श्रवणम्

1.112.7
याभि᳚ः शुच॒न्तिं ध᳚न॒सां सु᳚षं॒सदं᳚ त॒प्तं घ॒र्ममो॒म्याव᳚न्त॒मत्र᳚ये ।
याभि॒ः पृश्नि᳚गुं पुरु॒कुत्स॒माव᳚तं॒ ताभि᳚रू॒ षु ऊ॒तिभि᳚रश्वि॒ना ग᳚तम् ॥
▶ पदपाठः (Word-by-word)
याभिः᳚ । शु॒च॒न्ति । ध॒न॒॑साम् । सु॒॑सं॒सद᳚म् । त॒प्तम् । घ॒र्मम् । ओ॒म्या॑व᳚न्तम् । अत्र᳚ये ।
याभिः᳚ । पृश्नि᳚॑गुम् । पु॒रु॒॑कुत्स᳚म् । आव᳚तम् । ताभिः᳚ । ऊं॒ इति᳚ । सु । ऊ॒ति॑भिः᳚ । अ॒श्वि॒ना॒ । आ । ग॒त॒म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अश्विनौ धनसां धनस्य संभक्तारं शुचंशिमेतन्नामानं सुषंसदम् । संसीदंत्यस्मिन्निति संसद्गृहम् । शोभनसंसदं याभिरूतिभिरकुरुतम् । तथाश्रये याभिश्चोतिभिस्तप्तं प्रवृंजनेन संतप्तं घर्मं महावीरमोम्यावंतं सुखयुक्तं सुखेन स्प्रष्टुं शक्यमकुरुतम् । यद्वा । शतद्वारे यंत्रगृहेऽसुरैः पीड्यमानाय घर्मं दीप्तं पीडासादनमग्निं तप्तं तापकारिणमोम्यावंतं सुखवंतमकुरुतम् । यथास्मै सुखं भवति तथा हिमेनोदकेन तमग्निमवारयेथाम् । यास्कपक्षे त्वत्रये हविषामत्त्रेऽग्नये हविरुत्पत्त्यर्थं सूर्यकिरणसंतप्तं घर्मं नैदाघमहरोम्यावंतं तृप्तिहेतुवृष्ट्युदकोपेतं कृतवंताविति योज्यम् । आपि च याभिरूतिभिः पृश्निगुं पुरुकुत्सं चावतं अरक्षतम् । ताभिः सर्वाभिरूतिभिरस्मानागच्छतं ॥ शुचंतिम् । शुच दीप्तौ । औणादिको झिच् । धनसाम् । जनसनखनक्रमगमो विट् । विड्वनोरनुनासिकस्यादित्यात्वम् । सुषंसदम् । शोभना संसद्यस्य । नञ् सुभ्यामित्युत्तरपदांतोदात्तत्वम् । ओम्यावंतम् । अवतेरन्येभ्योऽपि दृश्यंत इति मनिन् । ज्वरत्वरेत्यादिना वकारस्योपधायाश्च ऊट् । गुणः । छंदसि चेत्यर्हार्थे यप्रत्ययः । नस्तद्धित इति टलोपः । ये चाभावकर्मणोरिति प्रकृतिभावस्तु व्यत्ययेन न प्रवर्तते । पृश्निगुम् । पृश्नयो नानावर्ण गावो यस्य स तथोक्तः । गोस्त्रियोरुपसर्जनस्य (पा १-२-४८) इति गोशब्दस्य ह्रस्वत्वं ॥ ७ ॥