श्रवणम्

1.175.4 समानपद
मु॒षा॒य सूर्यं᳚ कवे च॒क्रमीशा᳚न॒ ओज᳚सा ।
वह॒ शुष्णा᳚य व॒धं कुत्सं॒ वात॒स्याश्वै᳚ः ॥
▶ पदपाठः (Word-by-word)
मु॒षा॒य । सू॒र्य॒ । क॒वे॒ । च॒क्रम् । ईशा᳚नः । ओज᳚सा ।
वह᳚ । शुष्णा᳚य । व॒धम् । कुत्स᳚म् । वात᳚स्य । अश्वैः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेकवे क्रान्तदर्शिन्निन्द्र ईशानःसमर्थःसन् सूर्यंसूर्यस्य सुपांसुपोभवन्तीतिषष्ठ्येकवचनस्यद्वितीयै- कवचनादेशः तत्संबन्धिचक्रमेकं ओजसाबलेनसामर्थ्यातिशयेनमुषाय अमुष्णाः छन्दसिशायजपीति- शायजादेशः पूर्वंसूर्यरथस्यचक्रद्वयमासीत् एकमिन्द्रोमुमोषेतीतिहासः । तथाचमन्त्रान्तरं—प्रान्यच्च- क्रमवृहः सूर्यस्यकुत्सायान्यदिति । किञ्च शुष्णायएतन्नामकायासुरायतद्वधार्थं द्वितीयार्थेवाचतुर्थी शुष्णंहन्तुमित्यर्थः कुत्संकर्तनसाधनंवधंवज्रं वातस्य वायोरश्वैः वायुवेगैर्वाश्वैर्युक्तःसन् वह अवहः शु- ष्णंहन्तुंवज्रमधारयः यद्वा शुष्णवधायवज्रमवहः तंचहत्वा तदीयैर्वायुवेगैरश्वैः तदुपलक्षितैः तदीयैर्ध- नैः कुत्संमहर्षिंअगमः शुष्णासुरधनंकुत्सायादाइत्यर्थः तथाचान्यत्र त्वंकुत्संशुष्णहत्येष्वाविथ कुत्सा- यशुष्णमशुषमित्यादीनि ॥ ४ ॥