श्रवणम्

1.175.3 समानपद
त्वं हि शूर॒ः सनि᳚ता चो॒दयो॒ मनु᳚षो॒ रथ᳚म् ।
स॒हावा॒न्दस्यु᳚मव्र॒तमोष॒ः पात्रं॒ न शो॒चिषा᳚ ॥
▶ पदपाठः (Word-by-word)
त्वम् । हि । शूरः᳚ । सनि᳚ता । चो॒दयः᳚ । मनु᳚षः । रथ᳚म् ।
स॒ह॑वा᳚न् । दस्यु᳚म् । अ॒व्र॒तम् । ओषः᳚ । पात्र᳚म् । न । शो॒चिषा᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेइन्द्र त्वंहित्वंखलुशूरः शौर्योपेतः सनितादासि अतोमनुषोमनुष्यस्यमेरथंरंहणस्वभावंस्यन्दनं- मनोरथंवास्वर्गगमनसाधनंयज्ञाख्यंरथंवाचोदयः प्रेरय किञ्च त्वंसहावान् सोमसहायवान् बलवान्वा- भूत्वा दस्युमुपक्षपयितारमव्रतं अपर्माणं अननुष्ठायिनंओषः दह किमिव शोचिषादीप्त्या ज्वालयाग्निः पात्रंन स्वाधारंपात्रविशेषमिव यागाधिकारीसन् योनयजतेतंदहेत्यर्थः ॥ ३ ॥