योगे᳚योगे त॒वस्त᳚रं॒ वाजे᳚वाजे हवामहे ।
सखा᳚य॒ इन्द्र᳚मू॒तये᳚ ॥
सखा᳚य॒ इन्द्र᳚मू॒तये᳚ ॥
पदपाठः (Word-by-word)
योगे᳚॑योगे । त॒वः॑त᳚रम् । वाजे᳚॑वाजे । ह॒वा॒म॒हे॒ ।
सखा᳚यः । इन्द्र᳚म् । ऊ॒तये᳚ ॥
सखा᳚यः । इन्द्र᳚म् । ऊ॒तये᳚ ॥
सायणभाष्यम् (Sayana Commentary)
योगे योगे प्रवेशे । प्रवेशे तत्तत्कर्मोपक्रमे वाजे वाजे कर्मविघातिनि तस्मिंस्तस्मिन्संग्रामे तवस्तरमतिशयेन बलिनमिंद्रमूतये रक्षार्थं सखायः सखिवत्प्रिया वयं हवामहे । आह्वयामः ॥ योगे योगे । युजिर् योगे । हलश्चेति घञ् । चचोः कु घिण्यतोः (पा ७-३-५२) इति कुत्वम् । घञो ञित्त्वादाद्युदात्तत्वम् । नित्यवीप्सयोरिति वीप्सायां द्विर्भावे सत्याम्रेडितानुदात्तत्वम् । तवस्तरम् । तवसः शब्दादस्मायामेधेति (पा ५-२-१२१) मत्वर्थीयो विनिः । तस्य छांदसो लोपः ॥ ७ ॥