न वेप᳚सा॒ न त᳚न्य॒तेन्द्रं᳚ वृ॒त्रो वि बी᳚भयत् ।
अ॒भ्ये᳚नं॒ वज्र᳚ आय॒सः स॒हस्र᳚भृष्टिराय॒तार्च॒न्ननु᳚ स्व॒राज्य᳚म् ॥
अ॒भ्ये᳚नं॒ वज्र᳚ आय॒सः स॒हस्र᳚भृष्टिराय॒तार्च॒न्ननु᳚ स्व॒राज्य᳚म् ॥
पदपाठः (Word-by-word)
न । वेप᳚सा । न । त॒न्य॒ता । इन्द्र᳚म् । वृ॒त्रः । वि । बी॒भ॒य॒त् ।
अ॒भि । ए॒न॒म् । वज्रः᳚ । आ॒य॒सः । स॒हस्र᳚॑भृष्टिः । आ॒य॒त॒ । अर्च᳚न् । अनु᳚ । स्व॒॑राज्य᳚म् ॥
अ॒भि । ए॒न॒म् । वज्रः᳚ । आ॒य॒सः । स॒हस्र᳚॑भृष्टिः । आ॒य॒त॒ । अर्च᳚न् । अनु᳚ । स्व॒॑राज्य᳚म् ॥
सायणभाष्यम् (Sayana Commentary)
वृत्र इंद्रं वेपसा स्वकीयेन वेपनेन कंपनेन न वि बीभयत् । भीतं नाकरोत् । तथा तन्यता स्वकीयेन घोरेण गर्जनशब्देन न वि बीभयत् । अपि च इंद्रेण विसृष्व आयसोऽयोमयः सहस्रभृष्टिरनेकाभिर्धाराभिर्युक्तो वज्र एनं वृत्रमभ्यायत । हंतुमाभिमुख्येनागच्छत् । अन्यत्पूर्ववत् ॥ तन्नता । स्तन शब्दे । ऋतन्यंजीत्यादिना तनोतेर्विधीयमानो यतुच् बहुलवचनादस्मादपि भवति । अत एव सलोपश्च । सुपां सुलुगिति तृतीयाया डादेशः । उदात्तनिवृत्ति स्वरेण तस्योदात्तत्वम् । बीभयत् । ञिभी भये । हेतुमति णिच् । अत्र वेपस्तन्यतुभ्यां भयं न हेतोर्वृत्रादिति हेतुभयाभावाद्बिभेतेर्हेतुभये (पा ६-१-५६) इत्यात्वाभावः । ण्यंताल्लुङि च्लेश्चङादि । आयत । आय पय गतौ । भौवादिरात्मनेपदी ॥ १२ ॥