इन्द्र॒ तुभ्य॒मिद᳚द्रि॒वो॑नु᳚त्तं वज्रिन्वी॒र्य᳚म् ।
यद्ध॒ त्यं मा॒यिनं᳚ मृ॒गं तमु॒ त्वं मा॒यया᳚वधी॒रर्च॒न्ननु᳚ स्व॒राज्य᳚म् ॥
यद्ध॒ त्यं मा॒यिनं᳚ मृ॒गं तमु॒ त्वं मा॒यया᳚वधी॒रर्च॒न्ननु᳚ स्व॒राज्य᳚म् ॥
पदपाठः (Word-by-word)
इन्द्र᳚ । तुभ्य᳚म् । इत् । अ॒द्रि॒॑वः॒ । अनु᳚त्तम् । व॒ज्रि॒न् । वी॒र्य᳚म् ।
यत् । ह॒ । त्यम् । मा॒यिन᳚म् । मृ॒गम् । तम् । ऊं॒ इति᳚ । त्वम् । मा॒यया᳚ । अ॒व॒धीः॒ । अर्च᳚न् । अनु᳚ । स्व॒॑राज्य᳚म् ॥
यत् । ह॒ । त्यम् । मा॒यिन᳚म् । मृ॒गम् । तम् । ऊं॒ इति᳚ । त्वम् । मा॒यया᳚ । अ॒व॒धीः॒ । अर्च᳚न् । अनु᳚ । स्व॒॑राज्य᳚म् ॥
सायणभाष्यम् (Sayana Commentary)
अद्रिरिति मेघनाम । हे अद्रिवो वाहनरूपमेघयुक्त वज्रिन् वज्रवन्निंद्र तुभ्यमित् । षष्ठ्यर्थे चतुर्थी । तवैव वीर्यं सामर्थ्यमनुत्तं शत्रुभिरतिरस्कृतम् । यद्ध यस्मात् खलु मायिनं मायाविनं त्यं तं प्रसिद्धं वंचयितारम् । लोको पद्रवकारिणमित्यर्थः । मृगं मृगरूपमापन्नं तं वृत्रं त्वमपि माययैवावधीः । हतवानसि ॥ अनुत्तम् । नसत्तनिषत्तेति निपातनान्निष्ठानत्वाभावः । अवधीः । हंतेर्लुङि चेति वधादेशः । स चादंतः । तस्यातो लोपे सति स्थानिवद्भावात्सिचि वृद्ध्यभावः ॥ ७ ॥