श्रवणम्

1.102.10 समानपद
त्वं जि᳚गेथ॒ न धना᳚ रुरोधि॒थार्भे᳚ष्वा॒जा म᳚घवन्म॒हत्सु᳚ च ।
त्वामु॒ग्रमव᳚से॒ सं शि᳚शीम॒स्यथा᳚ न इन्द्र॒ हव᳚नेषु चोदय ॥
▶ पदपाठः (Word-by-word)
त्वम् । जि॒गे॒थ॒ । न । धना᳚ । रु॒रो॒धि॒थ॒ । अर्भे᳚षु । आ॒जा । म॒घ॒॑व॒न् । म॒हत्॑सु᳚ । च॒ ।
त्वाम् । उ॒ग्रम् । अव᳚से । सम् । शि॒शी॒म॒सि॒ । अथ᳚ । नः॒ । इ॒न्द्र॒ । हव᳚नेषु । चो॒द॒य॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इंद्र त्वं जिगेथ । शत्रूञ्जयसि । तथा धना शत्रुभ्योऽपहृतानि धनानि न रुरोधिथ । नावरुणत्सि । स्तोतृभ्यः प्रयच्छसीत्यर्थः । हे मघवन् धनवन्निंद्र । आर्भेष्वल्पेष्वाजा आजिषु संग्रामेषु महत्सु च प्रौढेषु संग्रामेषु चावसेऽस्माकं रक्षणार्थमुग्रमुद्गूर्णमधिकबलं त्वां सं शशीमसि । स्तोत्रैस्तीक्ष्णीकुर्मः । अथानंतरम् । हे इंद्र त्वं हवनेषु युद्धार्थमाह्वानेषु सत्स्वागत्य नोऽस्माञ्चोदय । संग्रामेषु प्रेरय । जयं प्रापयेत्यर्थः ॥ जिगेथ । जि जये । लिट थलि क्रादिनियमात्प्राप्तस्येटोऽचस्तास्वत्थल्यनिटो नित्यम् (पा ७-२-६१) इति प्रतिषेधः । सन्लिटोर्जेरित्यभ्यासादुत्तरस्य जकारस्य कुत्वम् । रुरोधिथ । क्रादिनियमादिट् । अज्ञा । सुपां सुलुगिति सप्तमीबहुवचनस्य डादेशः । शशीमसि । शो तनूकरणे । बहुलं छंदसीति विकरणस्य श्लुः । आदेच इत्यात्वम् । द्विर्वचने बहुलं छंदसीत्यभ्यासस्येत्वम् । ई हल्यघोरितीकारांतादेशः । इदंतो मसिः ॥ १० ॥