श्रवणम्

1.2.4
इन्द्र᳚वायू इ॒मे सु॒ता उप॒ प्रयो᳚भि॒रा ग᳚तम् ।
इन्द᳚वो वामु॒शन्ति॒ हि ॥
▶ पदपाठः (Word-by-word)
इन्द्र᳚वायू॒ इति᳚ । इ॒मे । सु॒ताः । उप᳚ । प्रयः᳚॑भिः । आ । ग॒त॒म् ।
इन्द᳚वः । वा॒म् । उ॒शन्ति᳚ । हि ॥
▶ सायणभाष्यम् (Sayana Commentary)

एतस्या ऋच ऐंद्रवायवग्रहे द्वितीयपुरोनुवाक्यारूपेण विशेषविनियोगः पूर्वमेवोक्तः । हे इंद्रवायू भवदर्थमिमे सोमाः सुताः । अभिषुताः । तस्माद्युवां प्रयोभिरन्नैरस्मभ्यं दातव्यैः सहोपा गतम् । अस्मत्समीपं प्रत्यागच्छतम् । हि यस्मादिंदवः सोमा वां युवामुशंति कामयंते तस्मादागमनमुचितम् । इंद्रवायूशब्दस्यामंत्रिताद्युदात्तत्वम् । प्रीणयंति भोक्तृनिति प्रयांस्यन्नानि । प्रीञ् धातोरंतर्भावितण्यर्थात् (पा ३-१-२६) असुन्प्रत्यये सति नित्स्वरः । गमिधातोर्लोण्मध्यमपुरुषद्विवचने बहुलं छंदसि । पा २-४-७३ इति शपो लुकि सत्यनुदात्तोपदेशेत्यादिना (पा ६-४-३७) मकारलोपः । ततो गतमिति भवति । उन्दी क्लेदन इति धातोरुंदेरिच्चादेः ॥ उ । १-१३ ॥ इत्युन्प्रत्ययः अद्यक्षरस्येकारादेशः । तत इंदुशब्दस्य नित्स्वरः । सोमरसस्य द्रवत्वात्क्लेदनं संभवति । युष्मच्छब्दादेशस्य वा मित्येतस्यानुदात्तं सर्वमपादादावित्यनुदात्तः । उशंतीत्यस्य निघाते हि च (पा ८-१-३४) इति सूत्रेण प्रतिषिद्धे सति प्रत्ययस्वरः । हि शब्दस्य निपातस्वरः ॥ ४ ॥