श्रवणम्

1.47.8 समानपद
अ॒र्वाञ्चा᳚ वां॒ सप्त᳚यो॑ध्वर॒श्रियो॒ वह᳚न्तु॒ सव॒नेदुप᳚ ।
इषं᳚ पृ॒ञ्चन्ता᳚ सु॒कृते᳚ सु॒दान᳚व॒ आ ब॒र्हिः सी᳚दतं नरा ॥
▶ पदपाठः (Word-by-word)
अ॒र्वाञ्चा᳚ । वा॒म् । सप्त᳚यः । अ॒ध्व॒र॒॑श्रियः᳚ । वह᳚न्तु । सव᳚ना । इत् । उप᳚ ।
इष᳚म् । पृ॒ञ्चन्ता᳚ । सु॒॑कृते᳚ । सु॒॑दान᳚वे । आ । ब॒र्हिः । सि॒द॒त॒म् । न॒रा॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अश्विनौ अध्वरश्रियो यागसेविनः सप्तयोऽश्वाः सवनेदुपास्मदनुष्ठेयानि त्रीणि सवनान्येवोपलक्ष्यार्वांचाभिमुखौ वां युवां वहंतु । प्रापयंतु । हे नराश्विनौ सुकृते सुष्ठु कर्मकारिणे सुदानवे शोभनदानयुक्ताय यजमानायेषमन्नं पृंचंतां संयोजयंतौ युवां बर्हिरा सीदतम् । दर्भं प्राप्नुतं ॥ आर्वांचा । सुपां सुलुगिति विभक्तेराकारः । अध्वरश्रियः । अध्वरं श्रयंतीत्यध्वरश्रियः । क्विब्वचिप्रछीत्यादिना (उ २-५७) क्विब्दीर्घश्च । वहंतु । वह प्रापणे । शपः पित्त्वादनुदात्तत्वम् । तिङश्च लसार्वधातुकस्वरेण धातुस्वरेणाद्युदात्तत्वम् । पादादित्वान्निघाताभावः । सवना । षुञु् अभिषवे । अभिषूयते सोम एष्विति सवनानि । अधिकरणे ल्युट् । योरनादेशः । गुणावादेशौ । लितीति प्रत्ययात्पूर्वस्योदात्तत्वम् । शेश्वंदसि बहुलमिति शेर्लोपः । पृंचंता । पृची संपर्के । शतरि रुधादित्वात् श्नम् । श्नसोरल्लोप इत्यकारलोपः । प्रत्ययस्वरः । सुकृते । सुकर्मपापेत्यादिना (पा ३-२-८९) करोतेर्भूते काले क्विप् । ह्रस्वस्य पिति (पा ६-१-७१) इति तुक् । सुदानवे । शोभनं दानु दानं यस्यासौ सुदानुः । दानुशब्दो नुप्रत्ययांत आद्युदात्तः । आद्युदात्तं द्व्यच्छंदसीति बहुव्रीहावुत्तरपदाद्युदात्तत्वम् । सीदतम् । षद्लृविशरणगत्यवसादनेषु॥ ८ ॥