प्रथमं मण्डलम् - सूक्तम् 102

11 ऋचः

ऋषिः: कुत्स आंगिरसः देवता: इंद्रः छन्दः: जगती

सूक्तम् 1.102 - सम्पूर्णम्

1 / 11
ऋक्: 1.102.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (11)
1.102.1
इ॒मां ते॒ धियं॒ प्र भ᳚रे म॒हो म॒हीम॒स्य स्तो॒त्रे धि॒षणा॒ यत्त᳚ आन॒जे ।
तमु᳚त्स॒वे च᳚ प्रस॒वे च᳚ सास॒हिमिन्द्रं᳚ दे॒वास॒ः शव᳚सामद॒न्ननु᳚ ॥
▶ पदपाठः (Word-by-word)
इ॒माम् । ते॒ । धिय᳚म् । प्र । भ॒रे॒ । म॒हः । म॒हीम् । अ॒स्य । स्तो॒त्रे । धि॒षणा᳚ । यत् । ते॒ । आ॒न॒जे ।
तम् । उ॒त्॑स॒वे । च॒ । प्र॒॑स॒वे । च॒ । स॒स॒हिम् । इन्द्र᳚म् । दे॒वासः᳚ । शव᳚सा । अ॒म॒द॒न् । अनु᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

इमां त इत्येकादशर्चं नवमं सूक्तं कुत्सस्यार्षमैंद्रम् । अंत्या त्रिष्टुप् शिष्टा दश जगत्यः । तथा चानुक्रांतम् । इमां तेऽंत्या त्रिष्टुबिति ॥ विनियोगो लैंगिकः ॥

हे इंद्र महो महतस्ते तवेमामिदानीं क्रियमाणां महीं महतीं अत्यंतोत्कृष्टां धियं स्तुतिं प्रभरे । प्रकर्षेण संपादयामि । ते तव धिषणा त्वदीया बुद्धिरस्य मम स्तोतुः स्तोत्रे स्तुतौ यद्यस्मादानजे अक्ता संश्लिष्टासीत् । तस्मात्तव प्रियां स्तुतिं करोमीत्यर्थः । उत्तरोऽर्धर्चः परोक्षकृतः । ससहिं शत्रूणामभिभवितारं पूर्वोक्तं तमिंद्रं देवासः कर्मसु दीव्यंत ऋत्विजः शवसास्तुतिभिः कीर्तनबलेनान्वमदन् । अनुक्रमेण हर्षं प्रापयन् । किमर्थम् । उत्सवे चोत्सवार्थमभिवृद्ध्यर्थं प्रसवे च धनानां वृष्व्युदकानां वोत्पत्त्यर्थं च ॥ आनजे । अंजू व्यक्तिम्रक्षणकांतिगतिषु । अस्मात्कर्मणि लिट् । द्विर्वचनहलादिशेषौ । अत आदेरित्यभ्यासस्यात्वम् । तस्मान्नुट् द्विहलः (पा ७-४-७१) इति नुट् । व्यत्ययेनोपधानकारलोपः । उत्सवे । प्रसवे । षू प्रेरणे । ऋादोरबिति भावेऽप् । निमित्तात्कर्मसंयोगे । पा २-३-३६-६ । इति सप्तमी । थाथादिनोत्तरपदांतोदात्तत्वम् । ससहिम् । षह अभिभवे । आदृगमहन इत्यत्रोत्सर्गश्छंदसीति वचनात्किप्रत्ययः । लिड्वद्भावाद्द्विर्वचनम् । अन्येषामपि दृश्यत इति संहितायामभ्यासस्य दीर्घत्वम् । अमदन् । मदी हर्षे । हेतुमति णिच् । मदी हर्षग्लपनयोरिति घटादिषु पाठान्मितां ह्रस्व इति ह्रस्वत्वम् । छंदस्युभयथेति शप आर्धधातुकत्वाण्णेरनिटीशिणिलोपः ॥ १ ॥

1.102.2
अ॒स्य श्रवो᳚ न॒द्य᳚ः स॒प्त बि᳚भ्रति॒ द्यावा॒क्षामा᳚ पृथि॒वी द᳚र्श॒तं वपु᳚ः ।
अ॒स्मे सू᳚र्याचन्द्र॒मसा᳚भि॒चक्षे᳚ श्र॒द्धे कमि᳚न्द्र चरतो वितर्तु॒रम् ॥
▶ पदपाठः (Word-by-word)
अ॒स्य । श्रवः᳚ । न॒द्यः᳚ । स॒प्त । बि॒भ्र॒ति॒ । द्यावा॒क्षामा᳚ । पृ॒थि॒वी । द॒र्श॒तम् । वपुः᳚ ।
अ॒स्मे इति᳚ । सू॒र्या॒च॒न्द्र॒मसा᳚ । अ॒भि॒॑चक्षे᳚ । श्र॒द्धे । कम् । इ॒न्द्र॒ । च॒र॒तः॒ । वि॒॑त॒र्तु॒रम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

अस्येंद्रस्य श्रवो यशः कीर्तिं सप्त इमं मे गंग इत्यस्यामृचि प्राधान्येन प्रतिपादिता गंगाद्याः सप्तसंख्याका नद्यो बिभ्रति । धारयंति । वृत्रिहननेनेंद्रस्य यद्वृष्टेः प्रदातृत्वम् । तत्प्रभूतजलोपेता नद्यः प्रकटयंतीत्यर्थः । अपि च द्यावाक्षामा द्यावापृथिव्यौ । पृथिवीत्यंतरिक्षनाम । अंतरिक्षं चास्य सूर्यात्मनावर्तमानस्येंद्रस्य दर्शतं सर्वैः प्राणिभिर्दर्शनीयं वपुः । रूपनामैतत् । प्रकाशात्मकं रूपं धारयंति । किंच हे इंद्र अस्मे अस्माकमभिचक्षे द्रष्टव्यानां पदार्थानामाभिमुख्येन प्रकाशनार्थं श्रद्धे कं श्रद्धार्थम् । चक्षुषा दृष्टे हि वस्तुनीदं सत्यमिति श्रद्धोत्पद्यते । कमित्येतत्पादपूरणम् । तदुभयार्थं सूर्याचंद्रमसौ वितर्तुरं परस्परव्यतिहारेण तरणं पुनःपुनर्गमनं यथा भवति तथा चरतः । वर्तेते । त्वमेव तद्रूपः सन्वर्तस इत्यर्थः ॥ अस्य । ऊडिदमिति विभक्तेरुदात्तत्वम् । द्यावाक्षामा । द्यौश्च क्षामा च । दिवो द्यावेति द्यावादेशः । सुपां सुलुगिति विभक्तेर्डादेशः । देवताद्वंद्वे चेत्युभयपदप्रकृतिस्वरत्वम् । दर्शतम् । भृमृदृशीत्यादिनातच् । सूर्याचंद्रमसा । सूर्यश्च चंद्रमाश्च । देवताद्वंद्वे चेति पूर्वपदस्यानङादेशः । सुपां सुलुगिति विभक्तेराकारः । चंद्रमस् शब्दोदासीभारादित्वात्पूर्वपदप्रकृतिस्वरेण मध्योदात्तः । अतो देवताद्वंद्वे चेति प्राप्तस्योभयपदप्रकृतिस्वरस्य नोत्तरपदेऽनुदात्तादावपृथिवीति प्रतिषेधः । अभिचक्षे । चक्षेः प्रकाशनार्थात्संपदादिलक्षणो भावे क्विप् । तादर्थ्ये चतुर्थी । श्रद्धे । दृशिग्रहणाद्दधातेर्भावे विच् । चतुर्थ्येकवचन आतो धातोरित्याकारलोपः । उदात्तनिवृत्तिस्वरेण विभक्तेरुदात्तत्वम् । वितर्तुरम् । तरतेर्यङ् लुगंतादौणादिकः कुरुच् । बहुलं छंदसीत्युत्वं ॥ २ ॥

1.102.3
तं स्मा॒ रथं᳚ मघव॒न्प्राव᳚ सा॒तये॒ जैत्रं॒ यं ते᳚ अनु॒मदा᳚म संग॒मे ।
आ॒जा न᳚ इन्द्र॒ मन᳚सा पुरुष्टुत त्वा॒यद्भ्यो᳚ मघव॒ञ्छर्म᳚ यच्छ नः ॥
▶ पदपाठः (Word-by-word)
तम् । स्म॒ । रथ᳚म् । म॒घ॒॑व॒न् । प्र । अ॒व॒ । सा॒तये᳚ । जैत्र᳚म् । यम् । ते॒ । अ॒नु॒॑मदा᳚म । स॒म्॑ग॒मे ।
आ॒जा । नः॒ । इ॒न्द्र॒ । मन᳚सा । पु॒रु॒॑स्तु॒त॒ । त्वा॒यत्॑भ्यः᳚ । म॒घ॒॑व॒न् । शर्म᳚ । य॒च्छ॒ । नः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हॆः मघवन् धनवन्निंद्र सातयेऽस्माकं धनलाभाय तं स्म तमेव रथं प्राव । प्रेरय । वर्तय । नोऽस्माकं मनसा बुद्ध्या पुरुष्टुत बहुशः स्तुतेंद्र ते तव स्वभूतं जैत्रं जयशीलं यं रथं संगमे शत्रुभिः सह संगमन आजा युद्धे सत्यनुमदाम । वयमनुक्रमेण स्तुमः । अपि च हे मघवन् त्वायद्भ्यस्त्वां कामयमानेभ्यो नोऽस्मभ्यं शर्म सुखं यच्छ । देहि ॥ अव । अव रक्षणगतिकांतीत्युक्तत्वादवतिरत्र गत्यर्थः । संगमे । ग्रहवृदृनिश्चिगमश्चेति कर्मण्यप् । थाथादिनोत्तरपदांतोदात्तत्वम् । आजा । सुपां सुलुगिति सप्तम्या डादेशः । त्वायद्भ्यः । सुप आत्मनः क्यच् । प्रत्ययोत्तरपदयोश्चेति मपर्यंतस्य त्वादेशः । व्यत्ययेन दकारस्यात्वम् । क्यजंताल्लटः शतृ । आदुपदेशाल्लसार्वधातुकानुदात्तत्वे सति क्यचा सहैकादेश एकादेश उदात्तेनेति तस्योदात्तत्वं ॥ ३ ॥

1.102.4 समानपद
व॒यं ज᳚येम॒ त्वया᳚ यु॒जा वृत᳚म॒स्माक॒मंश॒मुद᳚वा॒ भरे᳚भरे ।
अ॒स्मभ्य᳚मिन्द्र॒ वरि᳚वः सु॒गं कृ᳚धि॒ प्र शत्रू᳚णां मघव॒न्वृष्ण्या᳚ रुज ॥
▶ पदपाठः (Word-by-word)
व॒यम् । ज॒ये॒म॒ । त्वया᳚ । यु॒जा । वृत᳚म् । अ॒स्माक᳚म् । अंश᳚म् । उत् । अ॒व॒ । भरे᳚॑भरे ।
अ॒स्मभ्य᳚म् । इ॒न्द्र॒ । वरि᳚वः । सु॒॑गम् । कृ॒धि॒ । प्र । शत्रू᳚णाम् । म॒घ॒॑व॒न् । वृष्ण्या᳚ । रु॒ज॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इंद्र युजास्माभिर्युक्तेन सहायभूतेन त्वया वृतमावृण्वंतं शत्रुं वयं स्तोतारो जयेम । अभिभवेम । अपि च भरेभरे संग्रामे संग्रामेऽस्माकमंतमस्मदीयं भागमुदव । शत्रुकृतपीडापरिहारेणोत्कृष्टं रक्ष । तथा हे इंद्र वरिवो धनमस्मभ्यं सुगं सुगमं सुप्रापं कृधि । कुरु । तथा हे मघवन् शत्रूणामस्मदुपद्रवकारिणां वृष्ण्यावृष्ण्यानि वीर्याणि प्र रुज । प्रभंग्धि । बाधस्वेत्यर्थः ॥ वृतम् । वृञ् वरणे । क्विप्चेति क्विप् । तुगागमः । सुगम् । सुदुरोरधिकरण इति गमेर्डप्रत्ययः । कृधि । श्रुशृणुप ॄकृवृभ्य इति हेर्धिः । रुज । रुजो भंगे । तौदादिकः ॥ ४ ॥

1.102.5
नाना॒ हि त्वा॒ हव᳚माना॒ जना᳚ इ॒मे धना᳚नां धर्त॒रव᳚सा विप॒न्यवः᳚ ।
अ॒स्माकं᳚ स्मा॒ रथ॒मा ति᳚ष्ठ सा॒तये॒ जैत्रं॒ ही᳚न्द्र॒ निभृ᳚तं॒ मन॒स्तव᳚ ॥
▶ पदपाठः (Word-by-word)
नाना᳚ । हि । त्वा॒ । हव᳚मानाः । जनाः᳚ । इ॒मे । धना᳚नाम् । ध॒र्तः॒ । अव᳚सा । वि॒प॒न्यवः᳚ ।
अ॒स्माक᳚म् । स्म॒ । रथ᳚म् । आ । ति॒ष्ठ॒ । सा॒तये᳚ । जैत्र᳚म् । हि । इ॒न्द्र॒ । नि॑भृ᳚तम् । मनः᳚ । तव᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे धनानां धर्तर्गोहिरण्यादिरूपाणां द्रव्याणां धारयितरिंद्र विपन्यवः । स्तोनृनामैतत् । स्तोतार इमे जना अवसा रक्षणेन हेतुना त्वा हवमानास्त्वामाह्वयंतो नाना हि । विभिन्नाः खलु । तेषां मध्येऽस्माकं स्मास्माकमेव सातये धनदानाय रथमातिष्ठ । आरोह । हे इंद्र निभृतमव्याकुलं तव मनश्चित्तं जैत्रं हि । जयशीलं खलु । शत्रूञ्जित्वाऽस्मभ्यं धनं दातुं समर्थमित्यर्थः ॥ सातये । षणु दाने । क्तिनि जनसनखनां सन् झलोरित्यात्वं ॥ ५ ॥

1.102.6
गो॒जिता᳚ बा॒हू अमि᳚तक्रतुः सि॒मः कर्म᳚न्कर्मञ्छ॒तमू᳚तिः खजंक॒रः ।
अ॒क॒ल्प इन्द्र᳚ः प्रति॒मान॒मोज॒साथा॒ जना॒ वि ह्व᳚यन्ते सिषा॒सवः᳚ ॥
▶ पदपाठः (Word-by-word)
गो॒॑जिता᳚ । बा॒हू इति᳚ । अमि᳚त॑क्रतुः । सि॒मः । कर्म᳚न्॑कर्मन् । श॒तम्॑ऊ᳚तिः । ख॒ज॒म्॑क॒रः ।
अ॒क॒ल्पः । इन्द्रः᳚ । प्र॒ति॒॑मान᳚म् । ओज᳚सा । अथ᳚ । जनाः᳚ । वि । ह्व॒य॒न्ते॒ । सि॒सा॒सवः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इंद्र तव बाहू हस्तौ गोजिता जयेन गवां लंभयितारौ । त्वं चामितक्रतुरपरिच्छिन्नज्ञानः सिमः श्रेष्ठः । तथा च शाट्यायनकम् । सिम इति वै श्रेष्ठमाचक्षत इति । यद्वा । सिदुः शत्रूणां बंधकः । कर्मन्कर्मन् स्तोत ॄणां कर्मणि कर्मण्युपस्थिते शतमूतिर्बहुविधरक्षणोपेतः खजंकरः । खजति मथ्नाति पुरुषानिति खजः संग्रामः । तस्य कर्ता । अकल्पः कल्पेनान्येन रहितः । स्वतंत्र इत्यर्थः । ओजसा सर्वेषां प्राणिनां यदोजो बलमस्ति तेन सर्वेण प्रतिमानं प्रतिनिधित्वेन मीयमानः । यस्मादेवंगुणविशिष्ट इंद्रोऽथातः । कारणात्सिषासवो धनं लब्धुकामा जना विह्वयंते । विविधमाह्वयंति ॥ गोजिता । गा जयत इति गोजितौ । सुपां सुलुगिति विभक्तेराकारः । सिमः । षिञ् बंधने । अस्मादौणादिकोमक् । खजंकरः खज । मंथे । पचाद्यच् । क्षेमप्रियमद्रेऽण् च (पा ३-२-४४) इति चशब्दस्यानुक्तसमुच्चयार्थत्वात् खजशब्दोपपदादपि करोतेः खच् । अरुर्द्विषदजंतस्येति मुम् । कृदुत्तरपदप्रकृतिस्वरत्वम् । अकल्पः । नञ्सुभ्यामित्युत्तरपदांतोदात्तत्वम् । सिषासवः । वन षण संभक्तौ । सनि सनीवंतर्धेति विकल्पनादिडभावः । जनसनखनां सन्झलोरित्यात्वम् । द्विर्वचनादि । सनाशंसभिक्ष उः (पा ३-२-१६८) इत्युप्रत्ययः । सति शिष्टत्वात्तस्यैव स्वरः शिष्यते ॥ ६ ॥

1.102.7
उत्ते᳚ श॒तान्म᳚घव॒न्नुच्च॒ भूय᳚स॒ उत्स॒हस्रा᳚द्रिरिचे कृ॒ष्टिषु॒ श्रवः᳚ ।
अ॒मा॒त्रं त्वा᳚ धि॒षणा᳚ तित्विषे म॒ह्यधा᳚ वृ॒त्राणि᳚ जिघ्नसे पुरंदर ॥
▶ पदपाठः (Word-by-word)
उत् । ते॒ । श॒तात् । म॒घ॒॑व॒न् । उत् । च॒ । भूय᳚सः । उत् । स॒हस्रा᳚त् । रि॒रि॒चे॒ । कृ॒ष्टिषु᳚ । श्रवः᳚ ।
अ॒मा॒त्रम् । त्वा॒ । धि॒षणा᳚ । ति॒त्वि॒षे॒ । म॒ही । अध᳚ । वृ॒त्राणि᳚ । जि॒घ्न॒से॒ । पु॒र॒म्॑द॒र॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे मघवन् धनवन्निंद्र कृष्टिषु स्तोतृषु मनुष्येषु त्वया दीयमानं श्रवो यदन्नमस्ति तच्छतात् शतसंख्याकाद्धनादुद्रिरिचे । उद्रिक्तमधिकं भवति । अपि च भूयसः शतसंख्याकादपि बहुतराद्धनादुद्रिरिचे । अधिकं भवति । किं बहुना । सहस्रात्सहस्रसंख्याकादप्युद्रिरिचे । त्वया दत्तं तदन्नमक्षयमित्यर्थः । अपि चामात्रं मात्रयेयत्तया रहितं परिगणितुमशक्यैः सर्वैर्गुणैरधिकं त्वां महि महती धिषणास्मदीया स्तुतिलक्षणा वाक् तित्विषे । दीपयति । त्वत्संबंधिनो गुणान्प्रकाशयति । हे पुरंदर शत्रूणां पुरां दारयितरिंद्र अधस्तुत्यनंतरं वृत्राण्यावरकान् । शत्रूञ्जिघ्नसे । हंसि विनाशयसि ॥ रिरिचे । रिचिर् विरेचने । कर्मणि लिट् । तत्विषे । त्विष दीप्तौ । जिघ्नसे । हंतेर्लेट व्यत्ययेनात्मनेपदम् । लेटोऽडाटावित्यडागमः । बहुलं छंदसीति शपः श्लुः । गमहनेत्यादिनोपधालोपः । स्थानिवद्भावाद्द्विर्वचनादि । बहुलं छंदसीत्यभ्यासस्येत्वम् । पुरंदर । पूःसर्वयोर्दारिसहोः (पा ३-२-४१) इति खच् । खचि ह्रस्वः (पा ६-४-९४) इति ह्रस्वत्वम् । वाचंयमपुरंदरौ च (पा ६-३-६९) इति निपातनादम् ॥ ७ ॥

1.102.8
त्रि॒वि॒ष्टि॒धातु᳚ प्रति॒मान॒मोज᳚सस्ति॒स्रो भूमी᳚र्नृपते॒ त्रीणि᳚ रोच॒ना ।
अती॒दं विश्वं॒ भुव᳚नं ववक्षिथाश॒त्रुरि᳚न्द्र ज॒नुषा᳚ स॒नाद᳚सि ॥
▶ पदपाठः (Word-by-word)
त्रि॒वि॒ष्टि॒॑धातु᳚ । प्र॒ति॒॑मान᳚म् । ओज᳚सः । ति॒स्रः । भूमीः᳚ । नृ॒॑प॒ते॒ । त्रीणि᳚ । रो॒च॒ना ।
अति᳚ । इ॒दम् । विश्व᳚म् । भुव᳚नम् । व॒व॒क्षि॒थ॒ । अ॒श॒त्रुः । इ॒न्द्र॒ । ज॒नुषा᳚ । स॒नात् । अ॒सि॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे नृपते नृणां पालयितरिंद्र त्वमोजसः सर्वेषां प्राणिनां बलस्य प्रतिमानं प्रतिनिधिरसि । कीदृशं प्रतिमानम् । त्रिविष्टिधातु । धातुशब्दो रज्जुभागवचनः । यथा त्रिधातु पंचधातु वा शुल्वं करोतीति । यथा त्रिविष्टस्त्रिगुणिता रज्जुर्द्रढीयसी एवमिंद्रोऽपि दृढतर इत्यर्थः । किंच त्वं तिस्रो भूमीस्त्रीन् लोकान् त्रीणिरोचना त्रीणि तेजांसि दिव्यादित्याख्यमंतरिक्षे वैद्युतरूपमग्निं पृथिव्यामाहवनीयादिरूपेण वर्तमानं पार्थिवमग्निं एवं त्रीन् लोकान् त्रीणि तेजांसि चाति ववक्षिथ । अतिशयेन वोढुमिच्छसि । अपि चेदं विश्वं सर्वं भुवनं भूतजातं चातिवोढुमिच्छसि । सर्वस्य जगतः पालनेन त्वमेव सर्वेषां निर्वाहको भवसीत्यर्थः । यस्माद्धे इंद्र त्वं सनाच्चिरकालादारभ्य जनुषा जन्मना जन्मप्रभृत्यशत्रुः सपत्नरहितोऽसि ॥ त्रिविष्टिधातु । त्रिधा त्रिप्रकारेण विष्ट्या प्रवेशनेन विधीयते क्रियत इति त्रिविष्टिधातुस्त्रिगुणिता रज्जुः । विशेर्भावे क्तिन् । धाञः सितनिगमिमसीत्यादिना (उ १-७०) कर्मणि नुत्प्रत्ययः । कृदुत्तरपदप्रकृतिस्वरत्वम् । अत्र दृढरज्जुवाचकः शब्दस्तद्गतं दार्ढ्यं लक्षयित्वा तद्वति प्रतिमाने वर्तते । यथा माणवकेऽग्नि शब्दः । तिस्रः । शसि त्रिचतुरोः स्त्रियामिति तिस्रादेशोऽंतोदात्तः । अचि र ऋत इति रेफादेश उदात्तयणो हल्पूर्वादिति विभक्तेरुदात्तत्वम् । ववक्षिथ । वह प्रापण इत्यस्मादिच्छासनि ढत्वकत्वषत्वानि । सन्यत इतीत्वाभावश्छांदसः छांदसे लिट्यमंत्र इति निषेधादाम्प्रत्ययाभावः । जनुषा । जनेरुसिः ॥ ८ ॥

1.102.9
त्वां दे॒वेषु᳚ प्रथ॒मं ह᳚वामहे॒ त्वं ब᳚भूथ॒ पृत᳚नासु सास॒हिः ।
सेमं नः᳚ का॒रुमु᳚पम॒न्युमु॒द्भिद॒मिन्द्र᳚ः कृणोतु प्रस॒वे रथं᳚ पु॒रः ॥
▶ पदपाठः (Word-by-word)
त्वाम् । दे॒वेषु᳚ । प्र॒थ॒मम् । ह॒वा॒म॒हे॒ । त्वम् । ब॒भू॒थ॒ । पृत᳚नासु । स॒स॒हिः ।
सः । इ॒मम् । नः॒ । का॒रुम् । उ॒प॒॑म॒न्युम् । उ॒त्॑भिद᳚म् । इन्द्रः᳚ । कृ॒णो॒तु॒ । प्र॒॑स॒वे । रथ᳚म् । पु॒रः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इंद्र देवेषु प्रथमं श्रेष्ठं त्वां हवामहे । यागार्थमाह्वयामहे । तथा त्वं पृतनासु संग्रामेषु सासहिर्बभूथ । शत्रूणामभिभवितासि । उत्तरार्धः परोक्षकृतः । स इंद्रो नोऽस्माकं कारु स्तुतीनां कर्तारमुपमन्युमुपमंतारम् । सर्वज्ञमुद्भिदं शत्रूणामद्भेत्तारमिममेवंगुणविशिष्टं पुत्रं कृणोतु । करोतु । अपि च प्रसवे युद्धोत्पत्तावस्मदीयं रथं पुरोऽन्येभ्यो रथेभ्यः पुरतो वर्तमानं करोतु । यद्वा । कारुमित्यादीनि रथविशेषणानि । कारुं युद्धस्य कर्तारमुपमन्युमुपगतेन प्राप्तेन मन्युना क्रोधेन युक्तमुद्भिदं मर्गेऽवस्थितानां वृक्षादीनामुद्भेत्तारमतिशयेन भंक्तारं ॥ बभूथ । बभूथा ततंथ जगृंभ ववर्थेति निगम इति निपातनादिडभावः । स इमम् । सोऽचिलोपे चेत्पादपूरणमिति सुलोपः । प्रसवे । षूङ् प्राणिप्रसवे । ॠदोरप् । थाथादिनोत्तरपदांतोदात्तत्वं ॥ ९ ॥

1.102.10 समानपद
त्वं जि᳚गेथ॒ न धना᳚ रुरोधि॒थार्भे᳚ष्वा॒जा म᳚घवन्म॒हत्सु᳚ च ।
त्वामु॒ग्रमव᳚से॒ सं शि᳚शीम॒स्यथा᳚ न इन्द्र॒ हव᳚नेषु चोदय ॥
▶ पदपाठः (Word-by-word)
त्वम् । जि॒गे॒थ॒ । न । धना᳚ । रु॒रो॒धि॒थ॒ । अर्भे᳚षु । आ॒जा । म॒घ॒॑व॒न् । म॒हत्॑सु᳚ । च॒ ।
त्वाम् । उ॒ग्रम् । अव᳚से । सम् । शि॒शी॒म॒सि॒ । अथ᳚ । नः॒ । इ॒न्द्र॒ । हव᳚नेषु । चो॒द॒य॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इंद्र त्वं जिगेथ । शत्रूञ्जयसि । तथा धना शत्रुभ्योऽपहृतानि धनानि न रुरोधिथ । नावरुणत्सि । स्तोतृभ्यः प्रयच्छसीत्यर्थः । हे मघवन् धनवन्निंद्र । आर्भेष्वल्पेष्वाजा आजिषु संग्रामेषु महत्सु च प्रौढेषु संग्रामेषु चावसेऽस्माकं रक्षणार्थमुग्रमुद्गूर्णमधिकबलं त्वां सं शशीमसि । स्तोत्रैस्तीक्ष्णीकुर्मः । अथानंतरम् । हे इंद्र त्वं हवनेषु युद्धार्थमाह्वानेषु सत्स्वागत्य नोऽस्माञ्चोदय । संग्रामेषु प्रेरय । जयं प्रापयेत्यर्थः ॥ जिगेथ । जि जये । लिट थलि क्रादिनियमात्प्राप्तस्येटोऽचस्तास्वत्थल्यनिटो नित्यम् (पा ७-२-६१) इति प्रतिषेधः । सन्लिटोर्जेरित्यभ्यासादुत्तरस्य जकारस्य कुत्वम् । रुरोधिथ । क्रादिनियमादिट् । अज्ञा । सुपां सुलुगिति सप्तमीबहुवचनस्य डादेशः । शशीमसि । शो तनूकरणे । बहुलं छंदसीति विकरणस्य श्लुः । आदेच इत्यात्वम् । द्विर्वचने बहुलं छंदसीत्यभ्यासस्येत्वम् । ई हल्यघोरितीकारांतादेशः । इदंतो मसिः ॥ १० ॥

1.102.11
वि॒श्वाहेन्द्रो᳚ अधिव॒क्ता नो᳚ अ॒स्त्वप᳚रिह्वृताः सनुयाम॒ वाज᳚म् ।
तन्नो᳚ मि॒त्रो वरु᳚णो मामहन्ता॒मदि᳚ति॒ः सिन्धु᳚ः पृथि॒वी उ॒त द्यौः ॥
▶ पदपाठः (Word-by-word)
वि॒श्वाहा᳚ । इन्द्रः᳚ । अ॒धि॒॑व॒क्ता । नः॒ । अ॒स्तु॒ । अप᳚रि॑ह्वृताः । स॒नु॒या॒म॒ । वाज᳚म् ।
तत् । नः॒ । मि॒त्रः । वरु᳚णः । म॒म॒ह॒न्ता॒म् । अदि᳚तिः । सिन्धुः᳚ । पृ॒थि॒वी । उ॒त । द्यौः ॥
▶ सायणभाष्यम् (Sayana Commentary)

व्याख्यातेयं रोहिच्छ्यावेति वर्गे । इंद्रः सर्वेष्टहःस्वस्माकं पक्षपातेन वक्ता भवतु । वयं चाकुटलगतयः संत इंद्रेण दत्तमन्नं लभामहे । यदस्माभिः प्रार्थितमस्मदीयं तन्मित्रादयः पूजितं कुर्वंतु ॥ ११ ॥