श्रवणम्

1.30.17
आश्वि᳚ना॒वश्वा᳚वत्ये॒षा या᳚तं॒ शवी᳚रया ।
गोम᳚द्दस्रा॒ हिर᳚ण्यवत् ॥
▶ पदपाठः (Word-by-word)
आ । अ॒श्वि॒नौ॒ । अश्व᳚॑वत्या । इ॒षा । या॒त॒म् । शवी᳚रया ।
गो॑म᳚त् । द॒स्रा॒ । हिर᳚ण्य॑वत् ॥
▶ सायणभाष्यम् (Sayana Commentary)

प्रातरनुवाक आश्विने क्रतौ गायत्रे छंदस्याश्विनाश्वावत्येति तृचः । अथाश्विन इति खंडेऽश्विना यज्वरीरिष आश्विनावश्वावत्या (आ ४-१५) इति सूत्रितम् ।

इंद्रेण प्रेरितः शुनःशेपोऽश्विनौ तुष्टाव । तथा च ब्राह्मणम् । तमिंद्र उवाचाश्विनौ नु स्तुह्यथ त्वोत्स्रक्ष्याम इति सोऽश्विनौ तुष्टावात उत्तरेण तृचेन । ऐ ब्रा ७-१६ । इति ॥ हे अश्विनौ अश्वावत्या बहुभिरश्वैर्युक्तया शवीरया प्रेर्यमाणयेषान्नेन सह आ यातम् । अस्मिन्कर्मण्यागच्छतम् । हे दस्रा अश्विनौ युवयोः प्रसादाद्गोमद्बहुभिर्गोभिर्युक्तम् । हिरण्यवद्बहुना हिरण्येन युक्तमस्मदीयं गृहमस्त्विति शेषः ॥ अश्वावत्या । मंत्रे सोमाश्वेंद्रियविश्वदेव्यस्य मतौ (पा ६-३-१३१) इति दीर्घत्वम् । इषा । सावेकाच इति तृतीयाया उदात्तत्वम् । यातम् । या प्रापणे । लोट तसस्तम् । आदादित्वाच्छपो लुक् । शवीरया । शु गतौ । कृशृपृकटपटशौटभ्य ईरन् (उ ४-३०) इतीरन्प्रत्ययो बहुलवचनादस्मादपि भवति । नित्त्वादाद्युदात्तत्वं ॥ १७ ॥