श्रवणम्

1.54.9
तुभ्येदे॒ते ब᳚हु॒ला अद्रि᳚दुग्धाश्चमू॒षद᳚श्चम॒सा इ᳚न्द्र॒पाना᳚ः ।
व्य᳚श्नुहि त॒र्पया॒ काम᳚मेषा॒मथा॒ मनो᳚ वसु॒देया᳚य कृष्व ॥
▶ पदपाठः (Word-by-word)
तुभ्य᳚ । इत् । ए॒ते । ब॒हु॒लाः । अद्रि᳚॑दुग्धाः । च॒मू॒॑सदः᳚ । च॒म॒साः । इ॒न्द्र॒॑पानाः᳚ ।
वि । अ॒श्नु॒हि॒ । त॒र्पय᳚ । काम᳚म् । ए॒षा॒म् । अथ᳚ । मनः᳚ । व॒सु॒॑देया᳚य । कृ॒ष्व॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इंद्र तुभ्येत् तुभ्यमेव चमसाः । चम्यंते भक्ष्यंत इति चमसाः सोमाः । एते सोमास्त्वदर्थं संपादिताः । कीदृश इत्याह । बहुलाः प्रभूता अद्रिदुग्धा अद्रिभिर्ग्रावभिरभिषुताश्चमूषदश्चमूषु चमसेष्ववस्थिता इंद्रपाना इंद्रस्य पानेन सुखकारः । अतस्त्वं तान्व्यश्नुहि । व्याप्नु हि । व्याप्य चैषां त्वदीयानामिंद्रियाणां काममभिलाषं तैस्तर्पय पूरयेति यावत् । अथानंतरं वसुदेयायास्मभ्यमभिमतधनप्रदानाय त्वदीयं मनः कृष्व कुरुष्व ॥ तुभ्य । छांदसो मलोपः । अद्रिदुग्धाः । दुहेः कर्मणि निष्ठा । तृतीया कर्मणीति पूर्वपदप्रकृतिस्वरत्वम् । चमूषदः । चमु अदने । चमंत्यनेनेति चमूः । कृषिचमितानीत्यादिना । उ सू १-८१ । औणादिकः । ऊप्रत्ययः । चमूषु सीदंतीति चमूषदः । सत्सूद्विषेत्यादिना क्विप् । पूर्वपदात् । पा सू ८-३-१०६ । इति षत्वम् । कृदुत्तरपदप्रकृतिस्वरत्वम् । इंद्रपानाः । कर्मणि च येन संस्पर्शात् । पा सू ३-३-११६ । इति पिबतेः कर्मणि ल्युट् । अश्नुहि । व्यत्ययेन परस्मैपदम् । वसुदेयाय । डुदाञ् दाने । अस्मादचो यदिति भावे यत् । ईद्यति (पा ६-४-६५) इतीकारादेशः । गुणः । यतोऽनाव इत्याद्युदात्तत्वम् । कुृदुत्तरपदप्रकृतिस्वरत्वम् । कृष्व । डुकृङ् करणे । बहुलं छंदसीति विकरणस्य लुक् ॥ ९ ॥