आ॒प्याय᳚मानो अ॒मृता᳚य सोम दि॒वि श्रवां᳚स्युत्त॒मानि᳚ धिष्व ॥
पदपाठः (Word-by-word)
आ॒॑प्याय᳚मानः । अ॒मृता᳚य । सो॒म॒ । दि॒वि । श्रवां᳚सि । उ॒त्॑त॒मानि᳚ । धि॒ष्व॒ ॥
सायणभाष्यम् (Sayana Commentary)
पत्नीसंयाजेषु सौम्यस्य सं ते पयांसीति याज्या । सूत्रितं च । सं ते पयांसि समु यंतु वाजा इह त्वष्टारमग्रियम् (आ १-१०) इति ॥ चमसाप्यायनेऽप्येषा । सूत्रितं च । सं ते पयांसि समु यंतु वाजा इति चमसानाद्योपाद्यान् (आ ५-६) इति ॥
हे सोम अभिमातिषाहोऽभिमातीनां शत्रूणां हंतुस्ते तव एवंभूतं त्वां पयांसि श्रयणार्थानि क्षीराणि सं यंतु । संगच्छंताम् । तथा वाजा उ हविर्लक्षणान्यन्नानि च त्वां संगच्छंताम् । वृष्ण्यानि वीर्याणि च संगच्छंताम् । हे सोम । त्वममृतायास्माकममृतत्वायामरत्वायाप्यायमान आ समंताद्वर्धमानः सन्दिवि नभसि स्वर्ग उत्तमान्युद्गततमान्युत्कृष्टानि श्रवांस्यन्नान्यस्माभिर्भोक्तव्यानि हविर्लक्षणानि वा धिष्ट । धारय ॥ ते । क्रियाग्रहणं कर्तव्यमिति कर्मणः संप्रदानत्वा च्चतुर्थ्यर्थे षष्ठी । अभिमातिषाहः । षह अभिभवे । छंदसि सह इति ण्विप्रत्ययः । सुषामादित्वात् षत्वम् । अमृताय । नञो जरमरमित्रमृता इत्युत्तरपदाद्युदात्तत्वम् । उत्तमानि । उच्छब्दात्ससाधनक्रियावचनादातिशायनिकस्तमप् । उत्तमशश्वत्तमौ सर्वत्र (पा ६-१-१६०) इत्युंछादिषु पाठादंतोदात्तत्वम् । धिष्व । सुधित वसुधित नेमधित धिष्व धिषीय च (पा ७-४-४५) इति धिभावो निपात्यते ॥ १८ ॥