श्रवणम्

1.112.19
याभि॒ः पत्नी᳚र्विम॒दाय᳚ न्यू॒हथु॒रा घ᳚ वा॒ याभि᳚ररु॒णीरशि᳚क्षतम् ।
याभि᳚ः सु॒दास᳚ ऊ॒हथु᳚ः सुदे॒व्यं१॒᳚ ताभि᳚रू॒ षु ऊ॒तिभि᳚रश्वि॒ना ग᳚तम् ॥
▶ पदपाठः (Word-by-word)
याभिः᳚ । पत्नीः᳚ । वि॒॑म॒दाय᳚ । नि॒॑ऊ॒हथुः᳚ । आ । घ॒ । वा॒ । याभिः᳚ । अ॒रु॒णीः । अशि᳚क्षतम् ।
याभिः᳚ । सु॒॑दासे᳚ । ऊ॒हथुः᳚ । सु॒॑दे॒व्य᳚म् । ताभिः᳚ । ऊं॒ इति᳚ । सु । ऊ॒ति॑भिः᳚ । अ॒श्वि॒ना॒ । आ । ग॒त॒म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अश्विनौ विमदायैतन्नाम्न ऋषये याभिर्युष्मदीयाभिरूतिभिः पत्नीर्भार्याः पुरुमित्रस्य दुहितरं न्यूहथुः । नितरां युवां प्रापितवंतौ । घेति पादपूरणः । तथा याभिरूतिभिररुणीररुणवर्णा आरोचमाना गा आभिमुख्येनाशिक्षतम् । अदत्तम् । तथा पिजनवपुत्राय सुदासे कल्याणदानाय राज्ञे सुदेव्यं प्रशस्तं धनं याभिरूतिभिरूहथुः प्रापितवंतौ । ताभिरित्यादि गतं ॥ पत्नीः । अमो व्यत्ययेन शसादेशः । न्यूहथुः । वह प्रापणे । अथुसि यजादित्वात्संप्रसारणम् । द्विर्वचनादि । सुदासे । शोभनं ददातीति सुदाः । असुन् । सुदेव्यं दिगादित्वाद्यत् (पा ४-३-५४) तित्स्वरित इति स्वरितत्वं ॥ १९ ॥