श्रवणम्

1.16.8
विश्व॒मित्सव᳚नं सु॒तमिन्द्रो॒ मदा᳚य गच्छति ।
वृ॒त्र॒हा सोम᳚पीतये ॥
▶ पदपाठः (Word-by-word)
विश्व᳚म् । इत् । सव᳚नम् । सु॒तम् । इन्द्रः᳚ । मदा᳚य । ग॒च्छ॒ति॒ ।
वृ॒त्र॒॑हा । सोम᳚॑पीतये ॥
▶ सायणभाष्यम् (Sayana Commentary)

वृत्रहा शत्रुघातक इंद्रः सोमपीतये सोमपानाय मदाय तत्पानजन्यहर्षाय च विश्वमित्सर्वमपि सुतमभिषुतसोमयुक्तं सवनं प्रातःसवनादिरूपं कर्म गच्छति ॥ विश्वम् । अशिप्रुषीत्यादिना क्वन् । नित्त्वादाद्युदात्तः । सवनं सुतम् । पूर्ववत् । मदाय । मदोऽनुपसर्गे (पा ३-३-६७) इत्यप्प्रत्ययः । पित्त्वाद्धातुस्वरः । गच्छति । इषुगमियमां छः । वृत्रहा । वृत्रं हतवान् । ब्रह्मभ्रूणवृत्रेषु क्विप् (पा ३-२-८७) इन्हन्नित्यादिना निवृत्तं दीर्घत्वं सौ च । पा ६-४-१२, १३ । इति प्रतिप्रसवाद्भवति । कृदुत्तरपदप्रकृतिस्वरत्वम् । सोमपीतये । व्यधिकरणबहुव्रीहिरित्युक्तम् । तत्पुरुषे वा दासीभारादित्वात् (पा ६-२-४२) पूर्वपदप्रकृतिस्वरत्वं ॥ ८ ॥