उप᳚ नो दे॒वा अव॒सा ग᳚म॒न्त्वङ्गि᳚रसां॒ साम᳚भिः स्तू॒यमा᳚नाः ।
इन्द्र᳚ इन्द्रि॒यैर्म॒रुतो᳚ म॒रुद्भि᳚रादि॒त्यैर्नो॒ अदि᳚ति॒ः शर्म᳚ यंसत् ॥
इन्द्र᳚ इन्द्रि॒यैर्म॒रुतो᳚ म॒रुद्भि᳚रादि॒त्यैर्नो॒ अदि᳚ति॒ः शर्म᳚ यंसत् ॥
पदपाठः (Word-by-word)
उप᳚ । नः॒ । दे॒वाः । अव᳚सा । आ । ग॒म॒न्तु॒ । अङ्गि᳚रसाम् । साम᳚॑भिः । स्तू॒यमा᳚नाः ।
इन्द्रः᳚ । इ॒न्द्रि॒यैः । म॒रुतः᳚ । म॒रुत्॑भिः᳚ । आ॒दि॒त्यैः । नः॒ । अदि᳚तिः । शर्म᳚ । यं॒स॒त् ॥
इन्द्रः᳚ । इ॒न्द्रि॒यैः । म॒रुतः᳚ । म॒रुत्॑भिः᳚ । आ॒दि॒त्यैः । नः॒ । अदि᳚तिः । शर्म᳚ । यं॒स॒त् ॥
सायणभाष्यम् (Sayana Commentary)
देवा दानादिगुणयुक्ताः सर्वे देवा अवसा रक्षणेनास्मभ्यं दातव्येनान्नेन वा युक्ता नोऽस्मान् स्तोत ॄनुपागमंतु । उपागच्छंतु । प्राप्नुवंतु । कथंभूताः । अंगिरसामेतत्संज्ञकानामृषीणां संबंधिभिः सामभिः प्रगीतैर्मंत्रैः स्तूयमानाः । अपि चेंद्र इंद्रियैः । धननामैतत् । स्वसंबंधिभिरस्मभ्यं दातव्यैर्धनैः सहास्मानागच्छतु । तथा मरुतः सप्तगणरूपा एकोनपंचाशत्संख्याका ईदृङ् चान्यादृङ् चेत्येवमाजिनामानो देवा मरुद्भिः स्वावयवभूतैः प्राणापानादिरूपेण वर्तमानैर्वायुभिः सहास्मानागच्छंतु । तथादितिरखंडनीयादीना वा देवमातादित्यैः स्विकीयैः पुत्रैः सह नोऽस्मभ्यं शर्म सुखं यंसत् । यच्छतु ॥ गमंतु । लोट बहुलं छंदसीति शपो लुक् । छंदस्युभयथेति झेरार्धधातुकत्वेन ङित्त्वाभावाद्गमहनेत्यादिनोपधालोपाभावः । यंसत् । यम उपरमे । लेट्यडागमः । सिब्बहुलं लेटीति सिप् ॥ २ ॥