विश्वा᳚ वि॒द्वा{4} आर्त्वि᳚ज्या धीर पुष्य॒स्यग्ने᳚ स॒ख्ये मा रि᳚षामा व॒यं तव᳚ ॥
पदपाठः (Word-by-word)
विश्वा᳚ । वि॒द्वान् । आर्त्वि᳚ज्या । धी॒र॒ । पु॒ष्य॒सि॒ । अग्ने᳚ । स॒ख्ये । मा । रि॒षा॒म॒ । व॒यम् । तव᳚ ॥
सायणभाष्यम् (Sayana Commentary)
हे अग्ने त्वमध्वर्युरध्वरस्य यागस्य नेता देवान्प्रति प्रेरयिता यद्वा याग आध्वर्यवस्य कर्ता भवसि । अध्वर्यौ मनुष्ये जाठररूपेण वागिंद्रयाधिष्ठातृत्वेन वावस्थाय यागनिष्पादकोऽसि । उतापि च पूर्व्यो मुख्यो होता देवानामाह्वाता पूर्ववद्धोतर्यवस्थाय हौत्रस्य कर्मणः कर्ता वासि । भवसि । मानुषो होतामुख्यः तदपेक्षयाऽस्य मुख्यत्वम् । तथा प्रशास्ता प्रकर्षेण शास्ता सर्वेषां शिक्षकोऽसि । यद्वा । होतर्यज पोतर्यजेत्यादीना प्रैषेण शास्तीति मैत्रावरुणः प्रशास्ता । पूर्ववत्तस्मिन्नवस्थाय यागनिष्पादकोऽसि । पोता यज्ञस्य पावयिता शोधयितासि यद्वा पोतृनामकस्यर्त्विजः पूर्ववदधिष्ठाय यागनिष्पादकोऽसि । तथा जनुषा जन्मना स्वाभाव्येन पुरोहितः पुरस्तादागामिनि स्वर्गादौ हितोऽनुकूलाचरणोऽसि । यद्वा । सर्वेषु कर्मसु पूर्वस्यां दिश्याहवनीये स्थापितोऽसि । अथवा पुरोहितो ब्रह्मा देवपुरोहितस्य बृहस्पतेः प्रतिनिधित्वात् । तथा च मंत्रांतरम् । बृहस्पतिर्देवानां ब्रह्माऽहं मनुष्याणामिति । अतस्तस्मिन्ब्रह्मणि पूर्ववदवस्थाय तद्रूपः सन्विश्वा सर्वाण्यार्त्विज्या ऋत्विजः कर्माण्याध्वर्यवादीनि विद्वान् जानंस्त्वं हे धीर प्राज्ञाग्ने पुष्यसि । न्यूनाधिकभावराहित्येन संपूर्णानि करोषि । अन्यत्समानं ॥ जुनुषा । जनेरुसिः । पुरोहितः । दधातेः कर्मणि निष्ठा पूर्वाधरेत्यादिनासिप्रत्ययांतः पुरस् शब्दोऽंतोदात्तः । तद्धितश्चासर्वविभक्तिरित्यव्ययसंज्ञायां पुरोऽव्ययमिति गतित्वाद्गतिरनंतर इति पूर्वपद प्रकृतिस्वरत्वम् । आर्त्विज्या । ब्राह्मणादित्वात् ष्यञ् । ञित्त्वादाद्युदात्तत्वं ॥ ६ ॥