वृषा᳚ ते॒ वृष्ण॒ इन्दु᳚र्वा॒जी स᳚हस्र॒सात᳚मः ॥
पदपाठः (Word-by-word)
वृषा᳚ । ते॒ । वृष्णे᳚ । इन्दुः᳚ । वा॒जी । स॒ह॒स्र॒॑सात᳚मः ॥
सायणभाष्यम् (Sayana Commentary)
हेहरिवः हरिभ्यांतद्वन्निन्द्र महोमहान् पूज्योयंसोमः पात्रस्येवतत्पात्रेणेवसोमपात्रेणयथाधार्यते सोमः तत्सदृशेनतेत्वया तृतीयार्थेषष्ठी यद्वा पात्रस्येवतेतवस्वभूतोमहोमहान्सोमइतिवायोजना अ- पायि पीयते आशंसायाविवक्षितत्वात् भूतवत्प्रयोगः यतः पिबसिअतोमत्सि माद्यसिमादयस्ववा- त्रेयथासोमःपूर्यतेतथात्यधिकंपिब पीत्वाचमादयस्वेत्यर्थः किञ्च वृष्णेतेअभिमतवर्षित्रेतुभ्यं चतुर्थ्य- र्थेषष्ठीमत्सरोमदसाधनः मदस्तर्पयिता वृषावर्षिता इन्दुःक्लेदयिता आह्लादकारीत्यर्थः वाजी अन्न- वान् अन्नवत्तृप्तिसद्भावादन्नवानित्युच्यते सहस्रसातमः अपरिमितदातृतमः सहस्रपुरुषसंभजनपर्या- प्तशक्त्यतिशयोवा एवंमहानुभावः सोमः संपादितः तंपिबेत्यर्थः ॥ १ ॥