ए॒ष व॒ः स्तोमो᳚ मरुतो॒ नम᳚स्वान्हृ॒दा त॒ष्टो मन᳚सा धायि देवाः ।
उपे॒मा या᳚त॒ मन᳚सा जुषा॒णा यू॒यं हि ष्ठा नम᳚स॒ इद्वृ॒धासः᳚ ॥
उपे॒मा या᳚त॒ मन᳚सा जुषा॒णा यू॒यं हि ष्ठा नम᳚स॒ इद्वृ॒धासः᳚ ॥
पदपाठः (Word-by-word)
ए॒षः । वः॒ । स्तोमः᳚ । म॒रु॒तः॒ । नम᳚स्वान् । हृ॒दा । त॒ष्टः । मन᳚सा । धा॒यि॒ । दे॒वाः॒ ।
उप᳚ । ई॒म् । आ । या॒त॒ । मन᳚सा । जु॒षा॒णाः । यू॒यम् । हि । स्थ । नम᳚सः । इत् । वृ॒धासः᳚ ॥
उप᳚ । ई॒म् । आ । या॒त॒ । मन᳚सा । जु॒षा॒णाः । यू॒यम् । हि । स्थ । नम᳚सः । इत् । वृ॒धासः᳚ ॥
सायणभाष्यम् (Sayana Commentary)
हेमरुतः एषवः स्तोमः इदानींक्रियमाणः प्रकारोवोयुष्माकंयुष्मदर्थइत्यर्थः कीदृशोयं नमस्वान् नमइत्यन्ननाम हविर्लक्षणान्नवान् नकेवलंस्तुतिमात्रं भक्षणायहविरपियुष्माकमित्यर्थः किञ्च हृदा- तष्टः युष्मन्निवेदनबुद्ध्यासंपादितः तादृशःस्तोमोहेदेवाः देवनशीलाः मनसा अनुग्रहवता चित्तेनधा- यि धार्यतां तदर्थंमनसाआदरबुद्भ्याजुषाणाः ईमेनांस्तुतिंतद्धविश्चसेवमानाः उपायात उपागच्छतैव माविलंबंकुरुत यूयंनमसोन्नस्यहवीरूपस्यवृधासः स्थहि वर्धयितारोभवथखलु अतआगन्तव्यमेव इत्पूरणः ॥ २ ॥