श्रवणम्

1.105.9
अ॒मी ये स॒प्त र॒श्मय॒स्तत्रा᳚ मे॒ नाभि॒रात᳚ता ।
त्रि॒तस्तद्वे᳚दा॒प्त्यः स जा᳚मि॒त्वाय᳚ रेभति वि॒त्तं मे᳚ अ॒स्य रो᳚दसी ॥
▶ पदपाठः (Word-by-word)
अ॒मी इति᳚ । ये । स॒प्त । र॒श्मयः᳚ । तत्र᳚ । मे॒ । नाभिः᳚ । आ॑त᳚ता ।
त्रि॒तः । तत् । वे॒द॒ । आ॒प्त्यः । सः । जा॒मि॒॑त्वाय᳚ । रे॒भ॒ति॒ । वि॒त्तम् । मे॒ । अ॒स्य । रो॒द॒सी॒ इति᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

योऽमी द्युलोके वर्तमानाः सप्तसंख्याका रश्मयः सूर्यस्य किरणाः संति तत्र तेषु सूर्यरश्मिष्वध्यात्वं सप्तप्राणरूपेण वर्तमानेषु मे मदीया नाभिरातता संबद्धा । ऋषिरात्मानमेव परोक्षतया निर्दिशति । त्रितस्तीर्णतमस्तिरस्कृताज्ञान आप्त्योऽपां पुत्र ऋषिस्तत्पूर्वोक्तं वृत्तांतं वेद । जानाति । नान्यः । स जानन्नृषिर्जामित्वाय कूपान्निर्गंतृत्वाय रेभति । तान् रश्मीन् स्तौति । अन्यत्समानं ॥ अतता । तनोतेः कर्मणि निष्या । आनुदात्तोपदेशेत्यादिनानुनासिकलोपः । गतिरनंतर इति गतेः प्रकृतिस्वरत्वम् । जामित्वाय । जमतिर्गतिकर्मा । जमति गच्छतीति जामिः । औणादिक इण्प्रत्ययः । तस्य भावस्तत्त्वम् । रेभति । रेभृ शब्दे । भौवादिकः ॥ ९ ॥