श्रवणम्

1.47.7
यन्ना᳚सत्या परा॒वति॒ यद्वा॒ स्थो अधि᳚ तु॒र्वशे᳚ ।
अतो॒ रथे᳚न सु॒वृता᳚ न॒ आ ग᳚तं सा॒कं सूर्य᳚स्य र॒श्मिभि᳚ः ॥
▶ पदपाठः (Word-by-word)
यत् । ना॒स॒त्या॒ । प॒रा॒॑वति᳚ । यत् । वा॒ । स्थः । अधि᳚ । तु॒र्वशे᳚ ।
अतः᳚ । रथे᳚न । सु॒॑वृता᳚ । नः॒ । आ । ग॒त॒म् । सा॒कम् । सूर्य᳚स्य । र॒श्मि॑भिः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे नासत्यासत्यरहितावश्विनौ यद्यदि युवां परावति दूरदेशे स्थो वर्तेर्थे । यद्वा अथवादि तुर्वशेऽधिके समीपे स्थः । अतोऽस्माद्दूरात्समीपाद्वा सूर्यस्य रश्मिभिः साकं सूर्योदयकाले सुवृता शोभनवर्तनयुक्तेन रथेन नोऽस्मान् प्रत्या गतम् । आगच्छतं ॥ नासत्या । सत्सु भवौ सत्यौ । न सत्यावसत्यौ । न असत्यौनासत्यौ नभ्राण्नपादित्यादिना नञिः प्रकृतिभावः । स्थः । अस भुवि । श्नसोरल्लोप इत्यकारलोपः । यद्वृत्तयोगादनिघातः । गतम् । गमेर्लोट बहुलं छंदसीति शपो लुक् । अनु दात्तोपदेशेत्यादिनानुनासिकलोपः ॥ ७ ॥