श्रवणम्

1.121.13
त्वं सूरो᳚ ह॒रितो᳚ रामयो॒ नॄन्भर᳚च्च॒क्रमेत᳚शो॒ नायमि᳚न्द्र ।
प्रास्य᳚ पा॒रं न᳚व॒तिं ना॒व्या᳚ना॒मपि᳚ क॒र्तम᳚वर्त॒यो॑य᳚ज्यून् ॥
▶ पदपाठः (Word-by-word)
त्वम् । सूरः᳚ । ह॒रितः᳚ । र॒म॒यः॒ । नॄन् । भर᳚त् । च॒क्रम् । एत᳚शः । न । अ॒यम् । इ॒न्द्र॒ ।
प्र॒॑अस्य᳚ । पा॒रम् । न॒व॒तिम् । ना॒व्या᳚नाम् । अपि᳚ । क॒र्तम् । अ॒व॒र्त॒यः॒ । अय᳚ज्यून् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इंद्र सूरः सूर्यात्मना वर्तमानस्त्वं हरितो हरिद्वर्णान्नॄन्नेतॄनश्वान् यद्वा रसहरणशीलान् रश्मीन् रमयः । उपारमयः । एतशो न । एतश इति सूर्याश्वस्याख्या । तथा च श्रूयते । एतशेनत्वा सूर्यो देवतां गमयत्विति । नशब्दश्चार्थे । एतशश्च रथस्य चक्रं भरत् । प्रावहत् । अपि च त्वं नाव्यानां नावा तार्याणां नदीनां नवतिं नवतिसंख्यामतीत्य वर्तमानं पारं तीरदेशम् । सप्तम्यर्थे द्वितीया । तीरदेशेऽयज्यूनयजमानान् यज्ञविहीनानसुरादीन् प्रास्य प्रक्षिप्य तत्र कर्तमवर्तयः । कर्तव्यमपि कृत्वा तानयजमानानवर्तयः । प्रापयः ॥ रमयः । लङि बहुळं छंदस्यमाङ्योगेऽपीत्यडभावः । अन्येषामपि दृश्यत इति सांहितिको दीर्घः । प्रास्य । असु क्षेपणे । अस्माल्ल्यपि रूपम् । नाव्यानाम् । नौवयोधर्मेत्यादिना यत् । तित्स्वरित इति स्वरितत्वं ॥ १३ ॥