कण्वा᳚सो वां सु॒तसो᳚मा अ॒भिद्य᳚वो यु॒वां ह᳚वन्ते अश्विना ॥
पदपाठः (Word-by-word)
कण्वा᳚सः । वा॒म् । सु॒त॑सो᳚माः । अ॒भि॑द्य᳚वः । यु॒वाम् । ह॒व॒न्ते॒ । अ॒श्वि॒ना॒ ॥
सायणभाष्यम् (Sayana Commentary)
हे विश्ववेदसा सर्वज्ञावश्विनौ त्रिषधस्थे कक्ष्यात्रयरूपेणास्तीर्णतया त्रिषु स्थानेष्ववस्थिते बर्हिषि दर्भे स्थित्वा मध्वा मधुरेण रसेन यज्ञं मिमिक्षतम् । सेक्तुमिच्छतम् । हे अश्विना वां युष्मदर्थं सुतसोमा अभिषुतसोमयुक्ता अभिद्य वोऽभिगतदीप्तयः कण्वासो युवामुभौ हवंते । आह्वयंते ॥ त्रिषधस्थे । त्रिषु स्थानेषु सह तिष्ठतीति त्रिषधस्थं बर्हिः । सुपि स्थ इति कप्रत्ययः । आतो लोप इट चेत्याकारलोपः । सध मादस्थयोश्छंदसि (पा ६-३-९६) इति सहशब्दस्य सधादेश्यः मध्वा । आगमानुशासनस्यानित्यत्वान्नुमभावः । जसि चेत्यत्र जसादिषु छंदसि वावचनम् । पा ७-३-१०९-१ । इति वचनान्नाभावाभावश्च । मिमिक्षतम् । मिह सेचने । सन्येकाच इतीट् प्रतिषेधः । हलंताच्चेति सनः कित्त्वाल्लघूपधगुणाभावः । अभ्यासहलादिशेषौ । ढत्वकुत्वषत्वानि । सुतसोमाः । सुतः सोमो यैः । बहुव्रीहिस्वरः । अभिद्यवः । द्युरितहर्नाम । तेन तत्संबंधी प्रकाशो लक्ष्यतो । अभिगता द्युम् । आत्यादयः क्रांताद्यर्थे द्वितीयया । म २-२-१८-४ । इति समासः । अव्ययपूर्वपदप्रकृतिस्वरत्वं ॥ ४ ॥