श्रवणम्

1.112.4
याभि॒ः परि᳚ज्मा॒ तन᳚यस्य म॒ज्मना᳚ द्विमा॒ता तू॒र्षु त॒रणि᳚र्वि॒भूष᳚ति ।
याभि᳚स्त्रि॒मन्तु॒रभ᳚वद्विचक्ष॒णस्ताभि᳚रू॒ षु ऊ॒तिभि᳚रश्वि॒ना ग᳚तम् ॥
▶ पदपाठः (Word-by-word)
याभिः᳚ । परि᳚॑ज्मा । तन᳚यस्य । म॒ज्मना᳚ । द्वि॒॑मा॒ता । तू॒र्षु । त॒रणिः᳚ । वि॒॑भूष᳚ति ।
याभिः᳚ । त्रि॒॑मन्तुः᳚ । अभ᳚वत् । वि॒॑च॒क्ष॒णः । ताभिः᳚ । ऊं॒ इति᳚ । सु । ऊ॒ति॑भिः᳚ । अ॒श्वि॒ना॒ । आ । ग॒त॒म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

परिज्मा परितो गंता वायुस्तनयस्यात्मीयस्य पुत्रस्याग्नेः । अग्निर्हि व्यानवृत्त्यात्मना वर्तमानेन वायुना मथ्यमानः सन् जायते । तथा च श्रूयते । अथ यः प्राणापानयोः संधिः स व्यानः । अतो यान्यन्यानि वीर्यवंति कर्माणि यथाग्नेर्मंथनमाजेः सरणं दृढस्य धनुष अयमनमप्राणन्ननपानंस्तानि करोतीति । छा उ १-३-३, ४, ५, । यद्वा सृष्ट्यादौ वायुसकाशादुत्पन्नत्वादग्ने । पुत्रत्वम् । आम्नायते च । वायोरग्निरिति । एवं स्वपुत्रस्याग्नेर्मज्मना बलेन युक्तः सन् द्विमाता द्वयोर्लोकर्योर्निर्माता । अग्निः पृथिवीस्थानो वायुरंतरिक्षस्थानः । उभयोर्मिलितयोरुभयनिर्मातृत्वमुपपन्नम् । यद्वा । द्विमातेति तनयस्य विशेषणम् । सुपां सुलुगिति षष्ठ्याः सुः । द्विमातृकस्य द्वाभ्यामरणिभ्याः जातस्य । एवं भूतो वायुर्हे अश्विनौ याभिरूतिभिर्हेतुभूतैः पालनैस्तूर्षु तरीतृषु धावत्सु मध्ये तरणिरतिशयेन तरीता शीघ्रगामी विभूषति व्याप्तो भवति । यद्वा । विभावति विशेषेण सर्वमलंकरोति । अपि च । त्रिमंतुस्त्रयाणां मंता त्रिविधेषु पाकयज्ञहविर्यज्ञ सोमयज्ञेष्वासादितज्ञानः कक्षीवान् याभिर्युष्मदीयाभिरूतिभिर्विचक्षणो विशिष्टज्ञानयुक्तोऽभवत् । ताभिः । सर्वाभिरूतिभिरस्मानागच्छतं ॥ परिज्मा । परिपूर्वादज गतिक्षेपणयोरित्यस्मात् श्वन्नुक्षन्नित्यादौ निपात्यते । तूर्षु । तॄ प्लवनतरणयोः । बहुलं छंदसीत्युत्वम् । हलि चेति दीर्घः । यद्वा । तरतेः क्विप् । ज्वरत्वरेत्यादिना वकारोपधयोरूट् । सावेकाच इति विभक्तेरुदात्तत्वम् । विभूषति भवतेर्लेट्यडागमः । सिब्बहुलं लेटीति सिप् । यद्वा । भूष अलंकारे । भौवादिकः । विचक्षणः अनुदात्तेतश्च हलादेरिति युच् ॥ ४ ॥