आ न᳚स्ते गन्तु मत्स॒रो वृषा॒ मदो॒ वरे᳚ण्यः ।
स॒हावा{4}᳚ इन्द्र सान॒सिः पृ᳚तना॒षाळम᳚र्त्यः ॥
स॒हावा{4}᳚ इन्द्र सान॒सिः पृ᳚तना॒षाळम᳚र्त्यः ॥
पदपाठः (Word-by-word)
आ । नः॒ । ते॒ । ग॒न्तु॒ । म॒त्स॒रः । वृषा᳚ । मदः᳚ । वरे᳚ण्यः ।
स॒ह॑वा᳚न् । इ॒न्द्र॒ । सा॒न॒सिः । पृ॒त॒ना॒षाट् । अम᳚र्त्यः ॥
स॒ह॑वा᳚न् । इ॒न्द्र॒ । सा॒न॒सिः । पृ॒त॒ना॒षाट् । अम᳚र्त्यः ॥
सायणभाष्यम् (Sayana Commentary)
हेइन्द्र तेत्वांनोस्मदीयः मत्सरोमर्षणसाधनः सोमआगन्तु आगच्छतु कीदृशोयं वृषावर्षकः मद- स्तर्पयितावरेण्योवरणीयः सहावान् सहायवान् सहसाबलेनतद्वानवा सानसिः संभजनीयः पृतनाषा- ट् शत्रुसेनायाअभिभविता अमर्त्यः अविनाशी ईदृश्सोमस्त्वामागच्छतु यद्वा उत्तरार्धइन्द्रपरतयाव्या- ख्येयः हेइन्द्र सहवान् अस्मद्दत्तसोमसहायवान् सन् बलवान् वा सानसिःअस्माभिः संभजनीयः पृत- नाषाट् अमर्त्यश्चभवसि ॥ २ ॥