श्रवणम्

1.94.7
यो वि॒श्वतः᳚ सु॒प्रती᳚कः स॒दृङ्ङसि᳚ दू॒रे चि॒त्सन्त॒ळिदि॒वाति᳚ रोचसे ।
रात्र्या᳚श्चि॒दन्धो॒ अति᳚ देव पश्य॒स्यग्ने᳚ स॒ख्ये मा रि᳚षामा व॒यं तव᳚ ॥
▶ पदपाठः (Word-by-word)
यः । वि॒श्वतः᳚ । सु॒॑प्रती᳚कः । स॒॑दृङ् । असि᳚ । दू॒रे । चि॒त् । सन् । त॒ळित्॑इ᳚व । अति᳚ । रो॒च॒से॒ ।
रात्र्याः᳚ । चि॒त् । अन्धः᳚ । अति᳚ । दे॒व॒ । प॒श्य॒सि॒ । अग्ने᳚ । स॒ख्ये । मा । रि॒षा॒म॒ । व॒यम् । तव᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने यस्त्वं सुप्रतीकः शोभनांगः सन् विश्वतः सर्वस्मादपि सदृङ्ङसि अन्यूनः सदृशो भवसि स त्वं दूरे चित्सन् दूरेऽपि वर्तमानः सन् तळिदिव । अंतिकनामैतत् । अंतिके वर्तमान इवाति रोचसे । अतिशयेन दीप्यसे । तदुक्तं यास्केन । दूरेऽपि सन्नंतिक इव सन्दृश्यसे (नि ३-११) इति । रात्र्याश्चित् रात्रेरपि रात्रेः संबंधिनमंधो बहुलमंधकारमपि हे देव द्योतमानाग्नेऽति पश्यसि । अतीत्य प्रकाशसे । अन्यत्पूर्ववत् ॥ सुप्रतीकः । शोभनं प्रतीकोऽंगं यस्य । क्रत्वादयश्चेत्युत्तरपदाद्युदात्तत्वम् । सदृङ् । समानान्ययोश्चेति वक्तव्यं पा ३-२-६०-१ । इति समानोपपदाद्दृशेः क्विन् । दृक् दृशवतुषु (पा ६-३-८९) इति समानस्य सभावः । दृक्स्ववःस्वतवसां छंदसि (पा ७-१-८३) इति नुम् । संयोगांतलोपः । क्विन्प्रत्ययस्य कुरिति कुत्वम् । कृदुत्तरपदप्रकृतिस्वरत्वम् । रात्र्याः । रात्रेश्चाजसौ । पा सू ४-१-३१ । इति ङीप् ॥ ७ ॥