यं भ॒द्रेण॒ शव᳚सा चो॒दया᳚सि प्र॒जाव᳚ता॒ राध᳚सा॒ ते स्या᳚म ॥
पदपाठः (Word-by-word)
यम् । भ॒द्रेण᳚ । शव᳚सा । चो॒दया᳚सि । प्र॒जा॑व᳚ता । राध᳚सा । ते । स्या॒म॒ ॥
सायणभाष्यम् (Sayana Commentary)
हे सुद्रविणः शोभनधनादितेऽखंडनीयाग्ने सर्वताता सर्वासु कर्मततिषु । यद्वा सर्वेषु यज्ञेषु वर्तमानाय यस्मै यजमानायानागास्त्वमपापत्वं पापराहित्येन कर्मार्हतां त्वं ददाशः प्रयच्छसि स यजमानः समृद्धो भवति । यं च यजमानं भद्रेण भजनीयेन कल्याणेन शवसा बलेन चोदयासि संयोजयसि सोऽपि समृद्धो भवति । वयं च स्तोतारः प्रजावता प्रजाभिः पुत्रपौत्रैर्युक्तेन ते राधसा त्वया दत्तेन धनेन युक्ताः स्याम । भवेम ॥ सुद्रविणः सोभनानि द्रविणानि धनानि यस्य । द्रु गतौ । द्रुदक्षिभ्यामिनन् (उ २-५०) द्रविणशब्दस्यांते मकारोपजनश्छांदसः । ददाशः । दाशृ दाने । लेट्यडागमः । बहुलं छंदसीति शपः श्लुः । अभ्यस्तानामादिरित्याद्युदात्तत्वम् । सर्वताता । सर्वदेवात्तातिलिति स्वार्थे तातिल्प्रत्ययः । यास्कपक्षेतु सर्वाः स्तुतयो येषु यागेष्विति बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । वर्णव्यापत्त्यात्वम् । उभयत्रापि सुपां सुलगिति सप्तम्या डादेशः । चोदयासि । चुद प्रेरणे । लेट्याडागमः ॥ १५ ॥