तु॒ञ्जाते॒ वृष्ण्यं॒ पयः᳚ परि॒दाय॒ रसं᳚ दुहे वि॒त्तं मे᳚ अ॒स्य रो᳚दसी ॥
पदपाठः (Word-by-word)
तु॒ञ्जाते॒ इति᳚ । वृष्ण्य᳚म् । पयः᳚ । प॒रि॒॑दाय᳚ । रस᳚म् । दु॒हे॒ । वि॒त्तम् । मे॒ । अ॒स्य । रो॒द॒सी॒ इति᳚ ॥
सायणभाष्यम् (Sayana Commentary)
अर्थिनो धनमपेक्षमाणाः पुरुषा अर्थमिद्वै अपेक्षितं धनं प्राप्नुवंत्येव । नाहं प्राप्नोमि । उ इत्येतत्पादपूरणम् । अपि च जायान्यदीया भार्या पतिं स्वपतिमा युवते । आभिमुख्येन प्राप्नोति । मदीया तु मद्विरहाद्धतासीत् । अपि च संयुक्तौ तौ जायापती वृष्ण्यं वीर्यरूपं पय उदकं तुंजाते । प्रजननायान्योन्यसंघट्वनेन प्रेरयतः । तदनंतरं रसं पुरुषस्य सारभूतं वीर्यं परिदाय गर्भाशयेनादाय गर्भरूपेण धृत्वा दुहे । दुग्धे । पुत्ररूपेण जनयति । मन तु पुत्रोऽपि नोत्पद्यते । अत इदं मदीयं दुःखं हे द्यावापृथिव्यौ जानीतं ॥ उ । उञः पा १-१-१७ । इति शाकल्यस्य मतेन प्रगृह्यत्वात् प्लुतप्रगृह्या अचीति प्रकृतिभावः । युवते । यु मिश्रणे । व्यत्ययेनात्मनेपदम् । शब्लुकि प्राप्ते व्यत्ययेन शः । तुंजाते । तुजि पिजि हिंसाबलदाननिकेतनेषु । इदित्त्वान्नुम् । व्यत्ययेन श्नम् । श्नान्नलोपः । दुहे । दुह प्रपूरणे । लोपस्त आत्मनेपदेष्विति तलोपः ॥ २ ॥