शु॒ष्मिन्त᳚मो॒ हि ते॒ मदो᳚ द्यु॒म्निन्त᳚म उ॒त क्रतु᳚ः ।
वृ॒त्र॒घ्ना व᳚रिवो॒विदा᳚ मंसी॒ष्ठा अ᳚श्व॒सात᳚मः ॥
वृ॒त्र॒घ्ना व᳚रिवो॒विदा᳚ मंसी॒ष्ठा अ᳚श्व॒सात᳚मः ॥
पदपाठः (Word-by-word)
शु॒ष्मिन्॑त᳚मः । हि । ते॒ । मदः᳚ । द्यु॒म्निन्॑त᳚मः । उ॒त । क्रतुः᳚ ।
वृ॒त्र॒॑घ्ना । व॒रि॒वः॒॑विदा᳚ । मं॒सी॒ष्ठाः । अ॒श्व॒॑सात᳚मः ॥
वृ॒त्र॒॑घ्ना । व॒रि॒वः॒॑विदा᳚ । मं॒सी॒ष्ठाः । अ॒श्व॒॑सात᳚मः ॥
सायणभाष्यम् (Sayana Commentary)
हेइन्द्र तेतवमदः सोमपानजनितः शुष्मिन्तमः बलवत्तमः हिप्रसिद्धम् उतअपिचतेक्रतुः कर्मव्या- पारोस्मदर्थोद्युम्निन्तमः अतिशयेनान्नवान् यशोवान्वाउभयत्रायस्मयादीनिछन्दसीति भसंज्ञायबा- धितत्वात् नलोपः हेइन्द्र अश्वसातमः अश्वोपलक्षितबहुधनदाः त्वंवृत्रघ्ना वृत्रघातिनोवरिवोविदा- धनस्यपरिचरणस्यवावेदयितारौलंभयितारौतवमदक्रतूमसीष्ठाः अनुज्ञातवानसि शत्रुघातिनौधन- दातारौचस्यातामित्यनुग्रहमकरोरित्यर्थः ॥ ५ ॥