ब्रह्मा᳚णि मे म॒तय॒ः शं सु॒तास॒ः शुष्म᳚ इयर्ति॒ प्रभृ᳚तो मे॒ अद्रि᳚ः ।
आ शा᳚सते॒ प्रति᳚ हर्यन्त्यु॒क्थेमा हरी᳚ वहत॒स्ता नो॒ अच्छ᳚ ॥
आ शा᳚सते॒ प्रति᳚ हर्यन्त्यु॒क्थेमा हरी᳚ वहत॒स्ता नो॒ अच्छ᳚ ॥
पदपाठः (Word-by-word)
ब्रह्मा᳚णि । मे॒ । म॒तयः᳚ । शम् । सु॒तासः᳚ । शुष्मः᳚ । इ॒य॒र्ति॒ । प्र॑भृ᳚तः । मे॒ । अद्रिः᳚ ।
आ । शा॒स॒ते॒ । प्रति᳚ । ह॒र्य॒न्ति॒ । उ॒क्था । इ॒मा । हरी॒ इति᳚ । व॒ह॒तः॒ । ता । नः॒ । अच्छ᳚ ॥
आ । शा॒स॒ते॒ । प्रति᳚ । ह॒र्य॒न्ति॒ । उ॒क्था । इ॒मा । हरी॒ इति᳚ । व॒ह॒तः॒ । ता । नः॒ । अच्छ᳚ ॥
सायणभाष्यम् (Sayana Commentary)
अथैवंतैःपृष्टः अनयाचतुर्थ्येन्द्रः प्रत्याह—हेमरुतः ब्रह्माणिसर्वाणिकर्माणिहवींषिवा मेममस्वभू- तानितथामतयश्चमननयुक्ताः स्तुतयश्चमेममशंसुखकार्याः यद्वा मेमतयोबुद्धयः तेषुवर्तन्तइतिशेषः तथासुतासोभिषुताः सोमाः मेमदीयाः मदर्थाएव अतोयज्ञंप्रतिगन्तव्यमित्यर्थः किञ्च मध्येराक्षसा- दिबाधपरिहाराय शुष्मः बलवान्मेमदीयोद्रिः शत्रूणांभक्षकोवज्रः प्रभृतःसन्नियर्ति गच्छत्येवलक्ष्यं- प्रति नचनिवर्तते नकेवलंहविरादीनांमदीयत्वमेव अपितुयजमानाआशासतेमामेवप्रार्थयन्ते किंचो- क्था उक्थानिशस्त्राणि मांप्रतिहर्यन्तिकामयन्ते मामेवशंसन्तीत्यर्थः किञ्च नोऽस्मदीयाविमाहरी इ- मावश्वौ ता तानिगन्तव्यानिहविरादीनि अच्छअभिप्राप्तुं मां वहतः अभिमतदेशंप्रापयतः अतएवशी- घ्रंगच्छामि युष्माभिरपितत्प्राप्तुं गन्तव्यमित्यर्थः अतोसहायइतिमन्तव्यमितिभावः ॥ ४ ॥