघ्नः । घञर्थे कविधानं स्थास्नापाव्यधिहनियुध्यर्थम् । पा ३-३-५८-४ । इति हंतेः कप्रत्ययः । अघ्न मर्हत्यघ्नः । छंदसि च (पा ५-१-६७) इति यप्रत्ययः । प्रत्ययस्वरेणांतोदात्तत्वम् । येमधुः । यम उपरमे । कित लिट्यत एकहल्मध्ये (पा ६-४-१२०) इत्येत्वाभ्यासलोपौ ॥ १९ ॥