प्रति॒ प्र या᳚हीन्द्र मी॒ळ्हुषो॒ नॄन्म॒हः पार्थि᳚वे॒ सद᳚ने यतस्व ।
अध॒ यदे᳚षां पृथुबु॒ध्नास॒ एता᳚स्ती॒र्थे नार्यः पौंस्या᳚नि त॒स्थुः ॥
अध॒ यदे᳚षां पृथुबु॒ध्नास॒ एता᳚स्ती॒र्थे नार्यः पौंस्या᳚नि त॒स्थुः ॥
पदपाठः (Word-by-word)
प्रति᳚ । प्र । या॒हि॒ । इ॒न्द्र॒ । मी॒ळ्हुषः᳚ । नॄन् । म॒हः । पार्थि᳚वे । सद᳚ने । य॒त॒स्व॒ ।
अध᳚ । यत् । ए॒षा॒म् । पृ॒थु॒॑बु॒ध्नासः᳚ । एताः᳚ । ती॒र्थे । न । अ॒र्यः । पौंस्या᳚नि । त॒स्थुः ॥
अध᳚ । यत् । ए॒षा॒म् । पृ॒थु॒॑बु॒ध्नासः᳚ । एताः᳚ । ती॒र्थे । न । अ॒र्यः । पौंस्या᳚नि । त॒स्थुः ॥
सायणभाष्यम् (Sayana Commentary)
हेइन्द्र त्वंमीह्ळुषः उदकसेक्तॄन् नॄन् जगन्नेतॄन् नराकारान्वा महोमहतः मेघान्प्रतिप्रयाहि अभि- गच्छ मेघानांवृत्ररूपेणनराकारत्वंयुक्तं गत्वाच पार्थिवेसदने पृथिवीत्यन्तरिक्षनाम तत्संबन्धिनि- स्थानेयतस्व प्रयत्नंकुरुतैः सहयुध्यस्वेत्यर्थः यद्वा हविः प्रदातॄन्कर्मनिर्वाहकान्महतोयजमानान् प्रति- गच्छ गत्वाचपार्थिवेसदनेदेवयजनेयतस्व यत्नंकुरु हविर्भाजनाय अधअपिच यद्यदाएषां त्वत्सहाय- कारिणांमरुतांसंबन्धिनः पृथुबुध्नासोविस्तीर्णमूलाएताः पृषद्वर्णागन्तारोवाअश्वाः अर्यः अरेः शत्रोः पौंस्यानिपुंस्त्वकर्माणितीर्थे न युद्धमार्गेइव तस्थुः तिष्ठन्ति मेघानाक्रमन्ते यद्वैषां मरुतांपृथुबुध्नासः बृहन्मूलाएताः कृष्णवर्णामेघाः तिष्ठन्ति तत्रदृष्टान्तः अर्यः अरणीयस्य स्वामिनः पौंस्यानिबलानि- तीर्थे न राजवीथ्यांयथातिष्ठन्तितद्वत् ॥ ६ ॥