याभी॒ रथा{4}॒ अव᳚थो॒ याभि॒रर्व᳚त॒स्ताभि᳚रू॒ षु ऊ॒तिभि᳚रश्वि॒ना ग᳚तम् ॥
पदपाठः (Word-by-word)
याभिः᳚ । रथा᳚न् । अव᳚थः । याभिः᳚ । अर्व᳚तः । ताभिः᳚ । ऊं॒ इति᳚ । सु । ऊ॒ति॑भिः᳚ । अ॒श्वि॒ना॒ । आ । ग॒त॒म् ॥
सायणभाष्यम् (Sayana Commentary)
हे अश्विनौ गोषु युधं गोविषयं युद्धं कुर्वंतं नरं यज्ञस्य नेतारं यजमानं याभिरूतिभिर्नृषाह्ये नृभिः सोढव्ये संग्रामे जिन्वथः प्रीणयथः । रक्षथ इत्यर्थः । तथा क्षेत्रस्य गृहादिरूपस्य । तनयशब्दो धनवाची । तनयस्य धनस्य च साता सातये संभजनार्थं याभिरूतिभिर्यजमानं रक्षथः । याभिश्च यजमानाना रथान्रक्षथः । तदीयानर्वतोऽश्वांश्च याभिरवथः । ताभिः सर्वाभिरूतिभिऽ सहास्मानप्यागच्छतं ॥ गोषु युधम् । युध संप्रहारे । गोषु युध्यत इति गोषुयुत् । तत्पुरुषे कृति बहुलमित्यलुक् । नृषाह्ये । षह मर्षणे । शकिसहोश्चेति यत् अन्येषामपि दृश्यत इति सांहितिको दीर्घः । कृदुत्तरपदप्रकृतिस्वरत्वम् । साता वन षण संभक्तौ । भावे क्तिन् । जनसनखनां सन् झलोरित्यात्वम् । ऊतियूतीत्यादिना क्तिन उदात्तत्वं निपातितम् । सुपां सुलुगिति चतुर्थ्या डादेशः । जिन्वथः । जिवि प्रीणनार्थः । भौवादिकः । इदित्त्वान्नुम् । रथान् । दीर्घादट समानपाद इति नकारस्य रुत्वम् । आतोऽट नित्यमिति सानुनासिक आकारः ॥ २२ ॥