श्रवणम्

1.175.6
यथा॒ पूर्वे᳚भ्यो जरि॒तृभ्य᳚ इन्द्र॒ मय᳚ इ॒वापो॒ न तृष्य᳚ते ब॒भूथ᳚ ।
तामनु᳚ त्वा नि॒विदं᳚ जोहवीमि वि॒द्यामे॒षं वृ॒जनं᳚ जी॒रदा᳚नुम् ॥
▶ पदपाठः (Word-by-word)
यथा᳚ । पूर्वे᳚भ्यः । ज॒रि॒तृ॑भ्यः᳚ । इ॒न्द्र॒ । मयः᳚॑इव । आपः᳚ । न । तृष्य᳚ते । ब॒भूथ᳚ ।
ताम् । अनु᳚ । त्वा॒ । नि॒॑विद᳚म् । जो॒ह॒वी॒मि॒ । वि॒द्याम᳚ । इ॒षम् । वृ॒जन᳚म् । जी॒र॑दा᳚नुम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेइन्द्र पूर्वेभ्योजरितृभ्यः पुरातनेभ्यः स्तोतृभ्योमयइवबभूथ मयः सुखंसुखस्वरूपमिवाभवः त- द्वत् स्तोतृभ्योस्मभ्यं सुखस्वरूपोभव तत्रदृष्टान्तः—तृष्यतेआपोनतृषार्तस्योदकानियथासुखकराणी- तितद्वत् तस्मात् तांनिविदंत्वत्प्रीतिकरींप्रसिद्धां स्तुतिंत्वातुभ्यंअनुजोहवीमिपुनः पुनःकरोमि यद्वा तांनिविदंअनु तृतीयार्थेइत्यनोःकर्मप्रवचनीयत्वं तयास्तुत्यात्वांजोहवीमिपुनः पुनराह्वयामि विद्या- मेतिव्याख्यातम् ॥ ६ ॥

मत्सिनइतिषळृचंद्वादशंसूक्तं आगस्त्यमैन्द्रमानुष्टुभं पूर्ववतुशब्दात् त्रिष्टुबन्तंत्वित्युक्तत्वात् अ- न्त्यात्रिष्टुप् मत्सिनइत्यनुक्रान्तम् विशेषविनियोगोलैङ्गिकः ।