श्रवणम्

1.30.8
आ घा᳚ गम॒द्यदि॒ श्रव᳚त्सह॒स्रिणी᳚भिरू॒तिभि᳚ः ।
वाजे᳚भि॒रुप᳚ नो॒ हव᳚म् ॥
▶ पदपाठः (Word-by-word)
आ । घ॒ । ग॒म॒त् । यदि᳚ । श्रव᳚त् । स॒ह॒स्रिणी᳚भिः । ऊ॒ति॑भिः᳚ ।
वाजे᳚भिः । उप᳚ । नः॒ । हव᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

यदि श्रवत् यद्ययमिंद्रो नोऽस्मदीयं हवमाह्वानं शृणुयात् तदानीं स्वयमेव सहस्रिणीभिरूतिभिर्भहुभिः पालनैर्वाजेभिरन्नैश्च सहोप समीप आ घ अवश्यमागमत् । आगच्छेत् ॥ घ । ऋचि तुनुघेत्यादिना संहितायां दीर्घः । गमत् । लिङर्थे लेट् । लेटोऽडाटावित्यडागमः । इतश्च लोप इतीकारलोपः । यद्वा । छांदसे लुङि पुषादिद्युताद्य्लृदितः परस्मैपदेषु (पा ३-१-५५) इति च्लेरङादेशः । बहुलं छंदस्यमाङ्योगेऽपीत्यडभावः । श्रवत् । श्रु श्रवणे । पूर्ववल्लेट्यडागमः । वाजेभिः । बहुलं छंदसीति भिस ऐसादेशाभावः । हवम् । भावेऽनुपसर्गस्येति ह्वयतेरप् । संप्रसारणं च । अपः पित्त्वादनुदात्तत्वे धातुस्वरेणाद्युदात्तत्वं ॥ ८ ॥