श्रवणम्

1.112.18
याभि᳚रङ्गिरो॒ मन᳚सा निर॒ण्यथो॑ग्रं॒ गच्छ᳚थो विव॒रे गोअ᳚र्णसः ।
याभि॒र्मनुं॒ शूर᳚मि॒षा स॒माव᳚तं॒ ताभि᳚रू॒ षु ऊ॒तिभि᳚रश्वि॒ना ग᳚तम् ॥
▶ पदपाठः (Word-by-word)
याभिः᳚ । अ॒ङ्गि॒रः॒ । मन᳚सा । नि॒॑र॒ण्यथः᳚ । अग्र᳚म् । गच्छ᳚थः । वि॒॑व॒रे । गो॑अ᳚र्णसः ।
याभिः᳚ । मनु᳚म् । शूर᳚म् । इ॒षा । स॒म्॑आव᳚तम् । ताभिः᳚ । ऊं॒ इति᳚ । सु । ऊ॒ति॑भिः᳚ । अ॒श्वि॒ना॒ । आ । ग॒त॒म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

अंगिर इत्येतदामंत्रितं वाक्याद्बहिर्भूतम् । तेन चात्मानं संबोध्य स्तुतावृषिं प्रेरयति । हे अंगिरोऽअंगिरसां गोत्रज त्वमश्विनौ स्तुहि । हे अश्विनौ मनसा मननीयेन स्तोत्रेण प्रीतौ संतौ युवां याभिरूतिभिर्निरण्यथः । स्तोतॄन् नितरां रमयथः । यद्वा । मनसैव करणभूतेन रमयथः । तथा गोअर्णसो गोरूपस्यारणीयस्य धनस्य पणिभिर्गुहायां निहितस्य विवरे विवरणे गुहाद्वारस्योद्घाटनेन प्रकाशने विषयभूते सति याभिरूतिभिः । सह युवामग्रं सर्वेभ्यो देवेभ्यः पुरस्ताद्गच्छथः । अपि च शूरं वीर्यवंतं मनुमिषा पृथिव्यामुप्तेन यवादिधान्यरूपेणान्नेन याभिरूतिभिः समावतम् । सम्यगरक्षतं ताभिः सर्वाभिरूतिभिः सहास्मानप्यागच्छतं ॥ निरण्यथः । निरमयथ इत्यस्य वर्णव्यापत्त्यैतद्रूपम् । विवरे । ग्रहवृदृनिश्चिगमश्चेति भावेऽप् । थाथादिनोत्तरपदांतोदात्तत्वं ॥ १८ ॥