अथा᳚ य॒ज्ञाय᳚ गृण॒ते सु॒गं कृ॒ध्यग्ने᳚ स॒ख्ये मा रि᳚षामा व॒यं तव᳚ ॥
पदपाठः (Word-by-word)
अथ᳚ । य॒ज्ञाय᳚ । गृ॒ण॒ते । सु॒॑गम् । कृ॒धि॒ । अग्ने᳚ । स॒ख्ये । मा । रि॒षा॒म॒ । व॒यम् । तव᳚ ॥
सायणभाष्यम् (Sayana Commentary)
हे अग्ने त्वं वधैर्हननसाधनैरायुधैर्दुःशंसान्दुःखेन कीर्तनीयान्दूढ्योदुर्धियः पापबुद्दीनप जहि । वधं प्रापय । ये केचित् ये के चन दूरे विप्रकृष्टदेशे वांतिके समापदेशे वा वर्तमाना अत्रिणोऽत्तारो राक्षसादयो विद्यंते तान्दुर्धियोऽप जहीत्यर्थः ॥ अथानंतरं यज्ञाय यज्ञपतये गृणते त्वां स्तुवते यजमानाय सुगं शोभनं मार्गं कृधि । कुरु । आन्यत्पूर्ववत् ॥ वधैः । हनश्च वध इति हंतेः करणेऽप् वधादेशश्च । स चादंतोऽंतोदात्तः । तस्यातो लोपे सत्युदात्तनिवृत्तिस्वरेण प्रत्ययस्योदात्तत्वम् । दुःशंसान् । ईषद्दुःसुष्विति कर्मणि खल् । लितीति प्रत्ययात्पूर्वस्योदात्तत्वम् । जहि । लोट हिः । हंतेर्ज इति जादेशः । तस्यासिद्धवदत्राभादित्यसिद्थत्वाद्धेर्लुगभावः । अंति । अंतिकस्य कादिलोपो बहुलमिति कलोपः । अत्रिणः । अदेस्त्रिनि चेति त्रिनिप्रत्ययः इकारो नकारपरित्राणार्थः । गृणते । शतुरनुम इति विभक्तेरुदात्तत्वम् । सुगम् । सुदुरोरधिकरणे । पा ३-२-४८-३ । इति गमेर्डः । कृधि । श्रुशृणुपृकृवृभ्यश्छंदसीति हेर्धिः । बहुलं छंदसीति विकरणस्य लुक् ॥ ९ ॥